कुट्टनीमत · श्लोक 401-420
प्रियसखि लोकसमक्षं नगरप्रभुणा हठेन नीतास्मि ।
एवं बन्धकदातुर्द्विगुणार्थप्रार्थने कुतो ऽन्यायः
आकर्षन्ती जघनं व्रजसि यथा विक्षता नखैस्तिलशः ।
मन्ये तथोपभुक्ता त्वं केरलि दाक्षिणात्येन
अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् ।
तव सूचयन्ति केतकि कुसुमायुधशास्त्रपण्डितं रमणम्
इति शृण्वन्नुषसि गिरो निर्वृत्तनिशाभियोगगणिकानाम् ।
सो ऽपि यथाक्रियमाणं प्रविधातुं निर्जगाम कर्तव्यम्
सुरचितरागोपचितिस्वीकृतमनसस्तया समं तस्य ।
यौवनसुखमनुभवतो जगाम संवत्सरः सार्धः
विश्रम्भकथाः कुर्वन्विचरन्नुद्यानवेदिकापृष्ठे ।
सहचरकरसक्तकरः सुन्दरसेनः कदा चित्तु
स्थूलघनतन्तुसन्ततितानितनानाम्बरावरणम् ।
यष्टिप्रान्तनियन्त्रितदलवीटककुतपतुम्बकप्रायम्
त्रुटितचरणत्रसंगतविस्फुटिताभ्यक्तपादमलिनतनुम् ।
त्वरितगतिलेखवाहकमारादायान्तमद्राक्षीत्
प्रत्यासन्नीभूतं क्रमेण पौरन्दरिः परिज्ञाय ।
साकूतमना ऊचे वयस्य हनुमानयं प्राप्तः
अवनितललीनशिरसा कृतनतिना तेन विनिहितं भूमौ ।
उत्क्षिप्य झटिति लेखं सुन्दर इति वाचयामास
स्वस्ति श्रीकुसुमपुरात्पुरन्दरः सुन्दरं समभिधत्ते ।
अन्तर्जृम्भितशोकग्रस्तो ऽविस्पष्टवर्णपदम्
कुलमकलङ्कं न गणितमवधीरितमग्रजन्मनामुचितम् ।
नापेक्षितमवगीतं शठसेवितवर्त्मनि त्वया पतता
वंशे ऽकुटिलगतीनां द्विजिह्वतादोषरहितचरितानाम् ।
अपरविनाशरतानामुत्पन्नः कथमसि भुजङ्गः
क्व पुरोडाशपवित्रितवेदपदोद्गारगर्भवदनं ते ।
क्व च मदिरासववासितवारवधूमुखरसास्वादः
क्व कुशविपाटनजन्मा सहसोदितवेदनाचमत्कारः ।
क्व च दासीरतसङ्गरनिर्दयनखरक्षतिः प्रीत्यै
क्व त्रेतानलधूमक्षोभितनयनाम्बुधौतवदनत्वम् ।
क्व च गणिकानिर्भर्त्सनशोकभरायातबाष्पसलिलौघः
क्व वषट्कारध्वानः षट्कर्मविभूषणं श्रवणपूरः ।
क्व च साधारणवनितारतिमणिताकर्णनौत्सुक्यम्
क्वाचार्यप्रतनुलताताडनसंक्षोभसम्भवः कम्पः ।
क्व च कुपितवारललनानिष्ठुरपादप्रहारविषहित्वम्
क्व हरिणचर्मावरणं स्मृतिशास्त्रनिवेदितं व्रतं चरतः ।
क्व च पण्यस्त्रीगात्रस्पृष्टाम्बरधारणेषु बहुमानः
समिधामेव च्छेदनमभ्यस्तं शैशवात्समारभ्य ।
शठवनिताधरखण्डन उत्पन्नं कौशलं कुतो भवतः
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0