कुट्टनीमत · श्लोक 301-320
अथ तद्वचसि कृतादरमुद्भूतमनोभवं समवधार्य ।
अवगीतिभीतचेता ऊचे गुणपालितः सुहृदम्
यद्यपि मारप्रसरो दुर्वारः प्राणिनां नवे वयसि ।
चिन्त्यं तदपि विवेकिभिरवसानं वेशयोषितां प्रेम्णः
वारस्त्रीणां विभ्रमरागप्रेमाभिलाषमदनरुजः ।
सहवृद्धिक्षयभाजः प्रख्याताः सम्पदः सुहृदः
ताभिरवदातजन्मा कुर्वीत समागमं कथं यासाम् ।
क्षणदृष्टो ऽपि प्रणयी रूढप्रणयो ऽपि जन्मनो ऽपूर्वः
प्रद्युम्नः प्रद्युम्नो विरूपकः खलु विरूपकः सततम् ।
सुस्निग्धः सुस्निग्धो रूक्षो रूक्षस्तु गणिकानाम्
यासां जघनावरणं परकौतुकवृद्धये न तु त्रपया ।
उज्ज्वलवेषा रचना कामिजनाकृष्टये न तु स्थितये
मांसरसाभ्यवहारः पुरुषाहतिपीडया न तु स्पृहया ।
आलेख्यादौ व्यसनं वैदग्ध्यख्यातये न तु विनोदः
रागो ऽधरे न चेतसि सरलत्वं भुजलतासु न प्रकृतौ ।
कुचभारेषु समुन्नतिराचरणे नाभिनन्दिते ऽसद्भिः
जघनस्थलेषु गौरवमाकृष्टधनेषु नो कुलीनेषु ।
अलसत्वं गमनविधौ नो मानववञ्चनाभियोगेषु
वर्णविशेषापेक्षा प्रसाधने नो रतिप्रसङ्गेषु ।
ओष्ठे मदनासङ्गो नो पुरुषविशेषसम्भोगे
या बाले ऽपि सरागा वृद्धेष्वपि विहितमन्मथावेशाः ।
क्लीबेष्वपि कान्तदृशः साकाङ्क्षा दीर्घरोगे ऽपि
स्वेदाम्बुकणोपचिता अनार्द्रतानिजनिवासमनसश्च ।
आविष्कृतवेपथवो वज्रोपलसारकठिनाश्च
जघनचपला अनार्याः परभृतयः कृतकनेत्ररागाश्च ।
सर्वाङ्गार्पणदक्षा असमर्पितहृदयदेशाश्च
न-कुलसमुत्पन्ना अपि भुजङ्गदशनकृतवेदनाभिज्ञाः ।
कन्दर्पदीपिका अपि रहिताः स्नेहप्रसङ्गेन
उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः ।
कृष्णैकाभिरता अपि हिरण्यकशिपुप्रियाः सततम्
मेरुमहीधरभुव इव किम्पुरुषसहस्रसेवितनितम्बाः ।
नीतय इव भूमिभृतां सुपरिहृतानर्थसंयोगाः
बहुमित्रकरजदारणलब्धाभ्युदयाः सरोरुहिण्य इव ।
डाकिन्य इव च रक्तव्याकर्षणकौशलोपेताः
प्रतिपुरुषं संनिहिताः कृत्यपरा विविधविकरणोपचिताः ।
बहुलार्थग्राहिण्यः प्रकृतय इव दुर्ग्रहा गणिकाः
सादरमाश्लिष्य चिरं कुसुमस्तबकं च नरविशेषं च ।
रिक्तीकर्तुं निपुणं क्षुद्राः क्षुद्राश्च चुम्बन्ति
परमार्थकठोरा अपि विषयगतं लोहकं मनुष्यं च ।
चुम्बकपाषाणशिलाः रूपाजीवाश्च कर्षन्ति
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0