भाषा

ENहिગુ
ग्रंथ पाठ

कूर्म पुराण · अध्याय 2.8

2.8.1

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) सप्तमो ऽध्यायः
ईश्वर उवाच
अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुङ्गवाः ।
येनासौ तरते जन्तुर्घोरं संसारसागरम्

2.8.2

अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलो ऽव्ययः ।
एकाकी भगवानुक्तः केवलः परमेश्वरः

2.8.3

मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् ।
मूलं मायाभिधानं तु ततो जातमिदं जगत्

2.8.4

प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च ।
तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे

2.8.5

ततो ऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ।
तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः

2.8.6

ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।
न मां पश्यन्ति पितरं मायया मम मोहिताः

2.8.7

याश्च योनिषु सर्वासु संभवन्ति हि मूर्तयः ।
तासां माया परा योनिर्मामेव पितरं विदुः

2.8.8

यो मामेवं विजानाति बीजिनं पितरं प्रभुम् ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति

2.8.9

ईशानः सर्वविद्यानां भूतानां परमेश्वरः ।
ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः

2.8.10

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति

2.8.11

समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति पराङ्गतिम्

2.8.12

विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।
प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति

2.8.13

सर्वज्ञता तृप्तिरनादिबोधः
स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विदित्वा
षडाहुरङ्गानि महेश्वरस्य

2.8.14

तन्मात्राणि मन आत्मा च तानि
सूक्ष्माण्याहुः सप्त तत्त्वात्मकानि ।
या सा हेतुः प्रकृतिः सा प्रधानं
बन्धः प्रोक्तो विनियोगो ऽपि तेन

2.8.15

या सा शक्तिः प्रकृतौ लीनरूपा
वेदेषूक्ता कारणं ब्रह्मयोनिः ।
तस्या एकः परमेष्ठी परस्ता-
न्महेश्वरः पुरुषः सत्यरूपः

2.8.16

ब्रह्मा योगी परमात्मा महीयान्
व्योमव्यापी वेदवेद्यः पुराणः ।
एको रुद्रो मृत्युरव्यक्तमेकं
बीजं विश्वं देव एकः स एव

2.8.17

तमेवैकं प्राहुरन्ये ऽप्यनेकं
त्वेकात्मानं केचिदन्यत्तथाहुः ।
अणोरणीयान् महतो ऽसौ महीयान्
महादेवः प्रोच्यते वेदविद्भिः

2.8.18

एवं हि यो वेद गुहाशयं परं
प्रभुं पुराणं पुरुषं विश्वरूपम् ।
हिरण्मयं बुद्धिमतां परां गतिं
स बुद्धिमान् बुद्धिमतीत्य तिष्ठति

मूल पाठ: Kūrmapurāṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc