कुट्टनीमत · श्लोक 541-560
पुंस्त्वख्यापनकामो न स्त्री न पुमान् किल प्रभुस्वामी ।
अनुबध्नन्नुपहसितस्त्वया जडे स्वार्थयोगमनपेक्ष्य
वाजीकरणैकमतिर्नरनाथानुग्रहेण विख्यातः ।
प्रत्याख्यातः स तथा रविदेवः किङ्करत्वमाकाङ्क्षन्
किं कन्दर्पकुटुम्बे जातो ऽसावुत वशीकरणयोगम् ।
जानाति कमपि सिद्धं येनाकृष्टासि सर्वभावेन
बाल्ये तावदयोग्या पश्चादपि वृद्धभावपरिभूता ।
तारुण्ये रागहृता यदि गणिका भ्रमतु तद्भिक्षाम्
उपनय भाण्डकमेतद्यदर्जितं मामकेन देहेन ।
विदधामि तीर्थयात्रामास्स्व सुखं प्रेयसा सार्धम्
आर्यजननिन्दितानां पापैकरसप्रकाशनारीणाम् ।
एतावानेव गुणो यदभीष्टसमागमो निरावरणः
नो धनलाभो लाभो लाभः खलु वल्लभेन संसर्गः ।
अक्षिगतादर्थाप्तिर्न भवति मनसः प्रमोदाय
गाढानुरागभिन्नं तारुण्यरसामृतेन संसिक्तम् ।
न भजति सहृदयहृदयं विभवार्जनसम्भवा चिन्ता
लाभः स एव परमः पर्याप्तं तेन तेन तृप्तास्मि ।
विनिवेश्य यदुत्सङ्गे निक्षिपति मुखे मुखेन ताम्बूलम्
सुरतश्रमवारिकणान् परिमार्ष्टि निजांशुकेन गात्रेषु ।
यदुरसि निधाय विहसंस्तस्य न मूल्यं वसुन्धरा सकला
शिथिलितनिजदाररतिर्मयि सक्तमना अनन्यकर्तव्यः ।
यदसौ जितनलरूपस्तिरस्कृतं तेन गाणिक्यम्
बहुकुसुमरसास्वादं कुर्वाणा मधुकरी विधिनियोगात् ।
ईदृक्प्रसवविशेषं लभते खलु येन भवति कृतकृत्या
अयि सरले तावदिमा उपदेशगिरो विशन्ति कर्णान्तः ।
यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः
श्रीरस्तु दुर्गतिर्वा वेश्मनि वासो महत्यरण्ये वा ।
स्वर्लोके नरके वा किं बहुना तेन मे सार्धम्
इदमास्ते ऽलङ्करणं दुर्जननि गृहाण किं ममैतेन ।
तेनैव भूषिताहं गुणनिधिना भट्टपुत्रेण
उचितस्थाननियुक्तान्यपनीय विभूषणानि सावेगम् ।
एवमभिधाय यास्यसि मातुः पुरतः समुत्सृज्य
इति रागान्धः श्रुत्वा चेतसि कुरुते कदा चिदेवमिदम् ।
स्नेहाधिष्ठितमनसामविधेयं नास्ति नारीणाम्
जननीं जन्मस्थानं बान्धवलोकं वसूनि जीवं च ।
पुरुषविशेषासक्ताः सीमन्तिन्यस्तृणाय मन्यन्ते
रणशिरसि हते वज्रे वज्रोपमयन्त्रनिर्गतग्राव्णा ।
प्राणान्मुमोच दयिता न मन्त्रविधिना हृता नाम
कालवशेनायासीत्पञ्चत्वं दाक्षिणात्यमणिकण्ठः ।
प्रेमोपगता वेश्या तेनैव समं जगाम भस्मत्वम्
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0