भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 581-600

581

चक्राह्वपरिष्वजनं हंससमाश्लेषनकुलपरिरम्भम् ।
पारावतावगूहनमाचरति सुमध्यमा यथावसरम्

582

तद्वक्रवचनहासव्यवहृतिहृतमानसस्य जायन्ते ।
अनुकूलसुन्दरा अपि भरणीयभराय केवलं दाराः

583

सूचयति पृथक्करणं भ्रातऋणां वक्ति विषमशीलत्वम् ।
विवृणोति गृहविसंस्थामभिनन्दति पितृकुलस्य गुणवत्ताम्

584

अन्यसुतपक्षपातं कथयति मातुस्तिरस्करोति पतिम् ।
पार्श्वनिमग्ना जाया मा यातु विमुच्य कार्मुकं मदनः

585

एवं कृते ऽपि सुन्दरि यदि तिष्ठति नायकः प्रकृत्यैव ।
इत्थं पथि परिमोषस्त्वत्सख्या नैपुणेन वक्तव्यः

586

गृहकार्यव्यग्रतया चित्तग्रहणाय वा कुलस्त्रीणाम् ।
नायाते भवति सखी प्रावृड्घनकलुषिते दिशां चक्रे

587

प्रग्रीवकशयनगता स्फारीभवदात्मसम्भवविकारा ।
त्वन्मार्गनिहितनेत्रा गीतामन्येन गीतिकामशृणोत्

588

यदि जीवितेन कृत्यं संभावय विरहिणि प्रियं तूर्णम् ।
घनरसितस्य हि पुरतः कदलीदलकोमलः कुलिशपातः

589

आकर्ण्य मामवादीद्धन्यास्ता युवतयः सखि कठोराः ।
या विषहन्ते दीर्घं प्रियतमविरहानलासङ्गम्

590

मम तु दिनान्तरिते ऽपि प्रेयसि लब्ध्वा सहायसामग्रीम् ।
विदधाति मकरकेतन उत्कलिकाविधुरितं हृदयम्

591

उत्कण्ठयति भृशं मां समीरणो बकुलकुसुमगन्धाढ्यः ।
प्रच्यावयन्ति धैर्यान्मधुरध्वनितैः कलापभृतः

592

सतडिन्मिलद्बलाकामसिताम्बुधरावलीं समुद्यन्तीम् ।
उत्सहते सा वीक्षितुमविरलमालिङ्गितो यया कान्तः

593

स्वेच्छागमनलघुत्वं बहुलापायं निशासु पन्थानम् ।
न विचारयन्ति महिला अभीष्टतमसङ्गतावुत्काः

594

क्रियतां भूषणशोभा त्वरयति मे मानसं मनोजन्मा ।
रञ्जयति मनो नितरां कलधौतनिवेशितं रत्नम्

595

घनजलदावृतककुभि प्रदोषसमये प्रदोषगमनाय ।
विदधानया कुबुद्धिं रागान्धे किमिदमारब्धम्

596

वचनप्रपञ्चसारं जायाश्रितमन्यदेशसम्बद्धम् ।
पुरुषमभिगन्तुकामा नवेयमभिसारिका दृष्टा

597

दरधौततिलकरचनां गलदम्भोबिन्दुलुलितकेशाग्राम् ।
तिम्यत्तनुलीनावृतिचण्डानिलसलिलपातकण्टकिताम्

598

अविभावितसमविषमप्रस्खलदङ्घ्रिं सहायकरलग्नाम् ।
पुरतो ऽध्वनः प्रमाणं मुहुर्मुहुः साध्वसेन पृच्छन्तीम्

599

अन्यस्मिन् प्रेतपतौ व्यग्रे कृच्छ्रेण कथमपि प्राप्ताम् ।
तत्कालयोग्यपरिजननिवेदितामिति विकल्प्य सह सचिवैः

600

किं प्रेम्णो ऽयं महिमा किमुतानन्त्यं धनप्रलोभस्य ।
किं वान्यतः प्रवृत्ता प्रवेशिता वातवर्षेण

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc