Kubjikamatatantra · अध्याय 6
जपस्य लक्षणं देव पूर्वं हि कथितं त्वया
एकोच्चारशतं ज्ञेयं सहस्रं लक्षम् एव च ॥
कोटयस् तु तथा शम्भो पृथग्लक्षणलक्षिताः
न मे ज्ञातं प्रमाणं तु जपस्य सुरनायक ॥
तद् अहं श्रोतुम् इच्छामि मन्दबुद्ध्याल्पचेतसा ॥
या सा कुण्डलिनी शक्तिस् चिद्रूपा च परा कला
आद्या शक्तिर् महेशस्य अणुमात्रा हृदि स्थिता ॥
सा अणु[ः ] कथिता तन्त्रे द्वे अणू त्रुटिम् आश्रिता
त्रुटिभूता तु सा देवी जप्तव्या तु परापरा ॥
वर्णहीना परा प्रोक्ता अपरा वर्णरूपिणी
एवं ज्ञात्वा वरारोहे जपः कार्यः सदा बुधैः ॥
त्रुटिरूपा तु सा देवी तदाधारे व्यवस्थिता
कलते प्राणगा नित्यं दशस्थाने ह्य् अनुक्रमात् ॥
ब्रह्मा विष्णुस् तथा रुद्र ईश्वरो ऽथ सदाशिवः
कुण्डली व्यापिनी चैव प्रशान्ता विषुवत् तथा ॥
शक्तिस्थानं तु देवेशि एते स्थाना दश स्मृताः
येषां सञ्चरते देवः शिवः परमकारणः ॥
ऊर्ध्वे वा यदि वा तिर्यक् स्वस्थाने वा सुरेश्वरि
प्रस्फुरेत कलैर् युक्ता दशभिस् तु महाबलैः ॥
दशधा कलनं तेन कथितं तव शोभने
प्रयत्नेन कृतोच्चारं यावच् छक्तिर् लयं गता ॥
तावद् देवि शतं प्रोक्तं वर्णोच्चारे न संशयः
स्वाभाविकम् अनुच्चार्य सूक्ष्माधारो जगत्पतिः ॥
शतधा कलनं तस्य त्रुटिरूपस्य योगिनः
सहस्रं तु समुद्दिष्टं दशधा परमेश्वरि ॥
उभयस्य परित्यागाद् कलाधारः सदाशिवः1
दृक्क्रियाज्ञाननिर्मुक्तः कलते च सहस्रधा ॥
लक्षभेदः समुद्दिष्ट इति शास्त्रे न संशयः
जपो ह्य् एवं समुद्दिष्टो योगिनां तत्त्ववेदिनाम् ॥
लक्षातीतो मनातीतो निर्मुक्तस् तत्त्वबन्धनैः
उन्मनत्वे सदा लीनो अणुरूपो नकिञ्चनः ॥
सत्तामात्रस्थितो देही गुणानां प्रतिबोधकः
विषयभावनिर्मुक्तः कलते लक्षधा प्रिये ॥
कोटिस् तु भवते ह्य् एवं ज्ञातव्यं मन्त्रवादिभिः
सोच्चारोपांशुभूतस् तु मानसो मनवर्जितः ॥
जपः पूर्वं समाख्यातः शास्त्रे शास्त्रे सुरार्चिते
सशब्दोच्चारयोगेन शुद्ध्यर्थे कथितं स्फुटम् ॥
सिद्ध्यर्थे ऽपांशुर् उद्दिष्टः स्वप्रवृत्तो हृदि स्थितः
मानसो योगहेत्वर्थे उभयत्र विवर्जितः ॥
मनातीतो भवेद् देवि मोक्षदस् तु न संशयः
एवं देवि समाख्यातो जपः प्राणसमस् तव ॥
जपः प्राणसमः कार्यो दृष्टादृष्टफलार्थिनाम्
अवर्णा वर्णसंयोगा मया ते समुदाहृता ॥
निरालम्बे महाशून्ये यत् तेजम् उपजायते
तद्गर्भे अभ्यसेन् नित्यं भाग्यहीनो ऽपि सिध्यति ॥
योगमूली विशुद्धी च सार्णवे सा च एकता
एकत्र संस्थितानन्दं कुलरत्नं त्रिधा प्रिये ॥
मुद्रा तु सूचिता नाथ न मे ज्ञाता महाप्रभो
तन् ममाचक्ष्व देवेशि येन भ्रान्तिर् विनश्यति ॥
पातालोर्ध्वगतं यच् च शृङ्गाटपुरमध्यगम्
गोलाकारं ततो देवि रन्ध्रस्योर्ध्वगतं प्रिये ॥
चक्रद्वयम् इदं प्रोक्तं प्राधान्येन व्यवस्थितम्
वेधघट्टनिरोधं च उच्चाराकृष्टिकारकम् ॥
स्तोभस्तम्भनम् आवेशो गमं चैवात्र सुव्रते
एतद्विरहितो मन्त्री हास्यतां याति निश्चितम् ॥
अनेन ज्ञातमात्रेण प्रत्ययान् कुरुते बहून्
वृत्तिराजा वरारोहे निवेश्य चक्रमध्यतः ॥
वृत्तिहीनस् ततस् तत्र काव्यकर्ता न संशयः
चक्रमध्ये च सञ्चिन्त्य सुशुक्लां च परापराम् ॥
पुस्तकव्यग्रहस्तां च ज्ञानमुद्राधरां तथा
स्फाटिकेनाक्षसूत्रेण सर्वाभरणभूषिताम् ॥
स्रग्दामलम्बितगलां प्रभामण्डलमण्डिताम्
द्विबाहु-र्-एकवदनां चन्द्रकोटिसमप्रभाम् ॥
उद्गिरन्ती[ ं ] महौघेन शास्त्रकोटीर् अनेकशः
एवं ध्यानसमाविष्टः साक्षाद् वागीश्वरो भवेत् ॥
संस्कृतं प्राकृतं चैव वेदसिद्धान्तगह्वरम्
ग्रन्थतश् चार्थतश् चैव उद्गिरेन् नात्र संशयः ॥
पीठमध्यगताभ्यासात् पीठद्वारे ऽथवा प्रिये
सम्प्रदायम् इदं कौलं शाक्तं शक्तिपदानुगम् ॥
मात्रायोगेन देवेशि मुद्राबन्धं तु कारयेत्
सा मात्रा गीयते चात्र उच्चारवशवर्तिनी ॥
उच्चरं सहजं देवि देहमध्ये व्यवस्थितम्
शतसङ्ख्याप्रमाणेन यावद् उच्चरते पराम् ॥
तावद् आविष्टदेहस् तु शास्त्रार्थं वदते सुधीः
नित्यारूपेण सैवात्र ध्यायेद् रक्तसमप्रभाम् ॥
लाक्षालक्तकसङ्काशां चतुर्वक्त्रां चतुर्भुजाम्
मूर्तित्रयसमोपेतां त्रिभिर् भेदैर् व्यवस्थिताम् ॥
त्रिस्थां त्रिमार्गगां देवीं त्रिनाडीसमतां गताम्
नित्यक्लिन्नां च देवेशि तथा चैव मदद्रवाम् ॥
देव्यारूपधरां सर्वाम् एकवक्त्रां द्विबाहुकाम्
पाशाङ्कुशधरां सर्वां मदविभ्रान्तलोचनाम् ॥
यौवनस्थां मदोन्मत्तां मदिरानन्दनन्दिताम्
स्मरेद् देव्याः स्वरूपं तु तत्प्रयोगव्यवस्थया ॥
तडित्सहस्रबन्धूक दाडिमीकुसुमद्युतिम्
पञ्चशृङ्गाटकाधारां सा परा पररूपिणी ॥
महायोगविलासा तु शिवाद्यवनिगोचरम्
व्यापयित्वा स्थिता देवी रविनक्षत्रमण्डलम् ॥
शृङ्गाटकं चोर्ध्वमुखं तिर्यग्रेखाग्रमूलगम्
शिखोर्ध्वकुण्डलाकारं कामशक्ति-र्-अधिस्थितम् ॥
पञ्चशृङ्गाटकासीनं स्थितं तत्र वरानने
देव्यारूपधरं चक्रं ध्यायेद् एवं न संशयः ॥
एष बन्धस् तु मुद्रायाः कथितस् ते कुलेश्वरि
त्रितत्त्वेन तु मन्त्रेण वक्ष्यमानेन कारयेत् ॥
द्रावणं क्षोभणं चैव आकर्षवशम् एव च
पूजाविधानं देवेशि देव्याया वीरवन्दिते ॥
त्रिशिखा पद्ममुद्रा च योनिमुद्रा विशेषतः
तासां लक्षणम् आख्याहि यथावत् स्फुटतो वद ॥
मुद्राणां लक्षणं देवि कथयामि समासतः
हस्ताभ्यां कारयेद् आदौ सम्पुटं चोर्ध्वदिङ्मुखम् ॥
अङ्गुल्या ग्रथयेत् सर्वाः संश्लिष्टम् उभयेष्व् अपि
तर्जन्यानामिकौ कुञ्च्य संश्लिष्टौ मध्यसंस्थितौ ॥
ताभ्यां मूले मुखं कार्यं तर्जन्याया वरानने
संश्लिष्टौ सम्मुखौ द्वौ तु मध्यमौ ऊर्ध्वदिङ्मुखौ ॥
संयोगेन वरारोहे अङ्गुष्ठौ च कनिष्ठकौ
तादृशीव हि कर्तव्या त्रिशिखा तु विधीयते ॥
कराभ्यां सम्पुटं कार्यं मणिबन्धौ तु संहतौ
अग्राङ्गुल्या प्रसार्येत अङ्गुष्ठौ मध्यसंस्थितौ ॥
पद्ममुद्रा समाख्याता योनिमुद्राम् अतः शृणु
हस्ताभ्यां सम्पुटं कार्यं कनिष्ठा मध्य योजयेत् ॥
पुटाकारौ करौ कृत्वा अङ्गुष्ठौ मध्यसंस्थितौ
निःसृता वामहस्तस्य अङ्गुल्या तु कनीयसी ॥
योनिमुद्रा स्मृता भद्रे सर्वेषां क्षोभकारिका
एता मुद्राः समाख्याता ध्यानपूजाविसर्जने ॥
साम्प्रतं खेचरीणां तु यथा मुद्रा खगाधिपे
कथयामि समासेन त्वत्प्रीत्या खगगामिनी ॥
अनामा कर्णिके योज्या षोडशारं तु पीडयेत्
पीडनाद् ऋजुतां याति खगमार्गे तु भाविनि ॥
फादिनान्तगते लक्षे खगतिश् च न संशयः
षट्पत्त्रं मूर्ध्नितः कृत्वा तर्जन्याग्रे तु योजयेत् ॥
शून्ये शून्यमनो भूत्वा सम्पीड्येत परस्परम्
षट्पत्त्रं तु विकाश्येत उदानप्रेरितेन तु ॥
भावयेन् नादिफान्तं तु खगतीति न संशयः
द्वादशारोर्ध्वनालेन लम्बिकान्ते निवेशयेत् ॥
भेदनं कुञ्चितेनैव चार्गलं कूर्मसंयुतम्
भावयेन् नादिफान्तं तु खगतिं वीरवन्दिते ॥
पद्ममुद्रा त्रिधा प्रोक्ता योनिमुद्राम् अतः शृणु
योनिं योनौ समाक्रम्य मुद्गरेण तु भेदनम् ॥
विसर्गद्वयसंयोगात् खगगामी भवेद् ध्रुवम्
अमृताख्या परा योनिर् भावयेन् मस्तकोपरि ॥
आक्रम्य गन्धमार्गं तु योजना नादिफान्तगा
खगतिर् भवते-द्-एवं योनिमार्गे विचक्षणः ॥
उच्चार्य वामशक्तिं तु सन्धयेद् ग्रन्थिमध्यतः
विक्षेपम् ऊर्ध्वतः कृत्वा परे योनौ तु भावना ॥
अनेन खगगामित्वं भवते तु न संशयः
योनिमुद्रा समाख्याता त्रिभेदा परिकीर्तिता ॥
त्रिशिखालक्षणं देवि कथ्यमानं निबोधत
कराभ्यां चैव तर्जन्यां पीडयेत् तत् प्रयत्नतः ॥
ब्रह्मनाड्या द्विरभ्यासाद् आसनं मन्दरस्य तु
त्रिशिखा नाम मुद्रेयम् अर्पणं खगमार्गयोः ॥
गोलकं शून्यमार्गस्थं पथत्रयगतं प्रिये
क्षेपणं बिन्दुकोट्यूर्ध्वम् अवनीं क्रम्य पादयोः ॥
गुह्ये निवेश्य मन्त्रज्ञस् त्रिशिखं खेचरं प्रिये
अनेन खगगामी ऽसौ भवते साधकोत्तमः ॥
करणं चोर्ध्वमूलं स्याद् बन्धयेत् खगमण्डलम्
आक्रम्य पञ्चमं तत्र कराभ्यां चैव शूलिनि ॥
जानुकौ कुर्परे योज्य विक्षेपो गुह्यमध्यतः
वेधनं ब्रह्मरन्ध्रस्य कथितं तु तपोधने ॥
खगमार्गगतिस् त्व् एवं भवते तु सुलोचने
एषा मुद्रा समाख्याता नवभेदैर् व्यवस्थिता ॥
मुद्रा शक्तिर् इति ख्याता मुद्रितं द्रावयिष्यति
तेन मुद्रा समाख्याता कथिता परमेश्वरि ॥
मुद्रितं गोपितं प्रोक्तं चिच्छक्त्या या परापरा
न ज्ञायते वरारोहे सा तु मुद्रा उदाहृता ॥
अज्ञानमलरूपेण यावद् बद्धः स पुद्गलः
न जानाति परात्मानं तावन् माया प्रवर्तते ॥
भिन्ने तमसि चैकत्वं यदा पश्यति मानवः
तदा सा तु परा प्रोक्ता बन्धमोक्षकरी प्रिये ॥
एका सा परमा शक्तिः संस्थिता तु शिवेच्छया
मोचयन्ति ग्रहादिभ्यः पाशौघान् द्रावयन्ति च ॥
मोचनाद् द्रावणाद् यस्मान् मुद्राख्याः शक्तयः स्मृताः
खगतिर् ह्य् ऊर्ध्वभावेन खगमार्गेण नित्यशः ॥
चरते सर्वजन्तूनां खेचरी तेन सा स्मृता
परत्व्ऽ एका तु सा ज्ञेया पुनश् चैव त्रिधा स्मृता ॥
इच्छा ज्ञानी क्रिया सा तु वर्णरूपम् उपागता
पञ्चाशभेदभिन्ना सा एका एव-म्-उदाहृता ॥
अङ्गावयवसम्पूर्णा मालयित्वा जगत् स्थिता
नादिफान्तस्वरूपेण तेन सा मालिनी स्मृता ॥
सप्त कोट्यस् तु मन्त्राणाम् अप्रमेयास् तु याः स्मृताः
स्वतन्त्रस्थास् तु ताः सर्वा मुद्रिताः परमेश्वरि ॥
तेन मुद्रा समाख्याता सद्यःप्रत्ययकारिका
अवयवे मातृरूपा तु स्वैः स्वैर् अंशैर् व्यवस्थिता ॥
ब्रह्मांशा चैव रुद्रांशा कौमार्यांशा वरानने
वैष्णव्या चैव याम्यांशा ऐन्द्र्यांशा च तथानघे ॥
योगेश्वर्या च योगांशा योगयोगीशनायिका
एते ह्य् अंशाः स्मृताः सप्त पुनः सप्तसु सप्तसु ॥
ब्रह्माण्याः सप्त-म्-उद्दिष्टाः सप्त माहेश्वरी पुनः
कौमार्याः सप्त-म्-उद्दिष्टा वैष्णव्याः सप्त एव च ॥
वाराही सप्त-म्-उद्दिष्टा ऐन्द्राण्याः सप्त एव तु
चामुण्डा सप्त-म्-उद्दिष्टा एवं वै सप्त सप्तसु ॥
पञ्चाशैकोन वै देव्या भुवनावलिसंस्थिता[ः]
अत्र भेदैर् अनेकैश् च संस्थिता भुवनावलिः ॥
तस्य देहगता रोमा[ः] कोट्यस् त्रीणि प्रकीर्तिताः
लक्षाणि चैव पञ्चाशद् रोमाणां तु तदुद्भवा ॥
एकैकरोमकूपेषु योगिन्यः कोटिसंस्थिताः
त्रिकोटिकोटिकोटीनां कोटयस् तु अनेकधा ॥
यथा चाम्बरपर्यन्ता पृथिव्यादिषु सम्भवाः
अणवस् त्व् अप्रमाणास् तु तत्त्वे तत्त्वे त्व् अनेकधा ॥
सूक्ष्मरूपास् तथा रुद्रा एषां सङ्ख्या न विद्यते
व्यापितं तु समस्तं हि रुद्रैः सूक्ष्मतरैः प्रिये ॥
एवं मुद्रा समाख्याता व्यापयित्वाप्रमेयतः
एका एव परा मुद्रा यस्येदं तिष्ठते जगत् ॥
यं यं स्पृशति सा ह्य् अङ्गं सा सा मुद्रा विधीयते
नृत्यं वल्गं तथा हास्यं रोदनं स्फोटम् एव च ॥
यद् विकारं प्रकुर्वन्ति तत् सर्वं मुद्रसंज्ञकम्
अङ्गुल्या अङ्गना प्रोक्ता अङ्गे चरति नित्यशः ॥
अङ्गुल्या तेन चोद्दिष्टा मुद्राबन्धे वरानने
कं शरीरम् इति ख्यातं न्यस्ता तस्मिन् प्रवर्तते ॥
हेलागमनमार्गेण तेन नामा कनीयसी
अनामा नामरहिता कोटिभेदैर् व्यवस्थिता ॥
नामं न शक्यते वक्तुम् अनामा तेन गीयते
मध्ये प्रवर्तते नित् यम् आश्रया पुद्गलस्य तु ॥
तत्राधाराद् व्रजेद् ऊर्ध्वं पुनरागमनं प्रिये
मध्यमा नाम तेनात्र कथिता मन्त्रवादिनाम् ॥
तर्जनं कुरुते नित्यं संयोजनवियोजनम्
तर्जयन्ती महामोहं पाशजालम् अनन्तकम् ॥
तर्जनी तेन सा प्रोक्ता मुद्रा सर्वेषु चोत्तमा
अङ्गुष्ठश् चौघभूता तु प्रवाहे सततं प्रिये ॥
उच्चारेण प्रवर्तेत अङ्गुष्ठस् तेन स स्मृतः
अह-म्-ऊर्ध्वगतिः प्रोक्तः स्तौ ति रात्री निगद्यते ॥
हस्तौ तेन समाख्यातौ वामदक्षिण उच्यते
वामे सृष्टिर् इति प्रोक्ता संहारं दक्षिणे विदुः ॥
सव्यासव्यगतौ तेन कथितौ वीरनायिके
वामाव्याप्तं जगत् कृत्स्नं संहारान्तं तदा प्रिये ॥
संयोगेन वरारोहे आत्मा कुण्डलिनी स्मृता
इयं सा परमा योनिर् योनीनाम् उत्तमा प्रिये ॥
यो जानाति वरारोहे शक्तिर् आद्या मनोन्मनी
तेन ज्ञातं जगत् सर्वं वर्णावर्णविवर्जितम् ॥
सा मुद्रा तु समाख्याता विश्वव्याप्तिकरी परा
द्वौ बिन्दू चूलिके द्वे तु विसर्गशक्तिसम्पुटम् ॥
तदूर्ध्वम् इह नादान्तं विभ्वी शून्यम् उदाहृतम्
जन्मस्थानात् समुद्यन्ती यावत् तद्भवमण्डलम् ॥
सृष्टिसंहारयोगेन मेढ्रम्-आधारमध्यगम्
एवं मुद्रा समाख्याता वाङ्मनःकायकर्मभिः ॥
किम् अन्यत् पृच्छसे देवि तत् सर्वं कथयाम्य् अहम् ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0