भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 41-60

41

मातः किं विदधामो हतधातुर्वामताभियोगेन ।
नासादयाम इष्टं निजतनुपण्यप्रसारकेणापि

42

तत्कुरु मातरनुग्रहमभिधत्स्व ममापि देहिनो भोग्यान् ।
तेषां च वेशचेष्टितमनसिजशरजालपातनोपायान्

43

इति गिरमुदीरयन्तीं सप्रेमामृश्य पाणिना पृष्ठे ।
रुचिरवचो विकराला रुचिराकृतिमालतीमूचे

44

अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः ।
चिकुरभरस्तव सुन्दरि कामिजनं किङ्करीकुरुते

45

अयमेव ते कृशोदरि मन्दोल्लसितभ्रुविभ्रमाधारः ।
अधरीकरोति धीरान् मधुरस्मितसुभगवीक्षितविशेषः

46

इयमेव वदनकान्ती रतिकान्ताकूतमतितरां कुरुते ।
श्रुतिपथमप्युपयाता नियतं तव कामिनां मनसि

47

इयमेव दशनपङ्क्ती रुचिराचिरकान्तिकान्तिसमकान्तिः ।
उत्पादयति नितान्तं तव मन्मथदाहवेदनां पुंसाम्

48

इदमेव समुल्लपितं लीलावति विजितपरभृतध्वानम् ।
तव निःशेषभुजङ्गव्याकर्षणसिद्धमन्त्रवच्चित्रम्

49

इदमेव मकरकेतननिकेतनं स्तनयुगं तवाभोगि ।
भोगवति भोगसाधनमपरोपायग्रहो व्यर्थः

50

इदमेव बाहुयुगलं मृणालतनुसुन्दरं तवाभोगि ।
कस्य न जनयति मदनं कनकाङ्गदभूषणं सुतनु

51

अयमेव मध्यदेशः कन्दर्पादेशकरणचतुरस्ते ।
प्रकृशो ऽपि शरीरभृतो दशमीं प्रापयति मन्मथावस्थाम्

52

इयमेव रोमराजिः सङ्कल्पजचापयष्टिगुणशोभाम् ।
दधती विदधाति तव स्मरसायकशल्यविक्लवान् यूनः

53

इदमेव पृथुलजघनं कलधौतशिलातलाभिरमणीयम् ।
तव तरुणवशीकरणं यतिसंयतिनाशकारि करभोरु

54

इदमेव तवोरुयुगं रम्भागर्भोपमं मनोहारि ।
वद सुन्दरि नाभिमतं मदनज्वरतापशान्तये कस्य

55

यौवनकल्पतरोस्ते कनकलताविभ्रमं सुवृत्तम् इदम् ।
जङ्घायुगलं नेच्छति कामफलप्राप्तये क इव

56

निर्जितदाडिमरागं विजितस्थलकमलिनीविलासमिदम् ।
तव चरणसरोजयुगं कस्य न मानसमलङ्कुरुते

57

ह्रेपयति वारणेन्द्रं हंसं हसति प्रयातमिदमेव ।
तव लीलावति ललितं यूनां हृदयानि मथ्नाति

58

तदपि यदि ते कुतूहलमवधानं संविधाय तनुमध्ये ।
आकर्णय कथयामि स्वबुद्धिविभवानुसारेण

59

स्वीकुरु तावत्प्रथमं नृपसेवकभट्टसूनुमतियत्नात् ।
स्वाधीनामतिविपुलां यदि सम्पदमीहसे सुतनु

60

प्रत्यासन्नग्रामे स्वयं प्रभुः पितरि नित्यकटकस्थे ।
भट्टसुतश्चिन्तामणिराकृष्टो भवति पुत्रि नियमेन

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc