भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 121-140

121

सहजविलासनिवासं तस्या वपुरनभिवीक्षमाणस्य ।
मन्ये नाकाधिपतेः सहस्रमपि चक्षुषां विफलम्

122

शिथिलयतु कुसुमचापं क्षिपतु शरान् बाणधौ मनोजन्मा ।
संसारसारभूता विचरति भुवि मालती यावत्

123

वात्स्यायनमदनोदयदत्तकविटवृत्तराजपुत्राद्यैः ।
उच्छ्वसितं यत्किं चित्तत्तस्या हृदयदेशमध्यास्ते

124

भरतविशाखिलदत्तिलवृक्षायुर्वेदचित्रसूत्रेषु ।
पत्रच्छेदविधाने भ्रमकर्मणि पुस्तसूदशास्त्रेषु

125

आतोद्यवादनविधौ नृत्ते गीते च कौशलं तस्याः ।
अभिधातुं यदि शक्तो वदनसहस्रेण भोगिनामीशः

126

परिगलदालोलांशुकमपयन्त्रणमुपरि मालती रभसात् ।
निपतति नापुण्यवतां रतिलालसमानसा रहसि

127

रतिरसरभसास्फालनचलवलयनिनादमिश्रितं तस्याः ।
तत्कालोचितमणितं श्रुतिपथमुपयाति नाल्पपुण्यस्य

128

इत्थमभिधीयमानः शुभमध्ये यदि भवेदुदासीनः ।
एवं ततो ऽभिधेयः संदर्शितकोपया दूत्या

129

किं सौभाग्यमदो ऽयं यौवनलीलाभिरूपतादर्पः ।
सहजप्रेमोपनतां मालतिकां न बहु मन्यसे येन

130

न गणयति या कुलीनान् द्रविणवतः शास्त्रवेदिनः प्रणतान् ।
सा भवदर्थे शुष्यति कुस्थाननिवेशितं धिगनुरागम्

131

कमलवती तीव्ररुचौ बहुभस्मनि शम्भुशिरसि शशिलेखा ।
सा च त्वयि पशुकल्पे यदभिरता तेन मे कृशता

132

असरलमरसं कठिनं दुर्ग्रहमस्निग्धमाश्रिता खदिरम् ।
यदुपैति वाच्यपदवीं मालतिका तत्किमाश्चर्यम्?

133

अथवा कः खलु दोषो यदतुल्यतयोपजनितवैलक्ष्यः ।
स्वाधीनामपि सरसां परिहरति मृणालिकां ध्वाङ्क्षः

134

मात्र करिष्यसि खेदं निष्ठुरमुक्तो ऽसि यन्मया सुभग ।
यूनां हि रक्ततरुणीसुहृदभिहितपरुषमाभरणम्

135

चन्द्रमसेव ज्योत्स्ना कंसासुरवैरिणेव वनमाला ।
कुसुमशरासनलतिका कुसुमाकरवल्लभेनेव

136

मदलीला हलिनेव स्तनयुगलेनेव हारलता ।
रम्यापि सा सुगात्री रम्यतरा भवतु संगता भवता

137

किं बहुना यदि यूनामुपरि विधातुं समीहसे चरणम् ।
तत्कुरु रमणीरत्नं प्रेमोज्ज्वलमङ्कतस्तूर्णम्

138

अथ तद्वचनश्रवणप्रविजृम्भितमदनभट्टदायादः ।
उपचरणीयः सुन्दरि निजवसतिमुपागतस्त्वयाप्येवम्

139

दूरादभ्युत्थानं प्रणमनमात्मासनप्रदानं च ।
प्रविधेयमञ्चलेन प्रस्फोटनमङ्घ्रियुगलस्य

140

ईषदयत्नप्रकटं कक्षोदरबाहुमूलकुचभागम् ।
संदर्श्य झटिति यास्यसि नायकदृग्गोचरात्तूर्णम्

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc