भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 281-300

281

ते ऽवश्यं स्वयमेव त्वामनुबध्नन्ति मदनशरभिन्नाः ।
न हि मधुलेहाः सुन्दरि मृग्यन्ते चूतमञ्जर्या

282

इति गदितवतीमालीं कामशरासारभिन्नसर्वाङ्गी ।
अव्यक्तस्खलिताक्षरमूचे कृच्छ्रेण हारलता

283

सखि कुरु तावद्यत्नं बहुमतमतिवेदनाप्रतीकारे ।
क्रोडीकृता विपत्त्या न भवन्त्युपदेशयोग्या हि

284

अस्वायत्तः प्रेयान्मृदुपवनः सुरभिकुसुममुद्यानम् ।
इयती खलु सामग्री भवति क्षीणायुषामेव

285

मत्वा मदनाशीविषविषवेगाकुलितविग्रहामालीम् ।
समुपेत्य शशिप्रभया पौरन्दरिरभिदधे कृतप्रणतिः

286

यदि नाम रुणद्धि गिरं गणिकाभावोपजनितवैलक्ष्यम् ।
तदपि कथितव्यमेव स्निग्धापदि न हि निरूप्यते युक्तम्

287

एतावति संसारे परिगणिता एव ते सुजन्मानः ।
आपत्सु परित्राणव्याकुलमनसां स्फुरन्ति ये बुद्धौ

288

यस्मिन्नेव मुहूर्ते चक्षुर्विषयं गतो ऽसि मम सख्याः ।
तत एवारभ्य गता विधेयतां दग्धमदनस्य

289

रोमोद्गमसंनहनं भित्त्वान्तर्विग्रहं परापतिताः ।
तस्या मानससम्भवकोदण्डविनिःसृता इषवः

290

किं विदधातु वराकी कुत्र समाश्वसितु यातु कं शरणम् ।
पीडयति भृशं यस्या नित्यशुचिर्दक्षिणो मृदुः पवनः

291

वचसि गते गद्गदतामुज्झितमौनव्रताश्चिराय पिकाः ।
हृष्टा व्यथयन्ति सखीं जातावसरा निरर्गलं विरुतैः

292

स्खलिताकुलिते गमने तन्वङ्ग्या अगणितश्रमा हंसाः ।
सुचिराल्लब्धावसराः कुर्वन्ति गतागतानि परितुष्टाः

293

उष्णोच्छ्वसितसमीरैर्विदह्यमानो ऽपि मधुकरस्तस्याः ।
अलककुसुमं न मुञ्चति कृच्छ्रेष्वपि दुस्त्यजा विषयाः

294

नो वारयसि तथा मां साम्प्रतमिति कथयतीव मधुलेहः ।
निःसहवपुषः कर्णे श्रुतिपूरकपुष्पसंगतो गुञ्जन्

295

प्रशिथिलभुजलतिकातस्तस्याः पतितस्य हेमकटकस्य ।
यत्प्रापणं पृथिव्यास्तस्मिन्खलु मुक्तहस्तता हेतुः

296

रशनागुणेन विगलितमेकपदे तन्नितम्बतश्चित्रम् ।
पतनाय नियतमथवा निषेवणं गुरुकलत्रस्य

297

अङ्गीकृत्य मनोभवमुरसि तथा लालितो ऽपि हतहारः ।
तापयति सखीं तत्क्षणमन्तर्भिन्नात्कुतः कुशलम्

298

वाससितं स्वेदजलं कज्जलमलिनाश्रुवारिणा मिश्रम् ।
कुचतटपतितं तस्याः प्रयागसम्भेदसलिलमनुकुरुते

299

पिकरुतमलयसमीरणसुमनःस्मरभृङ्गदहनपरिकरिता ।
पञ्चतपश्चरति भवत्परिरम्भणसौख्यलम्पटा बाला

300

न परां पतति वराकी दशमीं यावन्मनोभवावस्थाम् ।
त्रायस्व सुभग तावच्छरणागतरक्षणं व्रतं महताम्

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc