कुट्टनीमत · श्लोक 21-40
पेशलवचसां वसतिर्लीलानामालयः स्थितिः प्रेम्नः ।
भूमिः परिहासानामावसथो वक्रकथितानाम्
सा शुश्राव कदा चिद्धवलालयपृष्ठदेशमधिरूढा ।
केनापि गीयमानां प्रसङ्गपतितामिमामार्याम्
यौवनसौन्दर्यमदं दूरेणापास्य वारवनिताभिः ।
यत्नेन वेदितव्याः कामुकहृदयार्जनोपायाः
श्रुत्वाथ विपुलजघना मनसीदं मालती चकार चिरम् ।
अतिसाम्प्रतमुपदिष्टं सुहृदेवानेन साधुना पठता
तद्गत्वा पृच्छामो विकरालां कलितसकलसंसाराम् ।
यस्याः कामिजनौघो दिवानिशं द्वारदेशमध्यास्ते
इति मनसि सा निवेश्य द्रुततरमवतीर्य वेश्मनः शिखरात् ।
विकरालाभवनवरं परिजनपरिवारिता प्रययौ
अथ विरलोन्नतदशनां निम्नहनुं स्थूलचिपिटनासाग्राम् ।
उल्बणचूचुकलक्षितशुष्ककुचस्थानशिथिलकृत्तितनुम्
गम्भीरारक्तदृशं निर्भूषणलम्बकर्णपालीं च ।
कतिपयपाण्डुरचिकुरां प्रकटशिरासंततायतग्रीवाम्
सितधौतवसनयुगलां विविधौषधिमणिसनाथगलसूत्राम् ।
तन्वीमङ्गुलिमूले तपनीयमयीं च वालिकां दधतीम्
गणिकागणपरिकरितां कामिजनोपायनप्रसक्तदृशम् ।
आसन्द्यामासीनां विलोकयामास विकरालाम्
अवलोक्य सा विधाय क्षितिमण्डललीनमौलिना प्रणतिम् ।
परिपृष्टकुशलवार्ता समनुज्ञातासनं भेजे
अथ विरचितहस्तपुटा सप्रश्रयमासनं समुत्सृज्य ।
इदमूचे विकरालामवसरमासाद्य मालती वचनम्
विदधासि हरिमकौस्तुभमहरिं रविमगजनाथममरेन्द्रम् ।
अद्रविणं द्रविणपतिं नियतं मतिगोचरे पतितम्
अयमेव बुद्धिविभवं हृतविभवस्ते पटच्चरावरणः ।
कामुकलोकः कथयति सत्त्रागारेषु भुञ्जानः
उपसंहृतान्यकर्मा धनवर्मा नर्मदाङ्घ्रियुगलस्य ।
सकलसमर्पितसम्पद्यदुपेतः पादपीठत्वम्
यदुपनतो नयदत्तः सागरदत्तस्य मध्यमः पुत्रः ।
प्रीणयति मदनसेनां विधाय पितृमन्दिरं रिक्तम्
यल्लीलार्पितचरणौ मञ्जर्या भट्टपुत्रनरसिंहः ।
परितोषं व्रजति परं मृदु मृद्नन् पाणियुगलेन
यन्निःशेषितविभवो दीक्षितभवदेवपुत्रशुभदेवः ।
निर्भर्त्सितो ऽपि नोज्झति केसरसेनागृहद्वारम्
अन्या अपि कामिजनं साधारणयोषितो यदाक्रम्य ।
विदधति कर्पटशेषं विलसितमेतत्तवोपदेशानाम्
हीनान्वयजन्मानो गुणहीना रोगिणो निराकृतयः ।
उपसेविता मयापि प्रकटीकृतरागसौष्ठवं पुरुषाः
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0