भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 221-240

221

किं वयमुत्पाट्य गृहं प्रातर्गन्तार ईदृगेव सताम् ।
भवति निवासो यस्मिन्निज इव पथिकाः प्रयान्ति विश्रामम्

222

अद्य रजनीं नयामो यथा कथं चित्त्वदाश्रये मातः ।
अस्तङ्गतो विवस्वान्वद सम्प्रति कुत्र गच्छामः

223

इति बहुविधदीनवचाः प्रतिगेहं द्वारदेशमधितिष्ठन् ।
निर्भर्त्स्यते वराको गृहिणीभिरिदं वदन्तीभिः

224

न स्थित इह गेहपतिः किं रटसि वृथा प्रयाहि देवकुलम् ।
कथिते ऽपि नापगच्छति पश्य मनुष्यस्य निर्बन्धम्

225

अथ यदि कथं चिदपरः पुनः पुनर्याचितो गृहस्वामी ।
निर्दिशति सावधीरणमत्र स्वपिहीति शीर्णगृहकोणे

226

तत्र कलहायमाना तिष्ठति गृहिणी विभावरीप्रहरम् ।
अज्ञाताय किमर्थं वासो दत्तस्त्वयेति सह भर्त्रा

227

ईदृगयं सरलात्मा किं कुरुषे भगिनि तावको भर्ता ।
स्थास्यसि गेहे ऽवहिता भ्रमन्ति खलु वञ्चका एवम्

228

इति भाजनादियाच्ञां बुद्धौ विनिधाय निकटवर्तिगृहात् ।
नारी समभ्युपेता ब्रूते तामाप्तभावेन

229

गृहशतमधिकमटित्वा कलमकुलत्थाणुचणमसूरादि ।
एकीभूतं भुङ्क्ते क्षुधोपतप्तो ऽध्वगो भैक्षम्

230

परवशमशनं वसुधां शयनीयं सुरनिकेतनं सद्म ।
पथिकस्य विधिः कृतवानुपधानकमिष्टकाखण्डम्

231

इति निगदितवति तस्मिन् सुन्दरसेनस्य चोत्तरावसरे ।
इयमुपगीता गीतिः केनापि कथाप्रसङ्गेन

232

निजवरभवनं सुरगृहमुर्वीतलमतिमनोहरं शयनम् ।
कदशनममृतमभीप्सितकार्यैकनिविष्टचेतसां पुंसाम्

233

समुपश्रुत्य च सुहृदं पौरन्दरिरिदमुवाच परितुष्टः ।
मम हृदयगतं प्रकटितमेतेन सतैव भवतु गच्छावः

234

अथ सहचरद्वितीयः क्लेशसमुद्रावतरणकृतचित्तः ।
निरगात्सुन्दरसेनः कुसुमपुरादविदितः पित्रा

235

पश्यन् विदग्धगोष्ठीरभ्यस्यन्नायुधानि सकलानि ।
शास्त्रार्थानवगच्छन्विलोकयन्कौतुकानि विविधानि

236

जानन् पत्रछेदनमालेख्यं सिक्थपुस्तकर्माणि ।
नृत्यं गीतोपचितं तन्त्रीमुरजादिवाद्यभेदांश्च

237

बुध्यन्वञ्चकभङ्गीर्विटकुलटानर्मवक्रकथितानि ।
बभ्राम सुहृत्सहितः सुन्दरसेनो महीमखिलाम्

238

अथ विदितसकलशास्त्रो विज्ञाताशेषजनसमाचरणः ।
निजगृहगमनाकाङ्क्षी स शिलोच्चयमर्बुदं प्राप

239

तत्पृष्ठदेशदर्शनलोलमलं सुन्दरं परिज्ञाय ।
गुणपालितो बभाषे विलोक्यतामद्रिराज इति

240

एष सुतः सानुतटस्यन्दच्छीताच्छसलिलसम्पन्नः ।
लोकानुकम्पयेव प्रालेयमहीभृता मरौ न्यस्तः

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc