कुट्टनीमत · श्लोक 501-520
गन्धो ऽपि कुतः प्रेम्णः परभृतहारीतगृहकपोतानाम् ।
उज्ज्वलयन्त्यसमेषुं विरुतविशेषैस्तथापि ते यूनाम्
आहितयुक्ताहार्यः सम्यक्सकलप्रयोगनिष्पत्त्या ।
भावविहीनो ऽपि नटः सामाजिकचित्तरञ्जनं कुरुते
ये ऽपि धनक्षयदोषं पश्यन्ति जडा विलासिनीश्लेषे ।
प्रष्टव्यास्ते भवता किमकृतकशिपुव्यया दाराः
न च लाभ एक एव प्रवर्तने कारणं मनुष्येषु ।
रागादयो ऽपि सन्ति वैशिकशास्त्रप्रणेतृभिः कथिताः
का वा विभूतिराप्ता सुन्दरसेनात्तया तपस्विन्या ।
तद्विरहकुलिशभिन्ना मुमोच या जीवितं क्षणार्धेन
उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतनुसक्तिः ।
स्फुटसंनिहितविभावो निवार्यते केन शृङ्गारः
अन्तःकरणविकारं गुरुपरिजनसंकटे ऽपि कुलटानाम् ।
बुध्यन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन
अन्या विहाय पतिगृह मविचिन्तितकुलकलङ्कजनगर्हाः ।
रागोपरक्तहृदया यान्ति दिगन्तं मनुष्य आसज्य
अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहे ऽपि दौर्गत्यम् ।
शीलक्षतये यासां तासामपि रागतो ऽन्यनरसक्तिः
या अप्यचलितवृत्ता भर्तुः परिचरणतत्पराः प्रमदाः ।
ता अपि रागविमुक्तास्तिष्ठन्त्यौचित्यमात्रेण
तस्मादस्त्वभिगमनं विविधनिमित्तं निवार्यते केन ।
निजपरपण्यस्त्रीणां रागाधीनं तु हृदयनिर्वहणम्
एवंविधदृष्टान्तैरुपपत्तियुतैस्तथेदृशैर्वाक्यैः ।
अन्यैरपि चाटुपदैरावर्जितमानसं गम्यम्
विहितस्वापविबोधं किञ्चित्प्रकटीकृतश्रमग्लान्या ।
उत्पादितजृम्भिकया परिरभ्य घनं निशापगमे
विघटितपुटमुद्रदृशा विलोक्य ककुभः सदीर्घनिःश्वासम् ।
वक्तव्यमिति भवत्या रजनि खले किं प्रयातासि
अबला विषहेत कथं दृढशक्तिमनुष्यरतिरसप्रसरम् ।
मदनजनितो ऽनुरागो न विदध्याद्यदि बलाधानम्
धन्या चक्राह्ववधूः प्रियतमसंघटनसमयसम्प्राप्त्या ।
शशिना वियुज्यमाना कुमुद्वति क्षीणपुण्यासि
विकसितसुरभिमनोहरसंस्थानं सरसकुसुममप्राप्तम् ।
न करोति तथा पीडामास्वादितविच्युतं यथा भृङ्ग्याः
विज्ञापयाम्यतस्त्वां रचिताञ्जलिमौलिना विधाय नतिम् ।
परिचारकजनमध्ये गणनीयाहं प्रसादेन
अथ दीपितरागाङ्गैरपहस्तितलाभदिक्क्रमोपचितैः ।
मृदुभिश्चित्तानुगतैरुपचारैः पातितस्य विश्वासे
अवलोकितो ऽसि लम्पट किमपि वदन् कर्णसंनिधौ निभृतम् ।
शङ्करसेनाधात्र्या अद्य मया जालमार्गेण
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0