कुट्टनीमत · श्लोक 361-380
श्रीबलसुतपरिपालित ऊर्णायुः किमनया विजेतव्यः ।
मुकुला मुक्तसुखस्थितिरहर्निशं मेषपोषणे लग्ना
आताम्रतां समुपगतमुच्छूनं करतलं तव सुललिते ।
मा पुनरतिचिरमेवं प्रविधास्यसि कन्दुकक्रीडाम्
अभिराम डोम्ब भाटी प्रथममियं गृह्यते समुत्पन्ने ।
स्नेहे तु कुसुमदेव्यास्त्वं प्रभवसि जीवितस्यापि
ग्रहणकमर्पय तावद्यदि कौतुकमुपरि चन्द्रसेनायाः ।
निर्वर्तितकर्तव्यो दास्यसि किं चिद्यथाभिमतम्
न परमदाता मातः सूनुरसौ नगररोटभट्टस्य ।
निर्लज्जः शठवृत्तिः पुनः पुनर्वार्यमाणो ऽपि
क्षपयति वसनानि सदा हठेन सकलानि सुरतसेनायाः ।
न ददात्येकामूर्णामुरणः परमत्ति कर्पाशम्
भगिनि न मुञ्चति वेश्म क्षणमपि मे कपटराजपुत्रो ऽसौ ।
भग्नो ऽन्यनरावसरो नग्नेनाधिष्ठितं यथा तीर्थम्
इत्थंप्राया वाचः शृण्वन् विटकुट्टनीसमुद्गीर्णाः ।
तं वेशसंनिवेशं पश्यन् प्रविवेश दयितिकावेश्म
आकृष्टमिवोत्कतया स्नपितमिव स्निग्धचक्षुषः प्रसरैः ।
तमुपागतमभ्यर्णं हारलता पूजयामास
संविहितसमुचितस्थितिरवनतशिरसा प्रणम्य तत्सख्या ।
इदमभिदधे ऽतिनम्रं सुन्दरसेनः शुभे ऽवसरे
प्रियदर्शन किं बहुभिः स्मरपीडितदीनवचनसंदर्भैः ।
इयमास्ते हारलता जीवितमस्यास्त्वदायत्तम्
निर्यन्त्रकेलिविशदं सहजप्रेमानुबन्धरमणीयम् ।
कार्यान्तरान्तरायैः सुपरिहृतं यातु यौवनं भवतोः
निर्दयमविरतवाञ्छं ध्वस्तत्रपमव्यवस्थिताचरणम् ।
उपचीयमानरागं सततं भूयाद्भवत्सुरतम्
इति दत्त्वाशिषमन्तर्निर्याते परिजने तदङ्गेषु ।
विस्रम्भविविक्तरसो ववृधे कुसुमायुधः सुतराम्
यदमन्दमन्मथोचितमनुरूपं यन्नवानुरागस्य ।
यद्यौवने ऽभिरामं यच्च फलं जीवितव्यस्य
अविनय एव विभूषणमश्लीलाचरणमेव बहुमानः ।
निःशङ्कतैव सौष्ठवमनवस्थितिरेव गौरवाधानम्
केशग्रहणमनुग्रह उपकारस्ताडनं मुदे दंशः ।
नखविलिखनमभ्युदयो दृढदेहनिपीडनं समुत्कर्षः
निगरणलोलं चुम्बनमवयवनिष्पेषणस्पृहो मर्दः ।
अन्तःप्रवेशनेच्छं निर्भरपरिरम्भणं यस्मिन्
यदनङ्गैरिव विहितं रागैरिव दीप्तिमत्त्वमुपनीतम् ।
प्रेमभिरिव निश्चलितं शृङ्गारैरिव विकाशमानीतम्
अप्रागल्भ्यं व्यसनं धैर्यमकार्यं विवेक उपघातः ।
ह्रेपणमगुणो यस्मिन् तत्सुरतं प्रस्तुतं ताभ्याम्
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0