भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 521-540

521

मालत्या सह केलिं विदधासि सखी ममेति न विरोधः ।
यत्तु चिरं स्निग्धदृशा पश्यसि तां तत्र मे शङ्का

522

त्वामागता न वीक्षितुमनुबध्य न याचितः प्रयत्नेन ।
आहूय वद किमर्थं ताम्बूलं ग्राहिता कमलदेवी

523

कञ्चुकमपकर्षन्त्याः प्रकटीभवदंसकक्षकुचपार्श्वम् ।
साभिनिवेशं दृष्टं भवता किं कुन्दमालायाः

524

परिहासेन गृहीता यद्यंशुकपल्लवे त्वया हीरा ।
आच्छोट्यापक्रान्ता किं मामवलोक्य पृष्ठतः सहसा

525

विज्ञानेन ख्यातां कुसुमलतां त्वं तु वर्णयस्यनिशम् ।
नृत्यन्तीं मृगदेवीं विस्फारितलोचनः पश्यन्

526

कारणमत्र न वेद्म्यहमृजुपन्थानं प्रसिद्धमुत्सृज्य ।
वक्रेण यदेषि सदा माधवसेनागृहाग्रेण

527

इति सेर्ष्योपन्यासैरन्यैश्चामर्मवेधिलघुकोपैः ।
प्रणयप्रभवैर्विदिते च्छातोदरि रूढरागत्वे

528

श्रुतिविशये ऽन्तरिततनुर्जनितस्थितिरायताक्षि सह मात्रा ।
परुषगिरा त्वं कुर्या इत्थं मिथ्यावचःकलहम्

529

अक्लेशोपनतधनः प्रेमप्रह्वो निरर्गलत्यागः ।
भट्टानन्दस्य सुतो निधिभूतो ऽभव्यया त्वया त्यक्तः

530

व्यसनोपहतविवेको दैवैकगतिः स्वदारविद्वेषी ।
मामविगणय्य मूढे निर्भर्त्सित एव केशवस्वामी

531

अगणितराजापायो ऽविच्छिन्नायः स्वभावतस्त्यागी ।
किमुपेक्षितो ऽनुरक्तो वामधिया शौल्किकाध्यक्षः

532

पितुरेक एव पुत्रश्चतुर्थवयसो गदाभिभूतस्य ।
द्रविणवतः प्रभुरातो निराकृतो ऽभूतिकामया सो ऽपि

533

स्वकरेण परित्यक्ता त्वया विभूतिः करोमि किं पापा ।
सर्वभरेणोपनतं वसुदेवमनादरेण पश्यन्त्या

534

पुरुषान्तरसंघर्षप्रोत्साहितचित्तवृत्तिरनपेक्षम् ।
वसु विसृजति यो रभसात्तस्य न वार्ता त्वया पृष्टा

535

चित्रादिकलाकुशलः स्मरशास्त्रविचक्षणो वृषप्रकृतिः ।
उपकुर्वन्नपि सर्वो विद्वेषिगणे त्वया क्षिप्तः

536

चन्द्रवतीमाभरणं दत्तं मधुसूदनस्य पुत्रेण ।
पश्यन्ती बिभ्राणामयि रागिणि किं न जिह्रेषि

537

ग्रामोत्पत्तिरशेषा प्रविशन्ती सिंहराजविनियोगात् ।
मन्मथसेनावासं लघयति ते रूपसौभाग्यम्

538

आस्तामपरो लाभो हेडावुकनन्दिसेनतनयेन ।
शिवदेव्या उपचारः क्रियते यस्तेन पर्याप्तम्

539

पश्येदं धवलगृहं पाशुपताचार्यभावशुद्धेन ।
कारितमनङ्गदेव्या आभरणं पत्तनस्य सकलस्य

540

आपणिकार्थस्य कुतो राजा लभते चतुर्थमपि भागम् ।
हट्टपतिरामसेनप्रसादतो नर्मदा तमुपभुङ्क्ते

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc