कुट्टनीमत · श्लोक 321-340
पुरुषाक्रान्ताः सततं कृत्रिमशृङ्गाररागरमणीयाः ।
आहन्यमानजघनाः करेणवो वारयोषाश्च
उचितगुणोत्क्षिप्ता अपि पुरतो विनिवेशिते सुवर्णलवे ।
झगिति पतन्ति मुखेन प्रकटप्रमदाः कलाधिकाश्च तुलाः
बहिरुपपादितशोभा अन्तस्तुच्छाः स्वभावतः कठिनाः ।
दास्यः समुद्गिका इव मणन्ति यन्त्रप्रयोगेण
बध्नन्ति ये ऽनुरागं दैवहतास्तासु वारवनितासु ।
ते निःसरन्ति नियतं पाणिद्वयमग्रतः कृत्वा
इत्युपदिशति वयस्ये सुन्दरसेने च मन्मथव्यथिते ।
आवादुपयातं गीतित्रयमभ्यधायि केनापि
तरुणीं रमणीयाकृतिमुपनीतां स्मृतिभुवा वशीकृत्य ।
परिहरति यो जडात्मा प्रथमो ऽसौ नालिको विना भ्रान्तिम्
इदमेव हि जन्मफलं जीवितफलमेतदेव यत्पुंसाम् ।
लडहनितम्बवतीजनसम्भोगसुखेन याति तारुण्यम्
सुमनोमार्गणदहनज्वालावलिदह्यमानसर्वाङ्ग्यः ।
प्रबलप्रेमप्रवणाः प्रमदाः स्पृहयन्ति नाल्पपुण्येभ्यः
एवमुपश्रुत्य वचः समुवाच पुरन्दरात्मजः सुहृदम् ।
मम हृदयादिव कृष्ट्वा गीतमिदं साधुनानेन
तदतनुसायकविकलां हारलतां हरिणशावतरलाक्षीम् ।
आश्वासयितुं यामो गुणपालित किं विकल्पितैर्बहुभिः
अथ यत्र कापि गणिका गणयन्ती परिचितं हृतद्रविणम् ।
प्रविशन्तमेव मन्दिरमीर्ष्याव्याजेन निरुरोध
का चिद्वञ्चकदत्तं लुण्डीकृतजीर्णवसनमवलोक्य ।
वेश्या विषीदति स्म क्षपाक्षये वृत्तकर्तव्या
दैवस्मृत्या पतितं दृष्टिपथं भग्नमूल्यविटमेका ।
ज्वलिता रुषा भुजिष्या जग्राह जवेन धावित्वा
अन्तःस्थितकामिगृहद्वारगतं लुप्तवित्तनरमन्या ।
समुवाच कुट्टनी व्रज कल्लोलाकल्पदेहेति
प्रकटितदशननखक्षतिरभिदधती राजपुत्ररतियुद्धम् ।
अपरा पुरः सखीनां वारवधूराततान सौभाग्यम्
अन्या कामिस्पर्धावर्धितभाटी समुच्छ्रिता खेडा ।
सौभाग्यगर्वदर्पं समुवाह विलासिनीमध्ये
एकगणिकानुबन्धक्रोधोद्यतशस्त्रकामिनोः कापि ।
सम्भ्रमतो धावित्वा निवारयामास कुट्टनी कलहम्
धनमाहृत्य बहुभ्यो भुज्यत एकेन केन चित्सार्धम् ।
इति धनवन्तं कामिनमावर्जयति स्म कापि वारवधूः
गायन्गाथामात्रं द्विपदकमथ सौष्ठवेन विट एकः ।
बभ्राम पुरो दास्या विदधद्विकृतीरनेकविधाः
कश्चित्पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया ।
विदधाति स्माराधनमधनत्वमुपागतः कामी
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0