भाषा

ENहिગુ
ग्रंथ पाठ

कूर्म पुराण · अध्याय 2.9

2.9.1

इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) अष्टमो ऽध्यायः
ऋषय ऊचुः
निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।
तन्नो वद महादेव विश्वरूपः कथं भवान्

2.9.2

ईश्वर उवाच
नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।
मायानिमित्तमत्रास्ति सा चात्मानमपाश्रिता

2.9.3

अनादिनिधना शक्तिर्मायाव्यक्तसमाश्रया ।
तन्निमित्तः प्रपञ्चो ऽयमव्यक्तादभवत् खलु

2.9.4

अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।
अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते

2.9.5

तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम्

2.9.6

अहं तत् परमं ब्रह्म परमात्मा सनातनः ।
अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा

2.9.7

अनन्ता शक्तयो ऽव्यक्ते मायाद्याः संस्थिता ध्रुवाः ।
तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम्

2.9.8

याभिस्तल्लक्ष्यते भिन्नमभिन्नं तु स्वभावतः ।
एकया मम सायुज्यमनादिनिधनं ध्रुवम्

2.9.9

पुंसो ऽभूदन्यया भूतिरन्यया तत्तिरोहितम् ।
अनादिमध्यं तिष्ठन्तं युज्यते ऽविद्यया किल

2.9.10

तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।
तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम्

2.9.11

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते

2.9.12

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन

2.9.13

वेदाहमेतं पुरुषं महान्त-
मादित्यवर्णं तमसः परस्तात् ।
तद् विज्ञाय परिमुच्येत विद्वान्
नित्यानन्दी भवति ब्रह्मभूतः

2.9.14

यस्मात् परं नापरमस्ति किञ्चित्
यज्ज्योतिषां ज्योतिरेकं दिविस्थम् ।
तदेवात्मानं मन्यमानो ऽथ विद्वान्
आत्मानन्दी भवति ब्रह्मभूतः

2.9.15

तदव्ययं कलिलं गूढदेहं
ब्रह्मानन्दममृतं विश्वधाम ।
वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा
यत्र गत्वा न निवर्तेत भूयः

2.9.16

हिरण्मये परमाकाशतत्त्वे
यदर्चिषि प्रविभातीव तेजः ।
तद्विज्ञाने परिपश्यन्ति धीरा
विभ्राजमानं विमलं व्योम धाम

2.9.17

ततः परं परिपश्यन्ति धीरा
आत्मन्यात्मानमनुभूयानुभूय ।
स्वयंप्रभः परमेष्ठी महीयान्
ब्रह्मानन्दी भगवानीश एषः

2.9.18

एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
तमेवैकं ये ऽनुपश्यन्ति धीरास्
तेषां शान्तिः शाश्वती नेतरेषाम्

2.9.19

सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते

2.9.20

इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुङ्गवाः ।
गोपनीयं विशेषेण योगिनामपि दुर्लभम्

मूल पाठ: Kūrmapurāṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc