भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 7

7.1

या सा देवी (देव एद्.) परा योनिः समया कुब्जिनी परा
ताम् आचक्ष्व प्रयत्नेन संस्फुटं व्याप्तिलक्षणम् ॥

7.2

शृणु देवि यथातथ्यं देव्या माहात्म्यम् उत्तमम्
कार्ये वाथ अकार्ये वा उक्तानुक्तेषु वस्तुषु ॥

7.3

कुब्जीशानीं जपेद् यस् तु तस्य पापं न विद्यते
यः पुनः शुद्धभावात्मा समयाख्यां महेश्वरीम् ॥

7.4

जपेत् तस्य प तद् वस्तु यन् न सिध्यति भूतले
एतत् परमसमयं देवीतन्त्रे प्रकीर्तितम् ॥

7.5

न देयं यस्य कस्यापि यस्मात् सर्वं प्रपद्यते
तन्त्रे तन्त्रे तु समया कथितानेकधा मया ॥

7.6

अन्यकल्पोपचारेषु निरुद्धा तत्र शासने
एषा सा समया देवि अत्र सर्वं प्रतिष्ठितम् ॥

7.7

चतुष्पीठेषु समयास् ते ऽत्र सर्वे विनिर्गताः
एषा राजेश्वरी देवी समयाचारनिर्गता ॥

7.8

निराचारेण योगेन सिध्यते ह्य् अविचारतः
पञ्चव्याप्तम् अतः सर्वं सर्वव्याप्त्यन्तसंस्थितम् ॥

7.9

अस्योच्चारणमात्रेण तन् नास्ति यन् न साधयेत्
कम्पते भुवनं सर्वं त्रैलोक्यं सुरडामरम् ॥

7.10

समयाख्यं जपन्तस्य क्षुभ्यते सचराचरम्
वामदक्षिणतन्त्रेषु सामान्या समया परा ॥

7.11

तस्या देव्याः प्रभावो ऽयं या पञ्चाशपदात्मिका
सिद्धमार्गे ऽन्यथा देवि द्वात्रिंशगुणलक्षिता ॥

7.12

कुब्जिका नाम विख्याता समयस्था कुलेश्वरी
यत्र विश्वेश्वरं सर्वं समयाद्यं विनिर्गतम् ॥

7.13

मन्त्रमुद्रागणो ह्य् अत्र विद्यामण्डलकादिकम्
यस्याः कमलिनी देवी हृदिस्था सम्प्रवर्तते ॥

7.14

यया सृष्टम् इदं सर्वम् आब्रह्मस्तम्भगोचरम्
कुलदीपा शिरस्थास्याः षड्विधाध्वप्रबोधिका ॥

7.15

बर्बराख्या शिखा ह्य् अस्यास् त्रितत्त्वोर्ध्वव्यवस्थिता
मुद्राधारगता देवी बहुरूपात्र निर्गता ॥

7.16

छादयन्ती समस्तां तु शब्दराशिं तु मालिनी
कवचं यस्या महादेव्या मन्त्रमायात्मकं महत् ॥

7.17

किण्किणिं तं प्रचण्डोग्रं तेजोदेदीप्यवर्चसम्
ज्ञेयं वृद्धोपमं नेत्रं तत्त्वार्थगुणसङ्कुलम् ॥

7.18

संवर्तादिशिवान्तस्थं षडस्रं पिङ्गलोचनम्
तद् अस्त्रं कोङ्कणेशान्या येन व्याप्तं षडध्वरम् ॥

7.19

कथं तु कुब्जिका नाथ वद मन्त्रपदान्वितम्
सर्वज्ञा सर्वदा देवी लक्षणेन समन्विता ॥

7.20

उवाच भैरवो ह्य् एवं कुब्जिकां शृणु कुब्जिके
किं तु त्वया न वक्तव्या यावन् नादेशितः शिशुः ॥

7.21

च्चेवीति पदं प्रथमं णिकि णिकि द्वितीयकम्
छीं छां पदं तृतीयं तु खिमुराघो-अ चतुर्थकम् ॥

7.22*

मे न ण ञ ङ पञ्चमं ह्रौं ह्रीं ह्रां षष्ठमं पदम् ।
यैकाब्जिकुश्री सप्तमं तिवगभ मोन अष्टमम् ॥

7.23

विलोमेन पदान्य् अष्टौ द्वात्रिंशाक्षरमालिका
पञ्चप्रणव-म्-आद्यन्ता वियुक्ता लक्षणाधिका ॥

7.24

आदिकूटावसाने तु चत्वारिंशद् धि मालिनी
विलोमेनोद्धरेद् देवी[ं] गुरुवक्त्रोपदेशतः ॥

7.25

रेफसहम् इदं कूटं विद्यासप्तमकं पदम्
श्रीलोपे सन्नियोक्तव्यं जीवितं कुब्जिके मम ॥

7.26

स्वमनीषिकातो ऽन्यथा स विद्विष्टो मरीचिभिः
यस्माद् भाण्डारम् इत्य् एवं सर्वस्वं योगिनीकुले ॥

7.27

अथ चेत् सर्वपीठेषु मातेयं समयात्मिका
अस्याः स्मरणमात्रेण विह्वलं तु जगत्त्रयम् ॥

7.28

भवते नात्र सन्देह इति माता सुरक्षिता
हृदयाद्यस्त्रपर्यन्तम् एकोच्चारेण सुव्रते ॥

7.29

सिद्धमार्गं यथा ब्रूमि विलोमेन विलोमतः ॥

7.31

पञ्चदशाक्षरं हृदयं शिरश् चैव त्रयोदश
एकादशाक्षरा शिखा विंशदेकोन कवचम् ॥

7.32

नेत्रं त्रयोदशैः प्रोक्तम् अस्त्रं चैव चतुर्दशम्
पञ्चप्रणव-म्-आद्यन्ता यथा विद्या तथा कुरु ॥

7.33

एतत् कौलिकभाषायां कथितं तु सप्रत्ययम्
संस्फुटं गुरुवक्त्रस्थं विलोमस्थं न सिध्यति ॥

7.34

कौलिकेदं समाख्यातं सिद्धमार्गसुदुर्लभम्
च्चेवि ति प्रथमं पदं णिकि णिकि द्वितीयकम् ॥

7.37

द्वात्रिंशदक्षरा देवी नियुक्ता गुणशालिनी
आदिकूटक्रमेणैव विलोमेनोद्धृता इयम् ॥

7.38

गुरुवक्त्रोपदेशेन संस्फुटं कथितं तव ॥

7.40

सर्वसाधारणं कौलं ब्रूमि अन्योपदेशतः
पञ्चमं तु पदादिस्थं हृदयं च दशाक्षरम् ॥

7.41

शिरम् अष्टाक्षरं विद्धि द्वादशार्धं शिखा स्मृता
द्विसप्तकं च कवचं नेत्रं सप्ताक्षरं शुभम् ॥

7.42

अस्त्रं नवाक्षरं प्रोक्तं जातयश् च पृथक् पृथक्
कवचान्तं चतुर्वक्त्रं पञ्चमं तु तदग्रतः ॥

7.43

परिपाटिस् तु वक्त्राणाम् ऊर्ध्ववक्त्रादितः क्रमात्
एषा सा समया देवी कुलमार्गे व्यवस्थिता ॥

7.44

सकलस्था तु साचारा अशेषार्थविशोधिका
कौलभाषोदिता या तु सा तु सिद्धा कुलान्वये ॥

7.45

अशेषार्थप्रदातारा अनेकार्थप्रबोधिका
यान्त्य् अनेन तु देहेन खेचरत्वं तदाश्रिताः ॥

7.46

अक्षराक्षरसन्तानं योजयेल्लक्षसङ्ख्यया
कुब्जीशगुणतुल्यो ऽसौ हर्ता कर्ता स्वयं प्रभुः ॥

7.47

खेचरीणां पदं सो हि पश्यते ह्य् अविचारतः
निराचारेण योगेन चिन्तयन्तः कुलेश्वरीम् ॥

7.48

अथ सामान्यरूपेण तदा भूचरतां व्रजेत्
कुपितः पातयेच् छैलान् शोषयेज् जलधीश्वरान् ॥

7.49

स्फोटयेच् छैलवृक्षांश् च तद्ध्यानगुणम् आश्रितः
भूचरीणां पतित्वं च क्षुद्रकर्मोपजीविनाम् ॥

7.50

कुरुते विविधाश्चर्यं पूज्यते स शिवो यथा
यत्र तिष्ठत्य् असौ देशे तत्र विघ्नं पलायते ॥

7.51

कुब्जिकायाश् च या दूती कालिका नाम विश्रुता
कालिकाख्ये महातन्त्रे स्वतन्त्रा सा उदःर्ता ॥

7.52

शृणुष्वेकमना भद्रे ज्ञानविज्ञानदायिनी
सर्वसिद्धिकरी देवी सर्वकार्यप्रसाधनी ॥

7.53

व्याघ्रसिंहगजव्याल भूतवेतालशत्रवः
स्मरणान् नाशम् आयान्ति विघ्नसङ्घानि यानि च ॥

7.54

प्रश्नकाले परीक्षेत कुमार्य् आवेशपूर्विका
शुभाशुभं वदत्य् आशु यद् भूतं यद् भविष्यति ॥

7.55

अस्योद्धारं प्रवक्ष्यामि यथावद् अनुपूर्वशः
अः-ख-मध्यगतं गृह्य झ-पूर्वेण समन्वितम् ॥

7.56

प्रथमम् उद्धृतं बीजं द्वितीयं ण-ह-सन्धिगम्
भेदितं तु ञ-पूर्वेण एतद् वर्णद्वयं पुनः ॥

7.57

आ-स-रन्ध्रगतं गृह्य य-स-मध्यगतं पुनः
द्वितीयेन तु सम्भिन्नं षष्ठं वै बीजम् उत्तमम् ॥

7.58

प्रथमं सप्तमं ज्ञेयं द्वितीयस्य द्वितीयकम्
अष्टमम् उद्धृतम् बीजं नवमं भ-ञ-मध्यगम् ॥

7.59

ञ-उत्तरसमायुक्तं शून्यमस्तकभूषितम्
म-ष-मध्यगतं गृह्य दशमं केवलं प्रिये ॥

7.60

ष-व-मध्यगतोद्धृत्य औ-पूर्वेण तु भेदितम्
एकादशाक्षरं प्रोक्तम् ऐ-ठ-मध्यगतं ददेत् ॥

7.61

ञ-पूर्वेण तु सम्भिन्नं दशद्वितयम् उत्तमम्
ए-व-रन्ध्रगतं गृह्य केवलं त्रिदशं पुनः ॥

7.62

ज-स-मध्यगतं गृह्य ऐ-औ-मध्येन आहतम्
चतुर्दशोद्धृतं बीजम् अ-छ-सन्धिगतं पुनः ॥

7.63

केवलं कथितं बीजं दशपञ्चाक्षरं प्रिये
प-ध-मध्यगतं गृह्य ञ-पूर्वेण तु भेदितम् ॥

7.64

षोडशम् उद्धृतं बीजं स-य-मध्यगतं ददेत्
ल-ठ-मध्यासनासीनं झ-पूर्वेण तु भेदितम् ॥

7.65

नादबिन्दुकलाक्रान्तं दशसप्तकम् उद्धृतम्
व-म-मध्यगतोद्धृत्य ट-ण-मध्यासने स्थितम् ॥

7.66

ट-पूर्वेण तु सम्भिन्नं शून्ययुक्तं दशाष्टमम्
वह्नियुक्तं महाप्राणम् अं-पूर्वेण तु भेदितम् ॥

7.67

चतुर्दशस्वराक्रान्तं बिन्दुनादसशक्तिगम्
विंशमं न्यूनम् एकेन उद्धृतं बीजम् उत्तमम् ॥

7.68

य-ढ-मध्यगतं गृह्य केवलं विंशमं भवेत्
ख-पूर्ववर्णम् उद्धृत्य थ-पूर्वासनसंस्थितम् ॥

7.69

विंशम् एकाधिकं भद्रे अः-ख-मध्यगतं पुनः
ॠ-पूर्वासनम् आरूढं द्वाविंशतिम् उदाहृतम् ॥

7.70

द-च-रन्ध्रगतोद्धृत्य त-पूर्वासनसंस्थितम्
विंशत्रितयम् आख्यातं य-ज-मध्यगतं पुनः ॥

7.71

पञ्चमस्वरसंयुक्तं चतुर्विंशतिमं पुनः
ग-पूर्वं तु समुद्धृत्य चतुर्थस्वरसंयुतम् ॥

7.72

पञ्चविंश समाख्यातम् ओ-ष-मध्यगतं पुनः
ऐ-पूर्वेण तु सम्भिन्नं षड्विंशकम् उदाहृतम् ॥

7.73

स-त-मध्यगतं चान्यं ट-परेण समाहतम्
सप्ताविंशतिमं भद्रे आ-स-मध्यगतं पुनः ॥

7.74

झ-पूर्वेण समायुक्तम् अष्टाविंश तु पार्वति
पुनर् एवं ददेद् देवि त्रिंशत्यूनं सबिन्दुकम् ॥

7.75

घ-न-मध्यगतं गृह्य केवलं त्रिंशमं भवेत्
ध-ह-रन्ध्रगतं देवि वाय्वासनसमन्वितम् ॥

7.76

त्रिंशम् एकाधिकं प्रोक्तं क-ष-मध्यगतं पुनः
थ-ण-मध्यासनारूढं पञ्चमस्वरयोजितम् ॥

7.77

द्वात्रिंशमं समाख्यातं केवलं व-ष-मध्यगम्
त्रयस्त्रिंश समुद्दिष्टं ण-थ-मध्यगतं पुनः ॥

7.78

वह्निना दीपितं कृत्वा त्रिंशमं चतुराधिकम्
स-त-रन्ध्रगतं बीजं केवलं सृष्टिसंयुतम् ॥

7.79

पञ्चत्रिंश स्मृता वर्णाः पञ्चप्रणवसम्पुटाः
योजितव्या महाविद्या कालिका सिद्धिकाङ्क्षिणा ॥

7.80

अदृशीकरणे ह्य् एषा सर्वसम्पददायिनी
न देया दुष्टबुद्धीनां देवीदूत्या महाबला ॥

7.81

दूती तु कथिता ह्य् एवं मुद्राबन्धम् अतः शृणु
पद्मासनस्थितो योगी समकाय ऋजुःशिरः ॥

7.82

रेच्य वायुं स्वकाद् देहात् पुनर् आकृष्य धारयेत्
हृदये यः स्थितो ग्रन्थिस् तस्य नाभौ क्षिपेन् मनः ॥

7.83

मन्त्रं चैव तथात्मानम् एकीकृत्य त्रयं बुधः
दण्डाकारं नयेत्ऽतावद् यावद् ब्रह्मबिलान्तगम् ॥

7.84

तत्स्थानात् प्रेरयेत् तूर्णं महायानेन सुन्दरि
कराभ्यां चैव तर्जन्यां पीडयेत पुनः पुनः ॥

7.85

ललनाघण्टिके योज्य पञ्चमं स्थानम् आक्रमेत्
आक्रमेद् गुह्यचक्रं तु करणं चोर्ध्वमूलकम् ॥

7.86

लग्ने ग्रन्थित्रयं देवि खगतिर् नात्र संशयः
अङ्गषट्कं शृणुष्वेदं कुब्जिकायाः कुलेश्वरि ॥

7.87

हृदयेन तु देव्यायाः क्षोभयेच् चासुरीगणम्
नवलक्षकृते जाप्ये राजिकालवणे हुते ॥

7.88

राजराजेश्वराणां तु मर्त्यलोके ऽथवा पतिः
सामान्यजपहोमेन सद्यःसम्पददायिनः ॥

7.89

स्त्रीजनं क्षोभयेत् सर्वं बालवृद्धयुवान् पशून्
शिरो [ऽ]धिष्ठितयोगेन भूतवेतालराक्षसान् ॥

7.90

यक्षिणीयक्षकन्याश् च पिशाचीनां च साधनम्
कुरुते विविधाश्चर्यं फलपुष्पादिकर्षणम् ॥

7.91

यक्षिण्याकर्षणं देवि मृतकोत्थापनादिकम्
साकिनीकुलसामान्यः पाशच्छेदं पशुग्रहम् ॥

7.92

कुरुते विविधाश्चर्यं शिरःसिद्धो ह्य् अनेकधा
असिद्धस्य तु कर्माणि कर्मयोगाद् वदाम्य् अहम् ॥

7.93

अशक्तह् साधने वीरस् तस्येदं द्वेषणं प्रति
शिरोरुहसमुत्पन्ना चण्डाली जुष्टपूर्विका ॥

7.94

रक्षणार्थं तु सा दूती शासने सम्प्रतिष्ठिता
पठनाद् एव संसिद्धा जपहोमविवर्जिता ॥

7.95

शिरसो वशगा दूती तदाज्ञा निग्रहात्मिका ॥

7.97

विलोमेन कृताभ्यासम् उद्धरेद् उपदेशतः
सम्पूज्य योगिनीषट्कं रामणीशिरसान्वितम् ॥

7.98

दाघम् उत्पादयेत् प्रथमं लेख्य मात्रा न संशयः
षडस्रपुरमध्यस्थं रकारं तु अधोर्ध्वतः ॥

7.99

रकारं तु तद् एवं स्याद् बहिष्कोणे पृथक् पृथक्
षट्प्रकारं प्रदातव्यं ज्वालासञ्छन्नलाञ्छितम् ॥

7.100

कोपकाले समुत्पन्ने चितिवस्त्रे नृचर्मजे
लिखितव्यं सक्रुद्धेन विषोन्मत्तरसेन च ॥

7.101

श्मशानाङ्गारसंयुक्तं साध्यनामं तु मध्यतः
लिखित्वा तापयेत् पश्चाज् ज्वरो भवति दारुणः ॥

7.102

ज्वरम् उत्पादयित्वा तु सदन्तम् आनयेच् छिरः
पूर्वद्रव्यैर् लिखित्वा तु नाम तस्य गले क्षिपेत् ॥

7.103

विपरीतमुखं कृत्वा ऊर्ध्वग्रीवं यथा भवेत्
तथा संस्थापयेद् भूमौ कपालं मन्त्रवित् सुधीः ॥

7.104

श्मशाने वा नदीतीरे कृत्वा वेदीं तदूर्ध्वतः
पश्चाद् धोमं प्रकुर्वीत उग्रद्रव्यैः समाहितः ॥

7.105

विषेण गन्धकेनैव कुनट्या तालकेन च
राजिकालवणेनैव निम्बपत्त्रैस् त्रिसप्तकम् ॥

7.106

प्रथमे ऽहनि छागान्त्रं रक्ताक्तं होमयेद् बुधः
पश्चाद् ध्यानं प्रकुर्वीत कृष्णवर्णं सुदारुणम् ॥

7.107

ज्वलन्तं पादसन्धीनि मस्तकान्तं विचिन्तयेत्
रकारं तु ललाटस्थं जपेन् मन्त्रं पुनः पुनः ॥

7.108

होममण्डलकं यच् च चतुरस्रं वज्रलाञ्छितम्
एवं वै भवते कालो यदि साक्षात् सचीपतिः ॥

7.109

एवं निग्रहम् आख्यातं शिरोदेव्याः समुद्भवम्
चण्डालीति प्रयोगो ऽयं गोपितव्यं प्रयत्नतः ॥

7.110

शासनस्य च यो द्वेष्टा यो द्वेष्टा गुरवोपरि
तेष्व् अमोघिनी चाण्डाली योजयेत् परमार्थतः ॥

7.111

लक्षम्-एके कृते जाप्ये वाचामात्रेण मारयेत्
अतोऽर्थं गोपयेद् देवि सिद्धाज्ञामोघचण्डिका ॥

7.112

शिरोदूती परा ह्य् एषा क्षुद्रकर्मस्व् अनेकधा
सर्वं स्वच्छन्ददेवेशी करिष्यति शिखो[ज्]ज्वला ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc