कुट्टनीमत · श्लोक 601-620
संनिहितकलत्राणामनुचितमिति बाह्यलोकसंवदनात् ।
अन्यस्मिन्नुदवसिते विसर्जितामिष्टमालतीकेन
लोकेन हास्यमानां बिभ्राणां वाससी जलक्लिन्ने ।
रूपमदमुत्सृजन्तीं वैलक्ष्यव्रीडितेन नतवदनाम्
पश्चात्तापगृहीतां कण्टकदर्भाग्रभिन्नपादतलाम् ।
अस्मद्वचः स्मरन्तीं द्रक्ष्यन्त्यभिसारिकां सुकर्माणः
इति परुषमभिदधानां मातरमवधीर्य युष्मदभ्यासम् ।
चौरहतका व्रजन्तीं विद्रावितरक्षिणः सखीं मुमुषुः
एषा प्रपञ्चरचना यदि भवति वृथा पुनः पुरस्तस्य ।
वणिगिदमुपेत्य वक्ष्यति सहायपरिचोदितो भवतीम्
पूर्वादत्तस्योपरि मुक्ताहारस्य केदरास्त्रिंशत् ।
परिचारिकयानीता अन्यानपि मृगयते व्ययस्य कृते
यत्तु घनसारकुङ्कुमचन्दनधूपादि मुक्तकं दत्तम् ।
तत्सम्पुटके लिखितं शृणु पिण्डनिकां करोमि ते पुरतः
एतावन्तं कालं नावष्टभ्यार्थिता त्वमसि ।
रिक्तं भाण्डस्थानं साम्प्रतमिति याचना क्रियते
एवंवादिनि तस्मिन्किं चिल्लज्जानता क्षणं स्थित्वा ।
प्रश्रितया वाचा वाच्यः सवैलक्ष्यम्
हारस्तवैव तिष्ठतु मध्यस्थस्थापितेन मूल्येन ।
शेषं ततो यदन्यत्तद्दिवसैः संपादयिष्यामि
इयमपि कपटग्रथना षण्डसमा चेत्तद् ईदृगभिधेयम् ।
आशङ्कन्ते ऽनिष्टं कातरहृदया हि योषितः प्रायः
अपटुशरीरे स्वामिनि विज्ञप्ता भगवती मया गत्वा ।
भवतु निरामयदेहो जीवितनाथस्तव प्रसादेन
सम्पन्नवाञ्छिताहं बल्युपहारेण पूजयिष्यामि ।
सामग्रीविरहेण तु न वितीर्णा तत्र मे मनसि शूका
अस्मिन् व्यर्थीभूते रिक्तीकृतशीर्णवेश्मनो दाहम् ।
उत्पाद्य मन्दगामिनि सर्वविनाशः प्रकाशमुपनेयः
स्निग्धत्वमलं बुद्ध्वा सहभोजनशयनवसनलिङ्गेन ।
एभिरुपायद्रव्यैर्वान्तविरिक्तस्त्वया कार्यः
वार्धुषिककदर्थनया भोगध्वंसात्सहायवचनैर्वा ।
अवधारिते ऽपि निपुणं वरगात्रि विलुप्तसारत्वे
परुषवचोनिर्धारणमायत्यामीहितोपघातीति ।
यत्नादमी विधेया गम्यस्य विमोक्षणोपायाः
पृथगासननिर्देशः प्रत्युत्थानादिकेषु शैथिल्यम् ।
सासूयसोपहासा आलापा मर्मवेधि परिहसितम्
तत्प्रतिपक्षश्लाघा तदधिकगुणरागकीर्तनावृत्तिः ।
वदति प्रियमाभीक्ष्ण्यं बहुप्रलापित्वदूषणाख्यानम्
वचनान्तरोपघातैस्तत्प्रस्तुतसंकथासमाक्षेपः ।
तद्व्यवहारजुगुप्सा सव्यपदेशस्तदन्तिकत्यागः
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0