कुट्टनीमत · श्लोक 441-460
निर्विण्णे निर्विण्णा मुदिते मुदिता समाकुलाकुलिते ।
प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता
यावद्वाञ्छितसुरतव्यायामसहाविरुद्धसंभाषा ।
चित्तानुवृत्तिकुशला पुण्यवतामेव जायते जाया
सद्भावप्रेमरसं वलयावलिशब्दशङ्किता निभृतम् ।
विदधानाङ्गसमर्पणमुन्मीलितकुसुमसायकाकूता
हा हा किमुद्धतत्वं श्रोष्यति कश्चिद्गतत्रप स्वैरम् ।
निकटे परिवारजनो विस्मृत एव स्मरातुरस्य तव
इति हुङ्कृतिसंवलितैरायासनिवेदितार्थपदवाक्यैः ।
द्विगुणीकरोति कुलजा नायककर्माणि मोहनप्रसरे
इत्थमुदीरितवाचं सुहृदमवोचत्पुरन्दरस्य सुतः ।
समुपस्थितजीवसमावियोगभयकम्पितो वचनम्
तातादेशे ऽलङ्घ्ये हारलताविरहपावके तीव्रे ।
विधिवशवर्तिनि मरणे नो विद्मः कार्यपरिणामम्
अनपेक्षितधनलाभां स्नेहैकनिबद्धमानसां दयिताम् ।
दैवाकृष्टो मुञ्चति घटितो वा लोहवज्रकणिकाभिः
अथ कृतगमनविनिश्चितिरभिमतरामां चकार विदितार्थाम् ।
सापि तमनुवव्राज प्रस्तुतयात्रं शुचाकुलिता
आसाद्य वटस्य तलं बाष्पपयःकणचिताक्षिपक्ष्माग्राम् ।
विघ्नितचरणविहारो हारलतामभिदधाति स्म
आ क्षीरवतो वृक्षादा सलिलाद्वा प्रिये प्रियं यान्तम् ।
अनुयायादिति वचनं तेन त्वमितो निवर्तस्व
किं कुर्मो दैवहताः प्रभवति यस्मिन् कृशोदरि प्रसभम् ।
प्रेमग्रन्थिच्छेत्ता गुरुशासनसायको निरावरणः
न द्रविणचयप्राप्तिर्नैकाश्रयपरिचयो न चाटुगुणः ।
न स्वामिसमादेशो नाकारविलोभनं न च ख्यातिः
हेतुस्तव प्रवृत्तेरस्मासु तथापि दैववशात् ।
ईदृक्को ऽप्यनुबन्धो यस्य विपाको ऽप्रतीकारः
परुषं यदभिहितासि प्रणयरुषा शङ्कितं च नर्मणि वा ।
सुदति न तत्स्मरणीयं दुर्भाषणकीर्तनोद्घाते
तव हृदये हृदयमिदं विन्यस्तं न्यासपालनं कष्टम् ।
यत्नात्तथा विधेयं स्थानभ्रंशो यथा न स्यात्
अथ विरतवचोदयितं बाष्पभरक्लिष्टवर्णपदयोगात् ।
इति कथमपि हारलता संमूर्छितवस्तुभारतीमूचे
अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा ।
क्वाहं रूपाजीवा क्व भवन्तः श्लाघनीयजन्मगुणाः
यत्तु विषयावलोकनकुतूहलाभ्यागतेन विश्रान्तम् ।
इयतो दिवसानस्मिन् तन्मे परजन्मकृतशुभस्य फलम्
गुरुसेवां बन्धुजनं स्वदेशवसतिं कलत्रमनुकूलम् ।
अनुषङ्गदृष्टपरिचित आस्थां प्रविधाय कः परित्यजति
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0