कुट्टनीमत · श्लोक 241-260
शिशिरकरकान्तमौलिः कटकस्थितपवनभोजनः सगुहः ।
विद्याधरोपसेव्यो बिभर्ति लक्ष्मीमयं शम्भोः
अत्र तरुशिखरसंगतसुमनस इति जातनिश्चयो मन्ये ।
अभिलषति समुच्चेतुं तारा निशि मुग्धकामिनीसार्थः
आश्चर्यं यदुपान्ते तिष्ठन्त्येतस्य सप्त मुनयो ऽपि ।
अथवा कस्याकर्षं न करोति समुन्नतिर्महताम्
अवगत्य निरवलम्बनमम्बरमार्गं पतङ्गतुरगाणाम् ।
अयमवनिधरो मन्ये विश्रान्त्यै वेधसा विहितः
इममाश्रित्य हिमांशोरोषधयः संनिकर्षमुपयाताः ।
प्रत्यासत्तिः प्रभुणा प्रायो ऽनुग्राहकवशेन
सेक्तुमिवाशाकरिणो विसृजत्ययमवनिधरणपरिखिन्नान् ।
निर्झरसलिलकणौघान् भवति हि सौहार्दमेककार्याणाम्
हारीताहृतशोभो मुदितशुको व्यासयोगरमणीयः ।
विश्रान्तभरद्वाजः समतामयमेति मुनिनिवासस्य
अस्मिन्निःसङ्गा अपि परलोकप्राप्त्युपायकृतयत्नाः ।
गन्धवहभोजना अपि न हिंसकाः फलभुजो ऽपि न प्लवगाः
शुभकर्मैकरता अपि षट्कर्माणो यता अपि स्ववशाः ।
अनभिमतरौद्रचरिताः शिवप्रिया अपि वसन्ति शमनिरताः
मूर्तिरिव शिशिररश्मेर्हरिणवती सप्तपत्रकृतशोभा ।
सरणिरिव चण्डभासः पलाशिनी यातुधानजायेव
सोत्कण्ठेव समदना वासकसज्जेव तिलकपरिभूषा ।
धवहरिपीलुसनाथा नरनाथद्वारभूमिरिव
अर्जुनबाणव्रातैः कुरुनाथवरूथिनीव संछन्ना ।
ऋक्षसहस्रोपचिता लक्ष्मीरिव गगनदेशस्य
ध्वजिनीव दानवानां रिष्टकसमधिष्ठिता त्रियामेव ।
उद्द्योतरोहिणीका रम्येयमुत्पत्यका भाति
इति दर्शयति वयस्ये सुन्दरसेने च पश्यति प्रीत्या ।
स्वप्रस्तावोपगता गीतिरियं केन चिद्गीता
अतिशयितनाकपृष्ठं पृष्ठं ये नार्बुदस्य पश्यन्ति ।
बहुविषयपरिभ्रमणं मन्ये क्लेशाय केवलं तेषाम्
आकर्ण्य च स बभाषे महात्मनानेन युक्तमुपगीतम् ।
शिखरिशिरः पश्यामो वयस्य रम्यं समारुह्य
अथ गिरिवरमारूढो विलोकयन्विविधविबुधभवनानि ।
वापीरुद्यानभुवः सरांसि सरितश्चचार विस्मेरः
अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम् ।
रतिमिव मन्मथरहितां श्रियमिव हरिवक्षसः पतिताम्
हस्तोच्चयं विधातुः सारं सकलस्य जन्तुजातस्य ।
दृष्टान्तं रम्याणामस्त्रं संकल्पजन्मनो जैत्रम्
विकसितकुसुमसमृद्धिं शृङ्गाररसापगैककलहंसीम् ।
लीलापल्लववल्लीं व्रतिनामवधानवर्मणां भल्लीम्
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0