भाषा

ENहिગુ
ग्रंथ पाठ

कुमारसंभव · अध्याय 4

4.1

अथ मोहपरायणा सती विवशा कामवधूर् विबोधिता
विधिना प्रतिपादयिष्यता नववैधव्यम् असह्यवेदनम् ॥

4.2

अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने
न विवेद तयोर् अतृप्तयोः प्रियम् अत्यन्तविलुप्तदर्शनम् ॥

4.3

अयि जीवितनाथ जीवसीत्य् अभिधायोत्थितया तया पुरः
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥

4.4

अथ सा पुनर् एव विह्वला वसुधालिङ्गनधूसरस्तनी
विललाप विकीर्णमूर्धजा समदुःखाम् इव कुर्वती स्थलीम् ॥

4.5

उपमानम् अभूद् विलासिनां करणं यत् तव कान्तिमत्तया
तद् इदं गतम् ईदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥

4.6

क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः
नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥

4.7

कृतवान् असि विप्रियं न मे प्रतिकूलं न च ते मया कृतम्
किम् अकारणम् एव दर्शनं विलपन्त्यै रतये न दीयते ॥

4.8

स्मरसि स्मर मेखलागुणैर् उत गोत्रस्खलितेषु बन्धनम्
च्युतकेशरदूषितेक्षणान्य् अवतंसोत्पलताडनानि वा ॥

4.9

हृदये वससीति मत्प्रियं यद् अवोचस् तद् अवैमि कैतवम्
उपचारपदं न चेद् इदं त्वम् अनङ्गः कथम् अक्षता रतिः ॥

4.10

परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीम् अहं तव
विधिना जन एष वञ्चितस् त्वदधीनं खलु देहिनां सुखम् ॥

4.11

रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः
वसतिं प्रिय कामिनां प्रियास् त्वद् ऋते प्रापयितुं क ईश्वरः ॥

4.12

नयनान्य् अरुणानि घूर्णयन् वचनानि स्खलयन् पदे-पदे
असति त्वयि वारुणीमदः प्रमदानाम् अधुना विडम्बना ॥

4.13

अवगम्य कथीकृतं वपुः प्रियबन्धोस् तव निष्फलोदयः
बहुले ऽपि गते निशाकरस् तनुतां दुःखम् अनङ्ग मोक्ष्यति ॥

4.14

हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः
वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥

4.15

अलिपङ्क्तिर् अनेकशस् त्वया गुणकृत्ये धनुषो नियोजिता
विरुतैः करुणस्वनैर् इयं गुरुशोकाम् अनुरोदितीव माम् ॥

4.16

प्रतिपद्य मनोहरं वपुः पुनर् अप्य् आदिश तावद् उत्थितः
रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥

4.17

शिरसा प्रणिपत्य याचितान्य् उपगूढानि सवेपथूनि च
सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिर् अस्ति मे ॥

4.18

रचितं रतिपण्डित त्वया स्वयम् अङ्गेषु ममेदम् आर्तवम्
ध्रियते कुसुमप्रसाधनं तव तच् चारु वपुर् न दृश्यते ॥

4.19

विबुधैर् असि यस्य दारुणैर् असमाप्ते परिकर्मणि स्मृतः
तम् इमं कुरु दक्षिणेतरं चरणं निर्मितरागम् एहि मे ॥

4.20

अहम् एत्य पतङ्गवर्त्मना पुनर् अङ्काश्रयिणी भवामि ते
चतुरैः सुरकामिनीजनैः प्रिय यावन् न विलोभ्यसे दिवि ॥

4.21

मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे
वचनीयम् इदं व्यवस्थितं रमण त्वाम् अनुयामि यद्य् अपि ॥

4.22

क्रियतां कथम् अन्त्यमण्डनं परलोकान्तरितस्य ते मया
समम् एव गतो ऽस्य् अतर्कितां गतिम् अङ्गेन च जीवितेन च ॥

4.23

ऋजुतां नयतः स्मरामि ते शरम् उत्सङ्गनिषण्णधन्वनः
मधुना सह सस्मितं कथां नयनोपान्तविलोकितं च यत् ॥

4.24

क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः
न खलूग्ररुषा पिनाकिना गमितः सो ऽपि सुहृद्गतां गतिम् ॥

4.25

अथ तैः परिदेविताक्षरैर् हृदये दिग्धशरैर् इवार्दितः
रतिम् अभ्युपपत्तुम् आतुरां मधुर् आत्मानम् अदर्शयत् पुरः ॥

4.26

तम् अवेक्ष्य रुरोद सा भृशं स्तनसंबाधम् उरो जघान च
स्वजनस्य हि दुःखम् अग्रतो विवृतद्वारम् इवोपजायते ॥

4.27

इति चैनम् उवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम्
यद् इदं कणशः प्रकीर्यते पवनैर् भस्म कपोतकर्बुरम् ॥

4.28

अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः
दयितास्व् अनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥

4.29

अमुना ननु पार्श्ववर्तिना जगद् आज्ञां ससुरासुरं तव
बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥

4.30

गत एव न ते निवर्तते स सखा दीप इवानिलाहतः
अहम् अस्य दशेव पश्य माम् अविषह्यव्यसनप्रधूषिताम् ॥

4.31

विधिना कृतम् अर्धवैशसं ननु माम् कामवधे विमुञ्चता
अनघापि हि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥

4.32

तद् इदं क्रियताम् अनन्तरं भवता बन्धुजनप्रयोजनम्
विधुरां ज्वलनातिसर्जनान् ननु मां प्रापय पत्युर् अन्तिकम् ॥

4.33

शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते
प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैर् अपि ॥

4.34

अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना
नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥

4.35

कुसुमास्तरणे सहायतां बहुशः सौम्य गतस् त्वम् आवयोः
कुरु संप्रति तावद् आशु मे प्रणिपाताञ्जलियाचितश् चिताम् ॥

4.36

तद् अनु ज्वलनं मदर्पितं त्वरयेर् दक्षिणवातवीजनैः
विदितं खलु ते यथा स्मरः क्षणम् अप्य् उत्सहते न मां विना ॥

4.37

इति चापि विधाय दीयतां सलिलस्याञ्जलिर् एक एव नौ
अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥

4.38

परलोकविधौ च माधव स्मरम् उद्दिश्य विलोलपल्लवाः
निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥

4.39

इति देवविमुक्तये स्थितां रतिम् आकाशभवा सरस्वती
शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिर् इवान्वकम्पत ॥

4.40

कुसुमायुधपत्नि दुर्लभस् तव भर्ता न चिराद् भविष्यति
शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥

4.41

अभिलाषम् उदीरितेन्द्रियः स्वसुतायाम् अकरोत् प्रजापतिः
अथ तेन निगृह्य विक्रियाम् अभिशप्तः फलम् एतद् अन्वभूत् ॥

4.42

परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः
उपलब्धसुखस् तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥

4.43

इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम्
अशनेर् अमृतस्य चोभयोर् वशिनश् चाम्बुधराश् च योनयः ॥

4.44

तद् इदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः
रविपीतजला तपात्यये पुनर् ओघेन हि युज्यते नदी ॥

4.45

इत्थं रतेः किम् अपि भूतम् अदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम्
तत्प्रत्ययाच् च कुसुमायुधबन्धुर् एनाम् आश्वासयत् सुचरितार्थपदैर् वचोभिः ॥

4.46

अथ मदनवधूर् उपप्लवान्तं व्यसनकृशा परिपालयां बभूव
शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ॥

मूल पाठ: Kumārasaṃbhava · Data entry Utz Podzeit · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc