भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 481-500

481

गत्वाथ तमुद्देशं यस्मिन् सा पञ्चभावमापन्ना ।
विललाप मुक्तनादं विलुठन् भुवि सहचरेण धृतमूर्तिः

482

एते वयं निवृत्ता मुञ्च रुषं देहि कोपने वाचम् ।
उत्तिष्ठ किमिति तिष्ठसि भूमितले रेणुरूषितशरीरा

483

विनिमील्य दृशौ कस्मादप्रतिपत्त्या स्थितासि शुभवदने ।
त्वदवारितगमनविधेरपराधितया न मे योगः

484

नाकाधिपतिपुरन्ध्रीरभिभवितुं त्वयि दिवं प्रयातायाम् ।
सत्स्वपि शरेषु पञ्चसु निरायुधः साम्प्रतं मदनः

485

वञ्चकवृत्ता वेश्या इत्यपवादो जनेषु यो रूढः ।
अपनीतो ऽसौ निपुणं त्वया प्रिये जीवमोक्षेण

486

वन्द्यः सद्व्रत एकस्त्रिपुरान्तकनन्दनो महासेनः ।
हृदयं यस्य स्पृष्टं न मनागपि वामलोचनाप्रेम्णा

487

मन्ये ऽभीष्टवियोगं निमेषमपि दुःसहं समवधार्य ।
हरिणा वक्षसि लक्ष्मीर्विधृता गौरी हरेण देहार्धे

488

अयि लोकपाल सा भुवि ललामभूता तया विना शून्यम् ।
विश्वमिति किं न चिन्तितमात्मस्थानं प्रियां नयता

489

भगवन् हुतवह मा मा लावण्यसमुद्रसारमुद्धृत्य ।
कथमपि विहितां धात्रा धक्ष्यस्येनां जगद्भूषाम्

490

इति विलपन्तं बहुविधमवधीर्य सुहृत् पुरन्दरस्य सुतम् ।
काष्ठैर्विरचय्य चितां तामकरोदग्निसाद्गणिकाम्

491

तस्मिन्निद्धहुताशनविनिपतने कृतमतौ शुचाकुलिते ।
मनसि स्फुरितामार्यां पपाठ कश्चित्प्रसङ्गेन

492

अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः ।
संसारमुक्त्युपायं दण्डग्रहणं व्रतं मुक्त्वा

493

श्रुत्वा सुन्दरसेनः सचिवमवोचद्व्यपेतवैक्लव्यः ।
प्रतिबोधितं मनो मे धीरेणानेन युक्तमुपदिशता

494

क्षणदृष्टनष्टवल्लभजन्मजराव्याधिमरणपरिभूते ।
आवर्तिनि संसारे कः कुर्यादाग्रहं सुमतिः

495

यातु भवान् कुसुमपुरं वयमप्यन्त्याश्रमे समाश्रयणम् ।
अङ्गीकुर्मो ऽविद्याप्रहाणसंसिद्धये विहितम्

496

सो ऽवददभिजातजनो बाल्यात्प्रभृति त्वया च न वियुक्तः ।
संन्यसनबुद्धिमधुना कथमुज्झति विषयनिःस्पृहं सुहृदम्

497

एवमिति सो ऽभिधाय स्थिरयतिनियमैस्तपोधनैर्जुष्टम् ।
गुणपालितेन सहितः सुन्दरसेनो जगाम वनम्

498

एवं भवन्तु वेश्याः स्वार्थैकदृशो व्यपेतसद्भावाः ।
अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकम्

499

रमणहृदयानुवर्तनचतुरचतुःषष्टिकर्मकुशलानाम् ।
न स्पृशति तत्त्वचर्चा पण्यवधूनां विदग्धचेतांसि

500

वलितप्लुतचित्रगतिस्थितिवेगैश्चोदनानुवृत्त्या च ।
रागस्पर्शेन विना विशति मनः सादिनां तुरगः

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc