भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 61-80

61

शृणु तस्य चारुहासिनि वेषग्रहणं च चेष्टितं चैव ।
निपतति च यथा तूर्णं प्रियसुरभिकुसुमशरासनप्रसरे

62

स्थूलस्थापितचूलकपञ्चाङ्गुलमात्रकेशविन्यासः ।
लम्बश्रवणनिवेशितकरपत्रिकघटितदशनपङ्क्तिश्च

63

करशाखाश्रितमुद्रिकचामीकरकण्ठसूत्रिकाभरणः ।
परिमृष्टगात्रकुङ्कुमकिञ्चित्पिञ्जरितवसनसंवीतः

64

प्रविलम्बिकुसुमदामकगलमण्डनजातरूपकृतशोभः ।
अन्तर्निविष्टसिक्थिततौरुष्किकखुश्शिकादिचरणत्रः

65

नानावर्णविवेष्टितबहलदशापाशबद्धततकेशम् ।
एकस्मिन्दलवीटकमपरस्मिन्सीसपत्रकं कर्णे

66

उच्चण्डकनकगर्भितकुङ्कुमपिञ्जरितवस्तिपरिधानम् ।
स्थूलतरकाचवर्तकमालां च गले दधानेन

67

वृश्चिकरञ्जितकररुहकरमूलनिबद्धशङ्खचक्रेण ।
प्रथमवयस्त्वं भजता ताम्बूलकरङ्कवाहिनानुगतः

68

श्रेष्ठिवणिग्विटकितवप्रधानरङ्गस्य सुमहतो मध्ये ।
शूलापालस्थापितकतिपयवध्रोरुपीठिकासीनः

69

उत्सङ्गार्पितखड्गैरयथातथभाषिभिर्महौद्धत्यम् ।
बिभ्राणैरनुजीविभिरधिष्ठितः पञ्चषैः पुरुषैः

70

चतुरतरसेवकार्पितपृष्ठपरिक्षिप्तपूर्वदेहांशः ।
अन्तर्विधृतावेलप्रोच्छूनकपोलकलितकरपर्णः

71

अनपेक्षितप्रसङ्गः पुनः पुनः पठति सोन्नतभ्रूकः ।
गाथाश्लोकप्रायं भावितचेता यथातथाधीतम्

72

विस्मयलोलितमौलिः पार्श्वगतान्ताडयन्रसावेगात् ।
हाकष्टसाधुवादैरन्तरयति परसुभाषितश्रवणम्

73

इदमुक्तो रहसि रुषा तातेन नृपो नृपेण तातो ऽपि ।
इति पितुराविष्कुरुते महीभृतः प्रणयविश्वासौ

74

पत्रच्छेदमजानन् जानन्वा कौशलं कलाविषये ।
प्रकटयति जनसमाजे बिभ्राणः पत्रकर्तरीं सततम्

75

ब्रह्मोक्तनाट्यशास्त्रे गीते मुरजादिवादने चैव ।
अभिभवति नारदादीन् प्रावीण्यं भट्टपुत्रस्य

76

वसुनन्दचित्रदण्डकमुक्तायुधखड्गधेनुबन्धेषु ।
व्रजति पुरतो ऽस्य नियतं भार्गवतां परशुरामो ऽपि

77

वात्स्यायनमयमबुधं बाह्यं दूरेण दत्तकाचार्यम् ।
गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्रं च

78

यः प्रार्थितो ऽपि यत्नात्कवचं राधासुतो ददाति स्म ।
अविचिन्तितवसुवर्षस्त्यागगुणं हसति तस्यायम्

79

प्रपलायनैकहृदये यो विक्रममातनोति हरिणे ऽपि ।
सिंहस्य तस्य शौर्यं त्रपाकरं भट्टपुत्रस्य

80

आखेटके ऽपि कौतुकमस्त्येव जयश्च चञ्चले लक्ष्ये ।
भट्टभयेन न खेलति भट्टसुतः किं त्वतिप्रकटम्

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc