भाषा

ENहिગુ
ग्रंथ पाठ

कुमारसंभव · अध्याय 3

3.1

तस्मिन् मघोनस् त्रिदशान् विहाय सहस्रम् अक्ष्णां युगपत् पपात
प्रयोजनापेक्षितया प्रभूणां प्रायश् चलं गौरवम् आश्रितेषु ॥

3.2

स वासवेनासनसंनिकृष्टम् इतो निषीदेति विसृष्टभूमिः
भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवम् एनम् ॥

3.3

आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत् ते करणीयम् अस्ति
अनुग्रहं संस्मरणप्रवृत्तम् इच्छामि संवर्धितम् आज्ञया ते ॥

3.4

केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर् जनिता तपोभिः
यावद् भवत्य् आहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥

3.5

असंमतः कस् तव मुक्तिमार्गं पुनर्भवक्लेशभयात् प्रपन्नः
बद्धश् चिरं तिष्ठतु सुन्दरीणाम् आरेचितभ्रूचतुरैः कटाक्षैः ॥

3.6

अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर् द्विषस् ते
कस्यार्थधर्मौ वद पीडयामि सिन्धोस् तटाव् ओघ इव प्रवृद्धः ॥

3.7

काम् एकपत्नीव्रतदुःखशीलां लोलं मनश् चारुतया प्रविष्टाम्
नितम्बिनीम् इच्छसि मुक्तलज्जां कण्ट्ःए स्वयंग्राहनिषक्तबाहुम् ॥

3.8

कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः
यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥

3.9

प्रसीद विश्राम्यतु वीर वज्रं शरैर् मदीयैः कतमः सुरारिः
बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्यो ऽपि कोपस्फुरिताधराभ्यः ॥

3.10

तव प्रसादात् कुसुमायुधो ऽपि सहायम् एकं मधुम् एव लब्ध्वा
कुर्यां हरस्यापि पिनाकपाणेर् धैर्यच्युतिं के मम धन्विनो ऽन्ये ॥

3.11

अथोरुदेशाद् अवतार्य पादम् आक्रान्तिसंभावितपादपीठम्
संकल्पिथार्थे विवृतात्मशक्तिम् आखण्डलः कामम् इदं बभाषे ॥

3.12

सर्वं सखे त्वय्य् उपपन्नम् एतद् उभे ममास्त्रे कुलिशं भवांश् च
वज्रं तपोवीर्यमहत्सु कुण्ट्ःअं त्वं सर्वतोगामि च साधकं च ॥

3.13

अवैमि ते सारम् अतः खलु त्वां कार्ये गुरुण्य् आत्मसमं नियोक्ष्ये
व्यादिश्यते भूधरताम् अवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥

3.14

आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम्
निबोध यज्ञांशभुजाम् इदानीम् उच्चैर्द्विषाम् ईप्सितम् एतद् एव ॥

3.15

अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यम् उशन्ति देवाः
स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर् ब्रह्मणि योजितात्मा ॥

3.16

तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व
योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्य् आत्मभुवोपदिष्टम् ॥

3.17

गुरोर् नियोगाच् च नगेन्द्रकन्या स्थाणुं तपस्यन्तम् अधित्यकायाम्
अन्वास्त इत्य् अप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः ॥

3.18

तद् गच्छ सिद्ध्यै कुरु देवकार्यम् अर्थो ऽयम् अर्थान्तरभाव्य एव
अपेक्षते प्रत्ययम् उत्तमं त्वां बीजाङ्कुरः प्राग् उदयाद् इवाम्भः ॥

3.19

तस्मिन् सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम्
अप्य् अप्रसिद्धं यशसे हि पुंसाम् अनन्यसाधारणम् एव कर्म ॥

3.20

सुराः समभ्यर्थयितार एते कार्यं त्रयाणाम् अपि विष्टपानाम्
चापेन ते कर्म न चातिहिंस्रम् अहो बतासि स्पृहणीयवीर्यः ॥

3.21

मधुश् च ते मन्मथ साहचर्याद् आसव् अनुक्तो ऽपि सहाय एव
समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥

3.22

तथेति शेषाम् इव भर्तुर् आज्ञाम् आदाय मूर्ध्ना मदनः प्रतस्थे
ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गम् इन्द्रः ॥

3.23

स माधवेनाभिमतेन सख्या रत्या च साशङ्कम् अनुप्रयातः
अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥

3.24

तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती
संकल्पयोनेर् अभिमानभूतम् आत्मानम् आधाय मधुर् जजृम्भे ॥

3.25

कुबेरगुप्तां दिशम् उष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य
दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासम् इवोत्ससर्ज ॥

3.26

असूत सद्यः कुसुमान्य् अशोकः स्कन्धात् प्रभृत्य् एव सपल्लवानि
पादेन नापैक्षत सुन्दरीणां संपर्कम् आसिञ्जितनूपुरेण ॥

3.27

सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे
निवेशयाम् आस मधुर् द्विरेफान् नामाक्षराणीव मनोभवस्य ॥

3.28

वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः
प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥

3.29

बालेन्दुवक्राण्य् अविकासभावाद् बभुः पलाशान्य् अतिलोहितानि
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥

3.30

लग्नद्विरेफाञ्जनभक्तिचित्रम् मुखे मधुश्रीस् तिलकं प्रकाश्य
रागेण बालारुणकोमलेन चूतप्रवालोष्ठम् अलंचकार ॥

3.31

मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर् विघ्नितदृष्टिपाताः
मदोद्धताः प्रत्यनिलं विचेरुर् वनस्थलीर् मर्मरपत्रमोक्षाः ॥

3.32

चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन् मधुरं चुकूज
मनस्विनीमानविघातदक्षं तद् एव जातं वचनं स्मरस्य ॥

3.33

हिमव्यपायाद् विशदाधराणाम् आपाण्डुरीभूतमुखच्छवीनाम्
स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥

3.34

तपस्विनः स्थाणुवनौकसस् ताम् आकालिकीं वीक्ष्य मधुप्रवृत्तिम्
प्रयत्नसंस्तम्भितविक्रियाणां कथं चिद् ईशा मनसां बभूवुः ॥

3.35

तं देशम् आरोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने
काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥

3.36

मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वाम् अनुवर्तमानः
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीम् अकण्डूयत कृष्णसारः ॥

3.37

ददौ रसात् पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः
अर्धोपभुक्तेन बिसेन जायां संभावयाम् आस रथाङ्गनामा ॥

3.38

गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्वासितपत्रलेखम्
पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश् चुचुम्बे ॥

3.39

पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः
लतावधूभ्यस् तरवो ऽप्य् अवापुर् विनम्रशाखाभुजबन्धनानि ॥

3.40

श्रुताप्सरोगीतिर् अपि क्षणे ऽस्मिन् हरः प्रसंख्यानपरो बभूव
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥

3.41

लतागृहद्वारगतो ऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः
मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान् व्यनैषीत् ॥

3.42

निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम्
तच्छासनात् काननम् एव सर्वं चित्रार्पितारम्भम् इवावतस्थे ॥

3.43

दृष्टिप्रपातं परिहृत्य तस्य कामः पुरःशुक्रम् इव प्रयाणे
प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर् विवेश ॥

3.44

स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम्
आसीनम् आसन्नशरीरपातस् त्र्यम्बकं संयमिनं ददर्श ॥

3.45

पर्यङ्कबन्धस्थिरपूर्वकायम् ऋज्वायतं संनमितोभयांसम्
उत्तानपाणिद्वयसंनिवेशात् प्रफुल्लराजीवम् इवाङ्कमध्ये ॥

3.46

भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम्
कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम् ॥

3.47

किंचित्प्रकाशस्तिमितोग्रतारैर् भ्रूविक्रियायां विरतप्रसङ्गैः
नेत्रैर् अविस्पन्दितपक्ष्ममालैर् लक्ष्यीकृतघ्राणम् अधोमयूखैः ॥

3.48

अवृष्टिसंरम्भम् इवाम्बुवाहम् अपाम् इवाधारम् अनुत्तरङ्गम्
अन्तश्चराणां मरुतां निरोधान् निवातनिष्कम्पम् इव प्रदीपम् ॥

3.49

कपालनेत्रान्तरलब्धमार्गैर् ज्योतिःप्ररोहैर् उदितैः शिरस्तः
मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तम् इन्दोः ॥

3.50

मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम्
यम् अक्षरं क्षेत्रविदो विदुस् तम् आत्मानम् आत्मन्य् अवलोकयन्तम् ॥

3.51

स्मरस् तथाभूतम् अयुग्मनेत्रं पश्यन्न् अदूरान् मनसाप्य् अधृष्यम्
नालक्षयत् साध्वससन्नहस्तः स्रस्तं शरं चापम् अपि स्वहस्तात् ॥

3.52

निर्वाणभूयिष्ठम् अथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन
अनुप्रयाता वनदेवताभ्याम् अदृश्यत स्थावरराजकन्या ॥

3.53

अशोकनिर्भर्त्सितपद्मरागम् आकृष्टहेमद्युतिकर्णिकारम्
मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥

3.54

आवर्जिता किं चिद् इव स्तनाभ्यां वासो वसाना तरुणार्करागम्
पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥

3.55

स्रस्तां नितम्बाद् अवलम्बमाना पुनः-पुनः केसरदामकाञ्चीम्
न्यासीकृतां स्थानविदा स्मरेण मौर्वीं द्वितीयाम् इव कार्मुकस्य ॥

3.56

सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम्
प्रतिक्षणं संभ्रमलोलदृष्टिर् लीलारविन्देन निवारयन्ती ॥

3.57

तां वीक्ष्य सर्वावयवानवद्यां रतेर् अपि ह्रीपदम् आदधानाम्
जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनर् आशशंसे ॥

3.58

भविष्यतः पत्युर् उमा च शंभोः समाससाद प्रतिहारभूमिम्
योगात् स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिर् उपारराम ॥

3.59

ततो भुजंगाधिपतेः फणाग्रैर् अधः कथं चिद् धृतभूमिभागः
शनैः कृतप्राणविमुक्तिर् ईशः पर्यङ्कबन्धं निबिडं बिभेद ॥

3.60

तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुताम् उपेताम्
प्रवेशयाम् आस च भर्तुर् एनां भ्रूक्षेपमात्रानुमतप्रवेशाम् ॥

3.61

तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य
व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥

3.62

उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम्
चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥

3.63

अनन्यभाजं पतिम् आप्नुहीति सा तथ्यम् एवाभिहिता भवेन
न हीश्वरव्याहृतयः कदा चित् पुष्यन्ति लोके विपरीतम् अर्थम् ॥

3.64

कामस् तु बाणावसरं प्रतीक्ष्य पतङ्गवद् वह्निमुखं विविक्षुः
उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुर् आममर्श ॥

3.65

अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण
विशोषितां भानुमतो मयूखैर् मन्दाकिनीपुष्करबीजमालाम् ॥

3.66

प्रतिग्रहीतुं प्रणयिप्रियत्वात् त्रिलोचनस् ताम् उपचक्रमे च
संमोहनं नाम च पुष्पधन्वा धनुष्य् अमोघं समधत्त बाणम् ॥

3.67

हरस् तु किंचित्परिलुप्तधैर्यश् चन्द्रोदयारम्भ इवाम्बुराशिः
उमामुखे बिम्बफलाधरोष्ठे व्यापारयाम् आस विलोचनानि ॥

3.68

विवृण्वती शैलसुतापि भावम् अङ्गैः स्फुरद्बालकदम्बकल्पैः
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥

3.69

अथेन्द्रियक्षोभम् अयुग्मनेत्रः पुनर् वशित्वाद् बलवन् निगृह्य
हेतुं स्वचेतोविकृतेर् दिदृक्षुर् दिशाम् उपान्तेषु ससर्ज दृष्टिम् ॥

3.70

स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसम् आकुञ्चितसव्यपादम्
ददर्श चक्रीकृतचारुचापं प्रहर्तुम् अभ्युद्यतम् आत्मयोनिम् ॥

3.71

तपःपरामर्शविवृद्धमन्योर् भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य
स्फुरन्न् उदर्चिः सहसा तृतीयाद् अक्ष्णः कृशानुः किल निष्पपात ॥

3.72

क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति
तावत् स वह्निर् भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥

3.73

तीव्राभिषङ्गप्रभवेण वृत्तिम् मोहेन संस्तम्भयतेन्द्रियाणाम्
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर् बभूव ॥

3.74

तम् आशु विघ्नं तपसस् तपस्वी वनस्पतिं वज्र इवावभज्य
स्त्रीसंनिकर्षं परिहर्तुम् इच्छन्न् अन्तर्दधे भूतपतिः सभूतः ॥

3.75

शैलात्मजापि पितुर् उच्छिरसो ऽभिलाषं व्यर्थं समर्थ्य ललितं वपुर् आत्मनश् च
सख्योः समक्षम् इति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथं चित् ॥

3.76

सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरम् अनुकम्प्याम् अद्रिर् आदाय दोर्भ्याम्
सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां प्रतिपथगतिर् आसीद् वेगदीर्घीकृताङ्गः ॥

मूल पाठ: Kumārasaṃbhava · Data entry Utz Podzeit · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc