कुट्टनीमत · श्लोक 181-200
तिष्ठन्तु सकलशास्त्रव्यालोचनविमलबुद्धयो विप्राः ।
सदसद्गुणनिर्णीतौ ललना अपि निकषभूमयो यस्मिन्
कलिकालोदितभीत्या क्रतुहुतवहधूमकम्बलावरणः ।
तिष्ठन्निभृतो ऽपि कृतश्चरितैरनुमीयते यस्मिन्
अपहरति पिधातुमिव स्वकलङ्कं शशधरः प्रसार्य करान् ।
रात्रौ यत्र वधूनां लावण्यं वदनकोषेभ्यः
तिमिरपटलासिताम्बरमपहरदभिसारिकाजनौघस्य ।
निजतनुकान्तिवितानं वल्लभसम्भोगविहतये यस्मिन्
यत्र नितम्बवतीनां विचलन्नयनान्तशितशरैर्व्रणितः ।
शिथिलयति पथिकलोकः स्वकलत्रसमागमोत्कण्ठाम्
यत्र च कुलमहिलानामल्पत्वं वचसि पाणिपादे च ।
स्वच्छत्वमाशयेषु व्यालोलविशालनेत्रे च
पीनपयोधरभारे घनता जीवेशसहजरागे च ।
कुलदेवतार्चनविधौ वलिशोभा मध्यभागे च
गम्भीरता स्वभावे चेतोभवबाणतूणनाभौ च ।
विस्तीर्णता नितम्बे गुरुजनपूजानुरक्तचित्ते च
हरिणायतेक्षणानां विच्छित्तिः कोषहरणमब्जेषु ।
कुटिलत्वमलकपङ्क्तौ बालानां कामचेष्टितं यत्र
संयमनमिन्द्रियाणामिनोपघातग्रहस्तमिस्रस्य ।
स्तब्धत्वं सालतरौ हारलता तरलसंगता यस्मिन्
भुजगाः पररन्ध्रदृशः खण्ड्यन्ते प्रियतमाधरा यत्र ।
सूचीव्यथानुभूतिर्नृत्याभ्यासप्रवृत्तानाम्
नतवपुरप्यतिसरला मन्थरगमनापि नर्मदा यस्मिन् ।
गुरुजनशास्त्ररतापि स्वभावमुग्धाङ्गनाजनता
तस्मिन्मखशतपूतः पुरुहूत इव द्विजन्मनां प्रवरः ।
गुरुरिव विद्यावसतिर्वसति स्म पुरन्दरो नाम्ना
धर्मात्मजस्य सत्यं त्रिपुररिपोर्विजितकुसुमचापत्वम् ।
हरिनाभिपङ्कजभुवो विजितेन्द्रियतां जहास यः सततम्
न्यक्कृतवृष इति शर्वे याचक इति कौस्तुभाभरणे ।
पीडितवसुधासुत इति कपिले न बभूव यस्य बहुमानः
मार्गानुसृतौ लुब्धो यः प्राणिवपुर्विनाशविमुखो ऽपि ।
परिहृतपरदारो ऽपि स्वाकाङ्क्षितगुरुजनप्रमदः
यस्यान्वये महीयसि सरसीव समस्तसत्त्वनिजवसतौ ।
सच्चरितजन्मभूमौ विनिवारितकलिमलप्रसरे
पितृतर्पणप्रसङ्गे खड्गग्रहणं न शौर्यदर्पेण ।
त्रुटनं मेखलिकानां वटुकजने नो रताजिसंमर्दे
श्रुतिभेदेषु विवादो नो रिक्थविभागमन्युना जनितः ।
तेजस्विता हविर्भुजि न शमैकरतेषु भूमिदेवेषु
जरतामेव स्खलनं जपतामेवाधरस्फुरणम् ।
यजतामेव समिध्रुचि रेणाजिन एव कृष्णसम्पर्कः
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0