भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 681-700

681

किं निर्मितो ऽसि धात्रा नवो ऽपरः किमु वसन्तगुण एषः ।
कुसुमशरपूर्णतूणः किमुताभवदन्य एव कन्दर्पः

682

नो पश्यसि यदि ककुभः प्रचुरोज्ज्वलसुरभिकुसुमरमणीयाः ।
परभृतकूजितमिश्रान्न शृणोषि यदि द्विरेफझङ्कारान्

683

गन्धं यदि नो लभसे वासितदिग्व्योम सुमनसां हृद्यम् ।
अनुभवसि यदि स्पर्शं नो शीतलदाक्षिणात्यपवनस्य

684

रसनेन्द्रियैकशेषः परसंचार्यो जनेन परिभूतः ।
नार्हसि ततो ऽपि मुक्त्वा निजाश्रयं गन्तुमन्यतो नितराम्

685

अस्मिन्सरसि सलीलं करयन्त्रविनिर्यदम्बुधाराभिः ।
दयितेन ताडिताहं मयाप्यसावाहतो मृणालिकया

686

पुनरन्तर्जलमग्नो मामुपगम्याविभावितः सहसा ।
उच्चिक्षेप सहासं हासितसंनिहितपरिवारः

687

संसक्तार्द्रावरणं जघनं नः पश्यतस्तदा तस्य ।
प्रथमाकाङ्क्षाकूतं भेजे सम्भोगशृङ्गारः

688

कालप्रदेशवेशव्यापारस्थितिविशेषघटनाभिः ।
चिररूढो ऽपि हि यूनां नवत्वमुपनीयते रागः

689

सादरमर्पयतो ऽब्जं गोत्रस्खलनापराधिनस्तस्य ।
सख्यः स्मरामि सहसा विलक्षतां क्लिष्टहसितस्य

690

प्रत्यग्रनखव्रणिते स्तनान्तरे क्षिपति लोचने स्पृहया ।
प्रेयसि ह्रीताच्छादनमकरवमहमब्जिनीपत्रम्

691

क्षिप्त्वातर्कितमम्भो गर्भितनलिनीपलाशपुटमारात् ।
आहतया यद्विकृतं स्वस्थधिया तन्न शक्यते कर्तुम्

692

सुश्लिष्टो हावविधिर्मदनालसगात्रजृम्भितं ललितम् ।
गूढस्थानप्रकटनमङ्गुलिविस्फोटनं स्मितं सुभगम्

693

नीविविमोचनबन्धौ मुहुर्मुहुः केशपाशविश्लेषः ।
स्वाधरदशनग्रहणं बालकपरिचुम्बनं रतोत्सुकता

694

साकाङ्क्षितं क्षिपन्त्यास्तरलायतलोचने मुहुः काम्ये ।
उद्दिश्य तद्वयस्यकमिति शोकग्रस्तवर्णगिरः

695

एकीभावं गतयोर्जलपयसोर्मित्रचेतसोश्च तथा ।
व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च

696

अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शण्ठः ।
परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव

697

येन तदा मामूचे परिजनमुत्सार्य विवृतनटमन्युः ।
दर्शितहितस्वरूपः परपीडाकरणपण्डितः प्रखलः

698

अविदितगुणान्तराणां को दोषः प्रान्तदेशवासानाम् ।
स्वाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले

699

क्व महीतलरम्भा त्वं न्यक्कृतचन्द्रप्रभा स्वदेहरुचा ।
चित्रलता क्व वराकी नीचैरुपसेविता वोटा

700

यस्यार्थे न विगणिताः प्रह्वात्मानो महाधनाः कुलजाः ।
सो ऽद्य हृदयेन तस्यां त्वयि तिष्ठति बाह्यवृत्तेन

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc