भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 101-120

101

महिषीव पङ्कदिग्धा हंसीव मृणालवलयपरिवारा ।
सुभग मयूरीवासौ भुजङ्गविद्वेषिणी जाता

102

कदली चन्दनपङ्कः पङ्केरुहनीरहारघनसारम् ।
शशधरशशधरकान्तं शान्त्यै नो मदनहुतभुजस्तस्याः

103

अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैरिति वदति दिवानिशं बाला

104

संकल्पैरुपनीतं त्वामन्तिकमुल्लसन्मनोवृत्तिः ।
दृढमालिङ्गति पश्चात्स्वभुजापीडेन याति वैलक्ष्यम्

105

कुसुमामोदी पवनः पिककूजितभृङ्गसार्थरसितानि ।
इयमियती सामग्री घटिता विधिनैव तद्विनाशाय

106

अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष ।
आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म

107

नो गृह्णन्ति यथार्था अर्थिजनैर्निगदिता गिरः प्रायः ।
मालत्या गुणलेशं शृणु धृष्टतया तथापि कथयामि

108

आस्फालयतो नूनं धनुरतनोः कौसुमं रजः पतितम् ।
संहृत्य सा सुमध्या विश्वसृजा निर्मिता तेन

109

उपहसति गिरिसुताया लावण्यं येन सततलग्नेन ।
न द्रवतामुपनीतं भोगीन्द्रविभूषणस्य देहार्धम्

110

शशधरबिम्बार्धगतां छायामिव सैंहिकेयवदनस्य ।
अलिपटलनीलकुटिलामलकावलिमलिकसंनिधौ वहति

111

सरसिजमस्थिरशोभं विभ्रमरहितं च मण्डलं शशिनः ।
केन समेतु समत्वं हृदयप्रिय मालतीवदनम्

112

अलिरुपरि तदीक्षणयोर्भ्रान्त्वासौगन्ध्यसूचितविशेषः ।
निपतति कर्णाम्बुरुहे निर्गुणताप्यवसरे साध्वी

113

बिभ्राणे ऽरुणिमानं सहजं जितबन्धुजीवरुचिमधरे ।
यदलक्तकविन्यसनं तत्तस्या मण्डनक्रीडा

114

चित्रमिदं यत्कृशता तस्या वलिपरिगृहीतमध्यस्य ।
अथवा नो विधिविहिता महताप्यपनीयते तनुता

115

आस्तामपरस्तावत्तस्याः स्मरवसतिपृथुतरनितम्बः ।
श्लथयति कपिलमुनेरपि दृक्पथपतितः समाधानम्

116

तस्या रम्भावपुषो रम्भोपममूरुयुगलमवलोक्य ।
मकरध्वजो ऽपि सहसा निजसायकलक्ष्यतां याति

117

जघनभरालसयाता नो याता सा विलोचनप्रसरम् ।
तिष्ठति तेन मनोहर शरजन्मा ब्रह्मचर्येण

118

यदि कथमपि मधुमथनः पश्यति तामसमबाणसर्वस्वम् ।
तदसारभारभूतं लक्ष्मीवपुरुरसि विनिहितं मनुते

119

यदि पतति सा कथं चिद्वीक्षणविषयं हरस्य तदवश्यम् ।
त्रिभुवनमशिवं कुरुते वामेतरदेहभागमासाद्य

120

सौन्दर्यं तत्तादृशमशेषयोषिद्विलक्षणं सृजतः ।
यन्निष्पन्नं धातुस्तन्मन्ये काकतालीयम्

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc