भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 701-720

701

तामेव समाचरणां सदसद्भावप्रवर्तितां निपुणैः ।
विन्दन्ति तत्र कुशलाः स्नेहविरूक्षप्रभेदेन

702

तव तु विरूढप्रेम्णस्तत्कर्मविवेचनं मनोवृत्तिः ।
नारुहतीति मयैवं निवेदितं पारिचित्येन

703

इति दुर्जनाहिनिःसृतवाग्विषदूषितसमस्तवपुषो मे ।
ईर्ष्यारुजः प्रवृद्धाश्चिररूढप्रणयखण्डनप्रभवाः

704

लघुहृदयतया यस्माद्दुर्भाषितवज्रपातविहतानाम् ।
वक्तृविशेषवितर्को न स्पृशति प्रायशो मनः स्त्रीणाम्

705

प्रियमपि वदन् दुरात्मा क्षिपति विपत्सागरे दुरुत्तरे ।
आसाद्य प्राणभृतो मृतये परिलेढि जिह्वया खड्गः

706

हितमधुराक्षरवाणीव्यवहारमनुप्रविश्य तल्लीनम् ।
सरला दुराशयानामुपघातं फलत एव विन्दन्ति

707

परसंतापविनोदो यत्राहनि न प्रयाति निष्पत्तिम् ।
अन्तर्मना असाधुर्न गणयति तदायुषो मध्ये

708

दिवसान्तानभिनन्दति बहु मनुते तेषु जन्मनो लाभम् ।
ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन

709

विकसितवदनः प्रखलः प्रोत्फुल्लविलोचनो यथा भ्रमति ।
मन्ये तथा न जातः सदहितकरणश्रमो वन्ध्यः

710

शठमृगयुः कुसृतिशरैरज्ञातप्रतिविधानसाधुमृगान् ।
अभ्यस्तलक्षवेधो निघ्नन्न परिश्रमं व्रजति

711

अनुकूलवरपुरन्ध्रिषु पुरुषाणां बद्धमूलरागाणाम् ।
नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु

712

सावरणं व्रजतो ऽन्यां कौतुकदृष्ट्या प्रसङ्गतो दयितान् ।
बुद्ध्वापि विदग्धधियो वर्तन्ते नाट्यधर्मेण

713

सत्यं प्रेमणि वृद्धे व्यथयति हृदयं मनागपि स्खलितम् ।
अवधृतनिजमाहात्म्यास्तदपि न धीरा विमुह्यन्ति

714

स्वच्छन्दं पिबतु रसं भ्रान्त्वा भ्रान्त्वा वनानि कुसुमेषु ।
अनुभूतगुणविशेषः पुनरेष्यति मालतीं मधुपः

715

मालत्या गुणवत्तां सम्यग्नो वेत्ति मधुकरस्तावत् ।
अनुभवमेति न यावत्सुमनोन्तरसंगमास्वादे

716

कोमलमानकदर्थां भजमानो भजति दीप्ततामधिकाम् ।
संचाल्यमानदारुः पावक इव सुप्रभः स्नेहः

717

यः पुनरतिकोपानलसंतापवशेन दूरमाकृष्टः ।
काचमणिः स खलु यथा परिणामे खण्डखण्डमुपयाति

718

वेतनलोभाद्बहवः सेव्यन्ते सौष्ठवेन पञ्चजनाः ।
विश्राम्यति यत्र मनः स तु दुष्प्रापः सहस्रेषु

719

मन्वादिमुनिवरैरपि कालत्रयवेदिभिः सुदुर्ज्ञेयम् ।
तत्सुकृतं यस्य फलं रभसागतवल्लभाश्लेषः

720

याते ऽपि नयनमार्गं प्रेयसि यस्याः स्मृतिर्व्यलीकेषु ।
मन्ये तां प्रति नियतं कुण्ठितशरपञ्चकः मदनः

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc