भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 421-440

421

शुश्रूषणमेव गुरोः परिशीलितमचलचेतसा सततम् ।
कुटिलमतयो भुजिष्याः कथं त्वयाराधिता निपुणम्

422

आम्नायपाठ एव स्फुटतरपदसौष्ठवं तव ख्यातम् ।
प्रकुपितवेश्यानुनये क्व शिक्षितं वचनचातुर्यम्

423

अथवा किं क्रियते ऽस्मिन्नवदातकुले ऽपि लब्धजन्मानः ।
सदसंस्तुता भवन्ति प्रागुपचितकर्मदोषेण

424

त्वयि विनिवेश्य कुटुम्बं परलोकहितार्जनैकनिहितात्मा ।
स्थास्यामीति समीहितमनुदिवसं तद्विसंवदितम्

425

इत्यवधृतलेखार्थे सुन्दरसेने विधेयसम्मूढे ।
आर्यामगायदन्यः स्वावसरे गीतिपरिकरिताम्

426

विषयतिमिरावृताक्ष्णामवटे पततामदृष्टमार्गाणाम् ।
पुंसां गुरुजनवचनद्रव्यशलाकाञ्जनं शरणम्

427

उद्वेजयति तदात्वे सुखसम्पत्तिं करोति परिणामे ।
कटुकौषधप्रयोगो गुरुनिगदितकार्यनिष्ठुरं च वचः

428

लब्ध्वाथ वचोवसरं मित्रमवादीत्पुरन्दरापत्यम् ।
पुनरपि न हि खिद्यन्ते प्रियजनहितभाषणे सन्तः

429

अगणितसहचरवचसो दुर्व्यसनमहाब्धिमग्नवपुषस्ते ।
मन्युव्यथितस्य पितुर्यदि परमवलम्बनं वचनम्

430

निजवंशदीपभूतः कृतचरितालङ्कृतो महासत्त्वः ।
सुन्दर सम्प्रति तातः स्पृष्टो दुष्पुत्रदोषेण

431

पुत्राभावः श्रेयान् दुःसुतता पुत्रिणः कुलीनस्य ।
अन्तस्तापयति भृशं सच्चरितकथाप्रसङ्गेषु

432

सांव्यवहारिक एव प्रायो लोके गुणोन्नता नियताः ।
येन तु सुतेन जननी वन्ध्यात्वं श्लाघते स पापीयान्

433

विफलं शास्त्रज्ञानं गुरुगृहसेवापि नोपकाराय ।
विषयवशीकृतमनसो न्याय्यं पन्थानमुत्सृजतः

434

जीवन्नेव मृतो ऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् ।
कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या

435

नो परिहर्तुं विषयाः शक्याः सत्यं तथापि निपुणधियः ।
अभिधेयतां न गच्छन्त्यपवादविशेषिताभिधानस्य

436

गुरुपरिचर्या जाया कुलोद्गता स्निग्धबन्धुसम्पर्कः ।
ब्राह्मे कर्मणि सक्तिर्लोकद्वयसाधनं सुधियाम्

437

सुलभा तस्य विभूतिस्तस्य गुणा यान्ति जगति विस्तारम् ।
बहु मनुते तं सुजनस्तस्मै स्पृहयन्ति बान्धवाः सततम्

438

नासादयति स एकः सत्सेवितमार्गतः परिस्खलनम् ।
मण्डयति सो ऽन्ववायं स निवासः शर्मणामशेषाणाम्

439

स भवति विनयाधारो युक्तायुक्ते विवेकिता तस्य ।
वृद्धोपदेशवाचः श्रवणोदरतर्पणं सदा यस्य

440

प्राक्तनकर्मविपाकः क्षुद्रासु शरीरिणां यदासक्तिः ।
आयतनं तु सुखानां संसारभुवां कुलोद्गता रामा

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc