भाषा

ENहिગુ
ग्रंथ पाठ

कूर्म पुराण · अध्याय 2.10

2.10.1

इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) नवमो ऽध्यायः
ईश्वर उवाच
अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् ।
स्वयञ्ज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम्

2.10.2

अव्यक्तं कारणं यत्तदक्षरं परमं पदम् ।
निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः

2.10.3

तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः ।
पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः

2.10.4

अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुङ्गवाः ।
नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम्

2.10.5

एतत्तत्परमं ज्ञानं केवलं कवयो विदुः ।
अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत्

2.10.6

यज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् ।
ममात्मासौ तदेवेमिति प्राहुर्विपश्चितः

2.10.7

ये ऽप्यनेकं प्रपश्यन्ति ते ऽपि पश्यन्ति तत्परम् ।
आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम्

2.10.8

ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् ।
भक्त्या मां संप्रपश्यन्ति विज्ञेयास्ते तदात्मकाः

2.10.9

साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् ।
नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः

2.10.10

भजन्ते परमानन्दं सर्वगं यत्तदात्मकम् ।
स्वात्मन्यवस्थिताः शान्ताः परे ऽव्यक्ते परस्य तु

2.10.11

एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् ।
निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः

2.10.12

तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् ।
स ईश्वरो महादेवस्तं विज्ञाय विमुच्यते

2.10.13

न तत्र सूर्यः प्रविभातीह चन्द्रो
न नक्षत्राणि तपनो नोत विद्युत् ।
तद्भासेदमखिलं भाति नित्यं
तन्नित्यभासमचलं सद्विभाति

2.10.14

नित्योदितं संविदा निर्विकल्पं
शुद्धं बृहन्तं परमं यद्विभाति ।
अत्रान्तरं ब्रह्मविदो ऽथ नित्यं
पश्यन्ति तत्त्वमचलं यत् स ईशः

2.10.15

नित्यानन्दममृतं सत्यरूपं
शुद्धं वदन्ति पुरुषं सर्ववेदाः ।
तदेवेदमिति प्रणवेनेशितारं
धायायन्ति वेदार्थविनिश्चितार्थाः

2.10.16

न भूमिरापो न मनो न वह्निः
प्राणो ऽनिलो गगनं नोत बुद्धिः ।
न चेतनो ऽन्यत् परमाकाशमध्ये
विभाति देवः शिव एव केवलः

2.10.17

इत्येतदुक्तं परमं रहस्यं
ज्ञानामृतं सर्ववेदेषु गूढम् ।
जानाति योगी विजने ऽथ देशे
युञ्जीत योगं प्रयतो ह्यजस्रम्

मूल पाठ: Kūrmapurāṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc