कुट्टनीमत · श्लोक 161-180
अविवेचितनखरक्षतिरामीलितलोचना निरुत्साहा ।
नायककार्यसमाप्तौ स्थास्यसि शिथिलीकृतावयवा
झगिति नितम्बावरणं निःसहतनुतां स्मितं सवैलक्ष्यम् ।
खेदालसां च दृष्टिं जनयिष्यसि मोहनच्छेदे
वृत्ते रताभियोगे स्पृष्ट्वा सलिलं विकृष्टभूभागे ।
प्रक्षाल्य पाणिपादं स्थित्वा क्षणमासने समूह्य कचान्
उपयुक्तवदनवासा शय्यामारुह्य दर्शितप्रणया ।
इति वक्ष्यसि तं रमणं दृढतरमालिङ्ग्य रभसतः कण्ठे
भट्टसुत नूनमिष्टा तव जाया यदनुरक्तहृदयस्य ।
जनयति परितुष्टिमलं नापररामापरिष्वङ्गः
सफलं तस्या जन्म स्पृहणीया सैव सकलललनानाम् ।
गौरी तयैव महिता सुभगङ्करणं तपस्तयाचरितम्
सैवैका गुणवसतिस्तस्या एवान्वयः सदा श्लाघ्यः ।
यस्याः शुभशतभाजः पाणिग्रहणं त्वया विहितम्
तिष्ठतु सा पुण्यवती वंशद्वयभूषणं वरारोहा ।
या नापयाति भवतो लक्ष्मीरिव नरकवैरिणो हृदयात्
पातयसि कुवलयनिभे कौतुकमात्रेण लोचने यासु ।
ता अपि सत्यं सुन्दर हर्षोल्लसिता न मान्ति गात्रेषु
तनुरपि नाथप्रणयः प्रायो मुखरीकरोति लघुमनसः ।
स्वार्थनिवेशितचित्ता करोमि ते ऽभ्यर्थनां तेन
तीव्रस्मरतारुण्याच्चापलतः कौतुकेन घृणया वा ।
मद्भाग्यसम्पदा वा दूत्या वा कौशलात्स्वभावाद्वा
यो ऽयं प्रेमलवांशः प्रदर्शितो ऽस्मासु जीवनोपायः ।
बाधा नात्र विधेया गणिकाजनवृत्तमन्यथा बुद्ध्वा
येन स्नेहः क्रोधः शाठ्यं दाक्षिण्यमार्जवं व्रीडा ।
एतानि सन्ति तास्वपि जीवद्धर्मोपनीतानि
निर्व्याजसमुत्पन्नप्रबलप्रेमाभिभूतहृदयानाम् ।
दयितविरहाक्षमाणां गणिकानां तृणसमाः प्राणाः
अत्राकर्णय साद्भुतमाख्यानं वर्णयामि यद्वृत्तम् ।
अद्यापि बिभर्ति वटो विशेषणं यदभिसम्बन्धात्
अस्ति महीतलतिलकं सरस्वतीकुलगृहं महानगरम् ।
नाम्ना पाटलिपुत्रं परिभूतपुरन्दरस्थानम्
त्रिभुवनपुरनिष्पादनकौशलमिव पृच्छतो विरिञ्चस्य ।
दर्शयितुं निजशिल्पं वर्णकमिव विश्वकर्मणा विहितम्
अश्रेयोभिरनाश्रितमभिभूतं नाभिभूतिदोषेण ।
न स्वीकृतमुपसर्गैः कलिकालमलैरनालीढम्
पातालतलं भोगिभिरम्भोधिर्वारिरत्ननिचयैश्च ।
सुरसदनं विबुधगणैर्द्रविणोपचयैः पुरं कुवेरस्य
रमणीभिरसुरविवरं कटकं हेमाचलस्य गान्धर्वैः ।
हरिनगरं क्रतुयूपैः शमविभवैर्मुनिजनस्थानम्
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0