कुट्टनीमत · श्लोक 1021-1040
दूरे कदलीदण्डा ऊर्वोरपि न सहते समाश्लेषम् ।
करसम्पर्काद्विमुखी विश्राम्यति पल्लवेष्विति विरुद्धम्
अयि मञ्जरि सैव त्वं विदग्धजनमण्डिता पुरी सैव ।
कुसुमायुधः स एव व्यसनं कुत एतदायातम्
यस्याः कामः कृपणो रागाकृष्टिस्तृणोलपप्रख्या ।
सापि गता भूमिमिमां जीवन्त्या नेक्ष्यते किमिह
अभियोगशिक्षितानामशिक्षितानां च मदनचेष्टानाम् ।
सुतनु विशेषग्रहणे सामर्थ्यं तद्विदामेव
व्यथयन्नपि सच्छायः परिजनचिन्ताकरो ऽपि रमणीयः ।
आधत्ते त्वयि लक्ष्मीमभिनवरागाश्रयो रागः
एकः स एव जातो भुवने ऽस्मिन्नसमसायकस्पर्धी ।
तेन शशिबिम्बफलके सुजन्मना लेखितं निजं नाम
पादस्तेन सलीलं विन्यस्तः सुभगमानिनां मूर्ध्नि ।
सौभाग्ययशःकुसुमं धनपतिसूनोः कदर्थितं तेन
नरवञ्चनपटुबुद्धिः संपादितकपटचाटुसंघटना ।
त्वमपि विलासिनि नीता गतिमियतीं येन सुभगेन
तद्वद तस्य स्थानं यतामहे कार्यसाधनायालम् ।
कुर्वत एव हि यत्नं भिषग्जनाः कृच्छ्रसाध्यरोगे ऽपि
इति गदिते सख्या सा तदभिमुखं चक्षुषी समुन्मील्य ।
वितरति कृच्छ्रेण चिराद्विभावितं क्लिष्टहुङ्कारम्
का पुरुषार्थसमीहा द्योतयतः शर्वरीं शशाङ्कस्य ।
तर्पयतां भुवमखिलां सलिलमुचां को ऽभिकाङ्क्षितो लाभः
मण्डयितुं वियदुदयति पुरुहूतधनुर्विनैव फलवाञ्छाम् ।
अनपेक्षितात्मकार्यः परहितकरणग्रहः सतां सहजः
प्रायेण यन्निदानं तदसेवनमुपशमाय रोगाणाम् ।
स्मरमान्द्यं तु यदुत्थं तदेव खलु भेषजं यतस्तस्य
तेन स्पृहयति सुतनुस्त्वत्पादयुगाब्जरेणुसंगतये ।
आशीर्विषयोपेते सम्भोगसुखोदये तु नाकाङ्क्षा
प्रमदमुपैति मयूरी परमं शब्देन वारिवाहस्य ।
अनिमिषविलोकितेन प्राप्नोति झषी कृतार्थतामेव
न वृथास्तुतिमुखरतया न च युष्मल्लोभनाभियोगेन ।
विदधामि तद्गुणाख्यां स्वरूपमात्रप्रसङ्गेन
सद्भावबद्धमूले स्मितदृष्टिभ्रूविकारपल्लविते ।
सेवन्ते हृद्यरसां रागतरौ मञ्जरीं धन्याः
तिष्ठतु तदङ्गसङ्गो विलोकिता येन झगिति वरगात्री ।
तस्यान्यो युवतिजनः प्रतिभाति मनुष्यरूपेण
सकृदपि यैरनुभूतस्तत्तनुपरिरम्भसुखरसास्वादः ।
विद्धि नराधिप तेषां दूरीभूतं प्रजाकार्यम्
आस्था का खलु तस्या विषयग्रहदुर्बलेषु पुरुषेषु ।
यस्या विलासजालकपतितः शकुनायते कपिलः
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0