कुट्टनीमत · श्लोक 561-580
भास्करवर्मणि याते सुरवसतिं वारितापि भूपतिना ।
तद्दुःखमसहमाना प्रविवेश विलासिनी दहनम्
ज्वालाकरालहुतभुजि नग्नाचार्यः पपात नरसिंहः ।
तस्मिन्नेव शरीरं निजमजुहोच्छोकपीडिता दासी
प्रीतिभराक्रान्तमतिस्त्रिदशालयजीविकां क्रमोपनताम् ।
अङ्गीचकार मुक्त्वा जीहल्ला भट्टविष्णुमा मृत्योः
देशान्तरादुपेते प्रसादमात्रेण वीक्षिते वनिते ।
पादयुगं तत्यजतुर्न वामदेवस्य समिति निहतस्य
भट्टकदम्बकतनये याते वसतिं परेतनाथस्य ।
चक्रे देहत्यागं रणदेवी वारयोषितां मुख्या
अस्यामेव नगर्यां द्रविणमदात् कालसञ्चितमशेषम् ।
प्रेम्णाकृष्टा गणिका भट्टात्मजनीलकण्ठाय
इयमपि मयि विहितास्था मातृवचःश्रवणकलुषिता क्व गता ।
त्यक्त्वाभरणं सर्वं प्रविजृम्भितमन्युसंवेगा
उत्सृष्टालङ्करणां परिशेषितमातृमुक्तपरिवाराम् ।
संतर्पयामि सम्प्रति सर्वस्वेनापि हरिणाक्षीम्
गेहेन किं प्रयोजनमन्यैरपि बन्धुदारपरिवारैः ।
संसारग्रहकारणमेका खलु मालती मम हि
अमृतकरावयवैरिव घटिता सा दृढतरं परिष्वक्ता ।
चेतो नयति समत्वं ब्रह्मण आनन्दरूपस्य
आविर्भवदात्मभवक्षोभक्षतधीरता घनं रभसात् ।
विगलितकुचयुगलावृतिरालिङ्गति मालती धन्यम्
निर्दयतरोष्ठखण्डनसव्यथहुङ्कारमूर्छितं सुरते ।
अहहेति वचस्तस्या अपुण्यभाजो न शृण्वन्ति
स्मृतिजन्मजनितविकृतिव्रततिच्छन्नं करोति संसारम् ।
आविद्धसुरतसङ्गरविमर्दसंक्षोभिता दयिता
गाढतराश्लिष्टवपुर्भजते कान्ता प्रमोदसम्मोहम् ।
शिथिलीकृता तु किं चिद्विविधविकारं समुच्छ्वसिति
सन्त्यन्या अपि सत्यं पुरुषोचितकर्मपण्डिताः प्रमदाः ।
सृष्टा तु तया नियतं विपरीतरतिक्रियागोष्ठी
तन्त्रीवाद्यविशेषानुद्दामानन्यजन्मनस्तस्याः ।
कुहरितरेचितकम्पितसम्पादननैपुणं करोति जडान्
ललिताङ्गहारजृम्भितवलितस्मितवेपनानि मालत्याः ।
पश्यञ्जहाति कामः रतिमोहनचेष्टितेषु बहुमानम्
न ग्राम्यं परिहसितं नाविभ्रमतरलितो ऽक्षिविक्षेपः ।
सुरतोद्योगनिरोधो दोहददानं न पुष्पबाणस्य
नार्थपरो लपनरसो न पराशयवेदने ऽविचक्षणता ।
नासौष्ठवं प्रसङ्गेनोल्वणगुणकीर्तनेषु भारत्याः
नापरपुरुषश्लाघा न त्यागः कालदेशवेशस्य ।
वैदग्ध्यजन्मभूमेर्गुरुजघनभरेण मन्दयातायाः
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0