भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 1-20

1

स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः ।
यस्यानुरक्तललनानयनान्तविलोकितं वसतिः

2

अवधीर्य दोषनिचयं गुणलेशे संनिवेश्य मतिमार्याः ।
कुट्टन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत

3

अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता ।
युक्ताभियुक्तजनता नगरी वाराणसी नाम

4

अनुभवतामपि यस्यामुपभोगान् कामतः शरीरवताम् ।
शशधरखण्डविभूषितदेहलयः किल न दुष्प्रापः

5

चन्द्रविभूषितदेहा भूतिरताः सद्भुजङ्गपरिवाराः ।
वारस्त्रियो ऽपि यस्यां पशुपतितनुतुल्यतां याताः

6

अतितुङ्गसुरनिकेतनशिखरसमुत्क्षिप्तपवनचलिताभिः ।
मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः

7

अविरतसंचरदबलाचरणतलालक्तकद्रवारुणितम् ।
स्थलकमलवतीं लक्ष्मीं बिभर्ति वसुधातलं यत्र

8

यत्र च रमणीभूषणरवबधिरितसकलदिङ्नभोभागे ।
शिष्याणां नाचार्यैरवद्यमवधार्यते पठताम्

9

विन्ध्यधराधरभूरिव या राजति मत्तवारणोपेता ।
बहुलनिशीथवतीव प्रोज्ज्वलधिष्ण्योपशोभिता या च

10

यतिगणगुणसमुपेता या नित्यं छन्दसामिव प्रचितिः ।
वनपङ्क्तिरिव ससाला तुरुष्कसेनेव बहलगन्धर्वा

11

तारागणो ऽकुलीनः प्रियदोषा यत्र कौशिकाः सततम् ।
गद्ये वृत्तच्यवनं परगृहरोधस्तथाक्षेषु

12

शूलभृतो व्यालास्था पदवेदिषु यत्र धातुवादित्वम् ।
सुरतेष्वबलाक्रमणं दानच्छेदो मदच्युतौ करिणाम्

13

तीव्रकरत्वं भानोरविवेको यत्र मित्रहृदयानाम् ।
योगिषु दण्डग्रहणं संधिच्छेदः प्रगृह्येषु

14

छन्दःप्रस्तारविधौ गुरवो यस्यामनार्जवस्थितयः ।
वीणायां परिवादो द्विजनिलयेष्वप्रसन्नत्वम्

15

अनुरूपवृत्तघटना सत्कविकृतरूपकेषु लोके च ।
रमणीवचने यस्यां माधुर्यं काव्यबन्धे च

16

यस्यामुपवनवीथ्यां तमालपत्त्राणि युवतिवदने च ।
नखरप्रहारकणितं तन्त्रीवाद्ये च सुरतकलहे च

17

नन्दनवनाभिरामा विबुधवती नाकवाहिनीजुष्टा ।
अमरावतीव यान्या विश्वसृजा निर्मिता जगति

18

तस्यां खगपतितनुरिव विलासिनां हृदयशोकसंजननी ।
आकृष्टेश्वरहृदया प्रालेयनगाधिराजतनयेव

19

संसक्तभोगिनेत्रा मन्दरधरणीभृतो यथा मूर्तिः ।
उपरिगता शूलानामन्धासुरगात्रलेखेव

20

समुवास वाररामा मानसवसतेः शरीरिणी शक्तिः ।
निःशेषवेशयोषिद्विभूषणं मालती नाम

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc