कुट्टनीमत · श्लोक 141-160
अथ पर्यङ्कसनाथं दीपोज्ज्वलकुसुमधूपगन्धाढ्यम् ।
विततवितानकरम्यं प्रवेशितो वासकावासम्
मात्रा ते गुरुजघने सादरमवतारणादिकं कृत्वा ।
अभिनन्दनीय एभिर्वचनविशेषैः प्रयत्नेन
अद्याशिषः समृद्धाः परितुष्टा इष्टदेवता अद्य ।
कल्याणालङ्कारो यदलङ्कृतवानिदं वेश्म
अनुरूपपात्रघटनं कुर्वाणस्याद्य कुसुमबाणस्य ।
सुचिराद्बत संजातः शरासनाकर्षणश्रमः सफलः
विन्यस्य शिरसि चरणं सुभगा गणिकाजनस्य सकलस्य ।
सौभाग्यवैजयन्तीं सम्प्रति वत्सा समुत्क्षिपतु
दुहितर एव श्लाघ्या धिग्लोकं पुत्रजन्मसंतुष्टम् ।
जामातर आप्यन्ते भवादृशा यदभिसम्बन्धात्
दृढपरिचया गुणज्ञा भवद्विधा नार्थनार्हका यदपि ।
तदपि हृदयाभिनन्दन दुहितृस्नेहादहं वच्मि
सहजप्रेमोपहृता न्यस्ता त्वयि मालती तथा कार्यम् ।
न यथा भवति वराकी त्वद्विप्रियजन्मनां शुचां वसतिः
मृदुधौतधूपिताम्बरमग्राम्यं मण्डनं च बिभ्राणा ।
परिपीतधूपवर्तिः स्थास्यसि रमणान्तिके सुतनु
सस्नेहं सव्रीडं ससाध्वसं सस्पृहं च पश्यन्ती ।
किं चिद्दृश्यशरीरा प्रविरलपरिहासपेशलालापा
मातरि निर्यातायां परिजनमुक्ते च वासकस्थाने ।
अभियुञ्जाने रमणे वामाचरणं क्षणं कार्यम्
रतिसंगरनिहितमतावाकर्षति रभसतः पुरस्तस्मिन् ।
कुट्टमितमाचरन्ती जनयिष्यसि किं चिदङ्गसंकोचम्
प्रारब्धे सुरतविधौ क्रमदर्शितचित्तयोनिसंवेगा ।
अपशङ्कमर्पयिष्यसि निर्व्याजं पुत्रि गात्राणि
यद्यद्वाञ्छति हन्तुं यद्दंष्टुं यच्च विलिखितुं गात्रम् ।
तत्तदपसारणीयं सावेगं ढौकनीयं च
दंशे सव्यथहुङ्कृतिमामर्दे विविधकण्ठरसितानि ।
नखविलिखने च सीत्कृतमाघातेषूल्बणं क्वणितम्
ह्रस्वायासश्वासान् मुञ्चन्ती पुलकदन्तुरशरीरा ।
स्विद्यत्सर्वावयवा प्रकरिष्यसि रागवृद्धये पुंसाम्
परभृतलावकहंसकपारावततुरगहृदयनिःस्वनितम् ।
अनुकार्यमुचितकाले कलकण्ठरुतैस्त्वया रसतः
मा मा मामतिपीडय मुञ्च क्षणमदय नो समर्थास्मि ।
इति गद्गदास्फुटाक्षरमभिधातव्यस्त्वया कामी
अनुबन्धमानुकूल्यं वामत्वं प्रौढतामसामर्थ्यम् ।
सुरतेषु दर्शयिष्यसि कामुकभावं स्फुटं बुद्ध्वा
असमञ्जसमश्लीलं दूरोज्झितधैर्यमविनयप्रसरम् ।
व्यवहारमाचरिष्यसि वृद्धिमुपेते रतावेगे
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0