भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 381-400

381

प्रारम्भ एव तावत्प्रज्वलितो धगिति मनसिजो यस्मिन् ।
तस्य विशेषावस्था वक्तुमशक्याः प्रवृद्धस्य

382

सहजरसेन जडीकृतमिति यूनोः कामशास्त्रनिर्णीते ।
नानाकरणग्रामे मालिन्यमवाप पाण्डित्यम्

383

अविधेयमनाख्येयं प्रविचार्यं छादनीयमविषह्यम् ।
न बभूव तयोस्तस्मिन्नाविद्धारब्धसुरतसंमर्दे

384

अभ्यस्ता या तन्व्या सुरतविधौ विविधचाटुपरिपाटी ।
तामालूनविशीर्णां चकार सहजः स्मरावेशः

385

सद्भावरागदीपितमदनाचार्योपदिष्टचेष्टानाम् ।
कः परिगणनं कर्तुं रतिचक्राविष्टरमणयोः शक्तः

386

बाला मृदुगात्रलता दृढपुरुषाक्रान्तविग्रहा न परम् ।
न व्यथिता मुदमाप प्रभवति खलु चित्तजन्मनः शक्तिः

387

किं रमणीं रमणो ऽविशदुत रमणी रमणमिति न जानीमः ।
स्वावयवावगमस्तु प्रणाशमगमत्तयोस्तदा निपुणम्

388

तस्या निमीलितदृशो निःस्पन्दतनोर्बभूव सुरतान्ते ।
लिङ्गमनङ्गच्छाया जीवितसत्तानुमानस्य

389

श्रमजलबिन्दूपचिता वृत्तस्मरणेन जातवैलक्ष्या ।
सा शुशुभे रतिविरतौ पर्याकुलकेशभूषणा नितराम्

390

निर्व्याजार्पितवपुषोर्निर्वृतिमयमेव गणयतोर्विश्वम् ।
क्षणदा विरराम तयोरक्षीणाकाङ्क्षयोरेव

391

मोहनविमर्दखिन्ना विजृम्भमाणा स्खलद्गतिर्मन्दम् ।
निद्राकषायिताक्षी हारलता वासवेश्मनो निरगात्

392

परिचितपार्श्वगताहं तेन समं पानभोजनं कृत्वा ।
नीता निशा कथाभिर्मोहनकार्यं तु यत्किं चित्

393

अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः ।
अपमृत्युरपक्रान्तः कामिव्याजेन मे रात्रौ

394

नेच्छाविरतिः क्षणमपि न च शक्तिर्वस्तुशून्यरतियत्नैः ।
केवलमलमद्याहं कदर्थिता वृद्धपुरुषेण

395

मद्यवशादभियोक्तरि मृतकल्पे तल्पभागमग्नायाः ।
अनिरोधितनिद्रायाः सुखेन मे यामिनी याता

396

सुकुमारसम्प्रयोगः पेशलवचनः सवक्रपरिहासः ।
शकुनवशेनोपनतो मम सखि रमणो मनोहराकारः

397

पर्यङ्कान्तनिलीनः पराङ्मुखो मुक्तमन्दनिःश्वासः ।
मच्चोदनया सुतरां निष्पन्दः स्वेदसलिलसंसिक्तः

398

पर्यस्तमितानङ्गो व्यपगतनिद्रः क्षपाक्षयाकाङ्क्षी ।
ग्रामोषितः प्रहीणो निष्प्रतिपत्तिः स्थितो ऽद्य सखि मनुजः

399

शृणु सखि कौतुकमेकं ग्रामीणककामिना यदद्य कृतम् ।
सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि

400

अविदितदेशप्रकृतेः शठात्मकाद्दुर्विदग्धतो ऽस्माभिः ।
अनुभूतो राजसुतादपि भाण्डविडम्बनाक्लेशः

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc