कुट्टनीमत · श्लोक 721-740
जीव्यत एव कथं चिद्धिग्वृत्तिमिमां महद्भिरवगीताम् ।
विजहाति यन्न गणिका तद्वाञ्छितरमणलाभलोभेन
कण्टकिनः कटुकरसान् करीरखदिरादिविटपतरुगुल्मान् ।
उपभुञ्जाना करभी दैवादाप्नोति मधुरमधुजालम्
का श्रीरप्रणयिवशा का विलसितयो मनोभवविहीनाः ।
को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानाम्
स्वाच्छन्द्यफलं बाल्यं तारुण्यं रुचितसुरतभोगफलम् ।
स्थविरत्वमुपशमफलं परहितसम्पादनं च जन्मफलम्
अभिदधतीमिदमालीमवकर्ण्य गृहीतयेव भूतेन ।
यौवनसुखेन सार्धं मयैव यूयं परिच्छिन्नाः
अधुनानुतापपावकमध्यगता पच्यमानसर्वाङ्गी ।
निष्फलजन्मप्राप्तिर्जीवाम्युच्छ्वासमात्रेण
स्थानेषु येषु युष्मत्संगतया क्रीडितं चिरं धृत्या ।
तानि खलु वीक्षमाणा भवामि कण्ठस्थितप्राणा
अन्यवशेन विसंज्ञा कृतभूषा यन्त्रसूत्रसंचारा ।
दारुमयीव प्रतिमा विदधामि विडम्बना बह्वीः
यदि नामोदरभरणप्राप्त्यै कुरुते ऽन्यपुष्पसंश्लेषम् ।
तदपि न पुष्टिर्भृङ्ग्या अपिबन्त्या आरविन्दमकरन्दम्
आस्तामपरो लोकः क्रीडापेक्षी परापदि प्रीतः ।
व्यसनार्णवे पतन्ती न वारिता परिजनेनास्मि
किं वा बहुभिः कथितैः सम्प्रति नियमे तु नियमिता बुद्धिः ।
स्थास्यामि संनियुक्ता भवद्गृहे प्रेष्यकार्येषु
इति नेत्रादिविकारैर्वशमुपनीतं प्रलीनधैर्याङ्गम् ।
मारग्रहाभिभूतं परिमृष्टप्राङ्निराकृतिस्मरणम्
प्रादुर्भूतरिरंसं क्षणे क्षणे जत्रुदेशगतदृष्टिम् ।
पक्वाम्रमिव विमोक्ष्यसि पूर्ववदाचूष्य सुभ्रु निःशेषम्
स्वशरीरामिषदिग्धं वक्रस्मितदृष्टिपातवाग्बडिशम् ।
प्रक्षिप्याकृश्य जडं स्फुरणेन विवर्जितं सुपरिपुष्टम्
हस्तद्वयान्तरागतमुपचारपरिव्ययेन संस्कृत्य ।
भुक्त्वा यावन्मांसं त्यक्ष्यसि चर्मास्थिशेषितं मत्स्यम्
शृणु सुश्रोणि यथास्मिन् कलशेश्वरपादमूलमञ्जर्या ।
प्रवराचार्यदुहित्रा राजसुतश्चर्वितश्च मुक्तश्च
आसीच्छ्रीसिंहभटो नाम्ना नृपतिर्महीयसां प्रष्ठः ।
तस्यात्मजो ऽधितस्थौ निवेशनं देवराष्ट्रसंबद्धम्
स कदा चिद्वृषभध्वजदिदृक्षया परिमिताप्तपरिवारः ।
अनुवर्तमान आगात्तारुण्योदीर्णवेशचरितानि
मूर्धत्रिभागसंस्थितबृहदम्बरचीरकेशसंयमनः ।
अल्पाच्छगात्ररागो घनकुङ्कुमलिप्तकर्णकेशाग्रः
सिद्धार्थबीजदन्तुरललाटतिलकोपयुक्तताम्बूलः ।
श्रवणनिवेशितकुण्डलटीटिभकप्रायकन्धराभरणः
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0