कुट्टनीमत · श्लोक 741-760
केयूरस्थानगतस्वर्णावृतमन्त्रगर्भजतुगुडकः ।
मणिबन्धनविन्यस्तप्रचलाङ्कुरजातरूपमणिमालः
धृतवेत्रदण्ड ऊर्णकपरिवेष्टितसासिधेनुकनितम्बः ।
मृदुतरपटिकावरणः शब्दोल्बणचुर्चुराङ्कचरणत्रः
गम्भीरेश्वरदास्यां लग्नः किल तव वयस्यको वीरः ।
प्राप्स्यति सापि दुराशावर्षत्रितयेन यन्मया प्राप्तम्
दर्शयति दिशः फलिता अमृतगभस्तिं करे ऽवतारयति ।
सुरदेवि चन्द्रवर्मा निर्वस्तुकवाक्प्रपञ्चेन
त्वामनुयान्तं सम्प्रति पश्यामि कुरङ्गि वसुषेणम् ।
सुनिरूपिता भविष्यसि विषमा गुडजिह्विका तस्य
चर्वयति जलं यो ऽसौ हरिणि हरो धूर्तताभिमानेन ।
लिखति शतं दशवृद्ध्या स निमग्नस्तरलिकावर्ते
गृह्णासि यत्पटान्ते मम पश्यत एव नन्द मदिराख्याम् ।
अत आवयोरवश्यं मा वक्ष्यसि नोक्तमन्तरं भवति
यो ऽयं गृहीतबृसिकः कुशकर्णो विधृतदण्डकाषायः ।
लोकस्पर्शाशङ्की कृतापसारो विलोकयन् पार्श्वौ
कुर्वाणो मौनव्रतमुत्पादितसकलवैष्णवश्रद्धः ।
हरिशासनं प्रपन्नस्त्रिपुरान्तकदर्शनापदेशेन
स्त्रैणं पश्यति युक्त्या साकाङ्क्षं वर्जितान्यजनदृष्टिः ।
कुमुदिनि मम हृदयगतं भवितव्यं व्याजलिङ्गिनानेन
पश्यत्यदृश्यमानो निरीक्षितो वीक्षते परां ककुभम् ।
ब्रूते किं चित्सस्पृहमभियुक्तो भवति कीलितध्वानः
न जहाति समासन्नं नोत्सहते स्पर्शगोचरे स्थातुम् ।
एष मनुष्यो मन्ये निष्प्रतिभः साभिलाषश्च
ते ऽतीताः खलु दिवसाः क्रियते नर्म त्वया समं येषु ।
अधुनाचार्यानी त्वं भाशुद्धाचार्यसम्बन्धात्
भ्रमसि यथेष्टं तावत्कुर्वाणो युवतिपल्लवग्रहणम् ।
लोलिकदास न यावन्नरदेवीपाशिकां विशसि
एवंप्रकारवाक्यप्रसक्तविटचेटिकासमाकीर्णम् ।
सेवाचतुरपुरःसरविजनीकृतवर्त्म देवकुलम्
सम्पादितहरपूजो निष्ठुरयाष्टीकनियमिते लोके ।
त्वरितनियोगिस्थापितमासनमध्यास्त समरभटः
अग्रोपविष्टनर्तकवांशिकगातृप्रकाशयुवतिगणः ।
श्रेष्ठिप्रमुखवणिग्जनढौकितताम्बूलकुसुमपटवासः
विविधविलेपनखरटितचक्रकधरखड्गधारिणाशून्यः ।
पृष्ठत आत्तकृपाणैः शिरोभिरक्षैश्च विश्वस्तैः
ताम्बूलकरङ्कभृता सन्दंशगृहीतवीटिकाग्रहणे ।
ईषत्स्पृष्टं कुर्वन्मन्दं खटकामुखेन वामेन
पार्श्वावस्थितनर्मप्रियसचिवन्यस्तपूर्वतनुभागः ।
पप्रच्छ कुशलवार्तां स वणिग्जननर्तकप्रभृतीन्
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0