कुट्टनीमत · श्लोक 341-360
त्वयि सक्तेन मया गृहमुज्झितमधुना परेव जातासि ।
इति ढौकमलभमानः कश्चिद्गणिकामुपालेभे
उषितामपरेण समं वृद्धविटानां पुरः पराजित्य ।
त्याजयति स्म भुजङ्गः कश्चिद्गणिकां द्विगुणभाटीम्
दृष्टा त्वया विशेषक वलयकलापी शशिप्रभाभुजयोः ।
बाढं भण भण कीदृक् चारुतरा सा मया दत्ता
अद्य चतुर्थो दिवसश्चीनाम्बरयुगलकस्य दत्तस्य ।
तदपि परुषा विलासा वद मदनक किं करोम्यत्र
स्नेहपरा मयि केली कलहंसक किं तु राक्षसी तस्याः ।
माता नात्मीकर्तुं वर्षशतेनापि शक्यते पापा
सुमनःकुङ्कुमवासं सज्जीकुरु किमिति तिष्ठसि विचित्तः ।
अद्य तव दयितिकायाः किञ्जल्कक नर्तनावसरः
यदि नाम पञ्च दिवसान्त्वयि कुरुते प्रेम धनलवं दृष्ट्वा ।
तदपि तरङ्गवती सा कन्दर्पक किं वृथा गर्वः
जीवद्वेषिन् लासक परिहर दूरेण मूढ हरिसेनाम् ।
बद्धावेशस्तस्यां व्यापृतपुत्रो महाविषमः
केसरया क्षणदत्तं कृत्वांशुकमुपरि कामिजालस्य ।
स्तब्धग्रीवं भ्रमतश्चन्द्रोदय पश्य माहात्म्यम्
कौमारकं विधातुं वाञ्छसि किल रमण मदनसेनायाः ।
इच्छामि किं तु तस्या मात्रातीव प्रसारितं वदनम्
विभ्रम कियतस्तपसः फलमेतद्यदुपभुज्यते मदिरा ।
स्वकरेण पीतशेषा मदघूर्णितदेवदत्तया दत्ता
कुवलयमालानिलयो लीलोदय किमिति सम्प्रति त्यक्तः ।
किं विदधामस्तस्मिन् भ्रातर्दास्या विना मूल्यम्
मुषिताशेषविभूतेरिन्दीवरकस्य यामिनी याति ।
संवाहयतः सम्प्रति मञ्जीरक तिलकमञ्जरीचरणौ
अद्यापि बालभावं निखिलं न जहाति मदनिका तदपि ।
प्रौढिम्ना मकरन्दक सकला ललना अधः कुरुते
कुब्जे गत्वा वक्ष्यसि तं निर्दयचित्तनर्तनाचार्यम् ।
हारा सुकुमारतनुः किमिति श्रममद्य कारिता भवता
निःसर को ऽभिनिवेशः शुकशावकपाठने सुरतदेवि ।
तिष्ठति बहिरुपविष्टः प्रतीक्षमाणस्तव प्रेयान्
वीणावादनखिन्ना पतितास्ते वासभवनपर्यङ्के ।
उत्थापय तां त्वरितं स्मरलीलां भट्टपुत्र आयातः
किमिदं यथास्थितत्वं तव माधवि यन्मुहुर्वदन्त्या मे ।
परिधत्से नाभरणं श्रीविग्रहराजसूनुना दत्तम्
ईदृक् शून्यमनस्त्वं किं कुर्मो मातरिन्दुलेखायाः ।
पानक्रीडासक्त्या पतितापि न चेतिता कनकताडी
नकुलः पयो न पायित इति रोषवशादियं हि दुःशीला ।
नाश्नाति कामसेना पुनः पुनः प्रार्थ्यमानापि
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0