कुट्टनीमत · श्लोक 261-280
विचरन्नुपवनमण्डपपुष्पप्रकराभिरामभूपृष्ठे ।
रममाणां सह सख्या ललनामालोकयामास
अवलोकयतस्तस्य स्मरमार्गणवेध्यतामुपेतस्य ।
इदमासीन्मनसि चिरं विस्मयभाराभिभूयमानस्य
क्वेदं खलु विश्वसृजः कौशलमत्यद्भुतं समुपजातम् ।
येन विरुद्धानामपि घटितैकत्र स्थितिस्तथा हीयम्
ललितवपुर्निर्दोषा स्फुरदुज्ज्वलतारकाभिरामा च ।
निर्वाच्यवदनकमला जितवीणाक्वणितवाणी च
संविहितविग्रहस्थितिरतिशोभनघटितसन्धिबन्धा च ।
उन्नतपयोधराढ्या शरदिन्दुकरावदाता च
अभिमतसुगतावस्थितिरभिनन्दितचरणरचना च ।
अतिविपुलजघनदेशा विध्वस्तशरीरविहितशोभा च
आविर्भवदनुरागे तस्मिन्नथ वलितलोचना सहसा ।
सापि बभूव मृगाक्षी हस्तगता कुसुमचापस्य
तरुमूलमाश्रिताया विस्मृतसकलान्यकर्मणः सपदि ।
तस्या गात्रलतायामङ्कुरितं सात्त्विकैर्भावैः
सैवोपवनसमृद्धिस्तस्मिन्नेव क्षणे स्मरं स्मृत्वा ।
तां व्यथयितुमारेभे प्रभोर्हि कृत्यं करोति खलु सर्वः
गात्रसरसेन्धनेभ्यः प्रस्वेदजलं विनिर्ययौ तस्याः ।
अन्तर्ज्वलितमनोभवहव्यभुजा दह्यमानेभ्यः
कुसुमशरजालपतिता मुहुर्मुहुर्विदधती विवृत्तानि ।
अनिमेषं पश्यन्ती मत्स्यवधूमनुचकार सा तन्वी
स्तब्धतनुं सोत्कम्पां पुलकवतीं स्वेदिनीं सनिःश्वासाम् ।
विदधे तामसमशरः क्रीडति हि शठो विशिष्टमासाद्य
उच्छ्वासैरुल्लसनं कुचयुगले सौष्ठवं विलासानाम् ।
अभिलषितेन प्रेम्णा स्निग्धत्वं चक्षुषोर्मनोहारि
अनुरक्त्या वदनरुचिं वचसि च गमने च साध्वसस्खलनम् ।
तस्या मदनः कुर्वन्नुपनिन्ये चारुतामधिकाम्
पार्श्वगते ऽपि प्रेयसि कामशरासारताड्यमानापि ।
न शशाक साभिधातुं चित्तगतं प्रणयभङ्गतो भीता
अथ विदितचित्तवृत्तिः सक्तदृशं प्रियतमे समाकृष्य ।
मदनेन दह्यमानां विहसितविशदं जगाद तामाली
अयि हारलते संहर हरहुङ्कृतिदग्धदेहसंक्षोभम् ।
सद्भावजानुरक्तिर्न हि पण्यं पण्यनारीणाम्
अवधीरय धनविकलं कुरु गौरवमकृशसम्पदः पुंसः ।
अस्मादृशां हि मुग्धे धनसिद्ध्यै रूपनिर्माणम्
अभिरामे ऽभिनिवेशं विदधाना विभवलाभनिरपेक्षा ।
उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः
येषां श्लाघ्यं यौवनमभिमुखतामुपगतो विधिर्येषाम् ।
फलितं येषां सुकृतं जीवितसुखितार्थिता येषाम्
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0