भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 461-480

461

यौवनचापलमेतद्यन्मादृशि भवति कौतुकं भवताम् ।
यत्तु सुखमनवगीतं तस्य स्थानं निजा दाराः

462

ते मधुराः परिहासास्ता वक्रगिरः स वामतासमयः ।
नो हृदये कर्तव्या रहसि क्षेमार्थिना भवता

463

लाघवतो यन्मनसः प्रणयाद्वा यत्तवाचरितम् ।
प्रतिकूलं तत्र मया नाथाञ्जलिरेष विरचितो मूर्ध्नि

464

दुःसंचारा मार्गा दूरे वसतिर्विसंष्ठुलं हृदयम् ।
गुणपालित तव सुहृदा भवितव्यमतो ऽप्रमत्तेन

465

हृदयद्वय एकत्वं याते यूनोर्वियोगजं क्लेशम् ।
अनुभवतोरपरेण प्रसङ्गतः पठ्यते पथ्या

466

अन्योन्यसुदृढचेष्टितसद्भावस्नेहपाशबद्धानाम् ।
विच्छेदकरो मृत्युर्धीराणां वा परिच्छेदः

467

अथ तच्छ्रवणानन्तरमास्स्व सुखं दयितिके व्रजामीति ।
अभिधाय याति मन्दं सुन्दरसेने विवर्तितग्रीवम्

468

वटशाखालम्बिभुजां श्वसितोष्णसमीरशुष्यदधरमुखीम् ।
पर्यस्तां बिभ्राणां तन्मार्गविलोकनानिमेशदृशम्

469

दोलायमानवेणीं तिर्यग्गतकण्ठभूषणविशेषाम् ।
गलदश्रुवारिपूर्णां पतितांशुकभागनिःसहाङ्गलताम्

470

रुन्धानामिव हृदयं स्फुटदितरकरेण कुचयुगाश्रयिणा ।
परिशेषितां विलासैरुत्सृष्टां जीवलोककर्तव्यैः

471

अङ्गीकृतां विपत्त्या वशीकृतां मर्मघट्टनैर्विषमैः ।
हारलतामपरिस्फुटमन्तःपरिकृष्यमाणभारत्या

472

मा मा तावद्यात क्षणमेकं यावदेष निष्करुणः ।
वनगुल्मैर्न तिरोहित इत्यभिदधतीं जहुः प्राणाः

473

अथ पश्चात्समुपेतं पप्रच्छ पुरन्दरात्मजः पथिकम् ।
दृष्टा शोकव्यथिता निवर्तमानाङ्गना भवता

474

स उवाच वटतरोरध उर्व्यां पतिता विनिश्चलावयवा ।
तिष्ठति वनिता नान्या नयनावसरं गतास्माकम्

475

इति तद्वचनाश्महतो विह्वलमूर्तिः पपात भूपृष्ठे ।
उत्थापितश्च सुहृदा सो ऽभिदधे तेन शोकदीनेन

476

भवतु कृतार्थस्तातस्त्वमपि सुमित्रास्स्व साम्प्रतं प्रीतः ।
समकालमेव मुक्ता पापेन मयासुभिश्च हारलता

477

हा हा हाव हतो ऽसि ध्वस्ता लीला विलास किं कुरुषे ।
उच्च्छिन्ना विच्छित्तिर्भ्रम विभ्रम दश दिशो निराधारः

478

किलकिञ्चित गच्छ वनं मोट्टायितमशरणत्वमुपयातम् ।
कुट्टमित प्रव्रज्यां गृहाण बिब्बोक विश भुवो विवरम्

479

ललितमनाथीभूतं विहृतस्य न विद्यते गतिः क्वापि ।
शशधरबिम्बद्युतिमुषि यातायामन्तकान्तिकं तस्याम्

480

विनिवृत्त्य यामि दग्धुं मद्विरहे मुक्तवल्लभप्राणाम् ।
भवतु वराक्यास्तस्याः सप्तार्चिर्दानमात्रमुपकारः

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc