कुट्टनीमत · श्लोक 1041-1059
दग्ध्वापि पुनर्दग्धो नूनमनङ्गः हरेण तां तन्वीम् ।
दृष्ट्वापि येन तिष्ठसि निराकुलः स्वस्थवृत्तेन
अथ विरतोक्तौ तस्यामुल्लासितमानसे च नृपसूनौ ।
कश्चिदगायद्गीतिं स्मृतिसंगतिमागतां प्रसङ्गेन
अन्योन्यगाढरागप्रबलीकृतचित्तजन्मनोर्यूनोः ।
कालात्ययो मनागपि समागमानन्दविघ्नकरः
श्रुत्वा सिंहभटसुतः प्रियाप्रियां प्रीतिमान् स्मितप्रथमम् ।
निजगाद चारुभाषिणि गीतिकया समयसम्मतं कथितम्
अभिनन्द्य सा तथेति प्रययौ प्रमदावती निजं भवनम् ।
अकरोच्च विदितकार्यां युक्ते ऽवसरे मनोरमां गणिकाम्
अथ सा कृतसंकल्पा सत्वरमादाय रुचिरविच्छित्तिम् ।
आसाद्य नृपनिशान्तं विवेश संचारिकासहिता
विहितनमस्कृतिरासनमधितष्ठौ नायकेन निर्दिष्टम् ।
पृष्टे च देहकुशले विनयान्वितमभ्यधाद्दूती
श्रीमन्नद्य श्रेयःसम्पन्ना गुरुजनाशिषो ऽशेषाः ।
अद्य मदनः प्रसन्नो भाग्यचयैरद्य परिणतं फलतः
अद्य जननी प्रसूता सौभाग्यगुणोदयो ऽद्य निष्णातः ।
त्वयि वितरति सस्नेहं निरामयप्रश्नभारतीं तस्याः
उत्कलिकाकुलमनसामुद्रिक्तरिरंसयाभिभूतानाम् ।
औदासीन्यं भजतां समागता भवति नालिका यूनाम्
धृतसुमनःशरधनुषा सहायवांस्तिष्ठ दयितया सार्धम् ।
यामो वयं न राजति विजनस्थितमिथुनसंनिधावपरः
एषा नृत्यश्रान्ता मदनेनायासितातिसुकुमारा ।
त्वमपि रतिसमरशूरः स्वर्गभुवः सन्तु कुशलाय
यावद्यावदशक्तिं प्रथयति ललना हि मोहनाक्रान्ता ।
तावत्तावत्पुंसामुत्साहः पल्लवान् समुत्सृजति
इति शून्यीकृतवेश्मनि हरति शनैः सहजमंशुकं तस्मिन् ।
दर्शितसाध्वसलज्जा जगाद सा किं करोषीति
अयि मुग्धे तत्क्रियते पुरुषार्थचतुष्टयस्य यत्सारम् ।
इति निगदितसस्मेरः स्मरविधुरित आततान रतिकलहम्
वेर्सेस् 1056-1059 अरे fओउन्द् ओन्ल्य् इन् त्wओ नेपलेसे मनुस्च्रिप्त्स् अन्द् इन् त्wओ एदितिओन्स्.
नानासुरतविशेषैराराध्य चकार भुक्तसर्वस्वम् ।
गणिकासौ राजसुतं त्वगस्थिशेषं मुमोच नातिचिरात्
तद्यन्मयोपदिष्टं कामिजनार्थाप्तिकारणं तेन ।
महतीं समृद्धिमेष्यसि कामुकलोकाहृतेन वित्तेन
इत्युपदेशश्रवणप्रबोधतुष्टा जगाम धाम स्वम् ।
मालत्यपगतमोहा विकरालापादवन्दनां कृत्वा
काव्यमिदं यः शृणुते सम्यक्काव्यार्थपालनेनासौ ।
नो वञ्च्यते कदा चिद्विटवेश्याधूर्तकुट्टनीभिरिति
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0