भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 5

5.1

उमामाहेश्वरं चक्रं कथयामि सुनिश्चितम्
पदं च पदभेदं च यो जानाति स सिध्यति ॥

5.2

ऐं नमो भगवते रुद्राय पदं चैव दशाक्षरम्
नमश् चामुण्डे द्वितीयं स्यात् पञ्चाक्षरम् उदाहृतम् ॥

5.3

नमश् चाकाशमातॄणां पदम् अन्यत् तृतीयकम्
अष्टाक्षरं समाख्यातं लक्षणेन विलक्षितम् ॥

5.4

सर्वकामार्थसाधकीनां पदं चैव चतुर्थकम्
नवाक्षरम् इदं देवि पदं यत् समुदाहृतम् ॥

5.5*

अजरामरीणां पदं चात्र कथितं पञ्चगुणावहम् ।
अक्षराणां समासेन रससङ्ख्या उदाहृता ॥

5.6*

सर्वत्राप्रतिहतगतीनां पदं षष्ठं वरानने ।
दशाक्षरं समाख्यातं कथितं वीरनायिके ॥

5.7*

स्वरूपपररूपपरिवर्तनीनां पदं सप्तमकं भवेत् ।
अक्षराणां समासेन दशत्रितयम् उत्तमम् ॥

5.8

अक्षराणां समासेन विंशच्चत्वारिसङ्ख्यया ॥

5.9*

सर्वमातृगुह्यहृदयपरमसिद्धं पदं तु नवमं भवेत् ।
अक्षराणां समासेन शक्रसङ्ख्या वरानने ॥

5.10

परकर्म तथा देवि छेदनकरं प्रकीर्तितम्
सिद्धिकरं च एवात्र पदं चैव द्विपञ्चकम् ॥

5.11

अक्षराणां तथा सङ्ख्या एकत्र समुदाहृता
द्विसप्तपरिमाणेन स्फुटम् एतत् कुलेश्वरि ॥

5.12

शृणु चान्यं वरारोहे मातॄणां वचनं शुभम्
अक्षराणां प्रमाणेन द्विचतुष्कं वरानने ॥

5.13

एकादशमम् एतद् धि पदं सर्वगुणावहम्
तद् यथेति समारभ्य द्वितीयं शोभनं प्रिये ॥

5.14

ब्रह्माणीति पदं पूर्वं माहेश्वरी द्वितीयकम्
कौमारीति तृतीयं स्याद् वैष्णव्या तु चतुर्थकम् ॥

5.15

वाराह्या पञ्चमं ज्ञेयम् ऐन्द्री षष्ठमकं भवेत्
ऐशानी सप्तमं प्रोक्तम् आग्नेयी चाष्टमं प्रिये ॥

5.16

एवमाद्याः स्थिता देव्यः कथितास् तव शोभने
अघोरे अमोघे वरदे विच्चे वै वचनं शुभम् ॥

5.17

सर्वासां चैव मातॄणां स्वाहाप्रणवसंयुतम्
ऐं चामुण्डे पदं पूर्वम् ऊर्ध्वकेशि द्वितीयकम् ॥

5.18

ज्वलितशिखे तृतीयं तु विद्युज्जिह्वे चतुर्थकम्
तारकाक्षि तथा देवि पञ्चमं परिकीर्तितम् ॥

5.19

पिङ्गलभ्रुवे नामेन षष्ठमं तु सुलोचने
विकृतदंष्ट्रे पदं ह्य् एतत् सप्तमं परिकीर्तितम् ॥

5.20*

क्रुद्धे ति च तथा चान्यम् अष्टमं शुभलक्षणम् ।
मांसशोणितसुरासवप्रिये नवमं दशमं तु हसद्वयम् ॥

5.21

नृत्यद्वयं तथा चोक्तं दश-म्-एकं तु सुव्रते
विजृम्भ च तथा युग्मं दशद्वे च प्रकाशितम् ॥

5.22

मायात्रैलोक्यरूपेति दशत्रितयम् उत्तमम्
सहस्रपरिवर्तनीनां द्विसप्तमं परमेश्वरि ॥

5.23

नुदयुग्मं त्रिपञ्चैव कूटयुग्मं द्विरष्टकम्
चिरियुग्मं तथा भद्रे दशसप्त च एकतः ॥

5.24

हिरिद्वितयम् एकत्र दश-अष्ट शुभेक्षणे
भिरि चैव द्विरभ्यासाद् विंश-म्-एकोनसङ्ख्यया ॥

5.25

त्रासनिद्वितयं चैव पदं विंशमकं भवेत्
भ्रामणियुग्मम् एतद् धि विंश-म्-एकं तु उत्तमम् ॥

5.26

विद्रावणि द्विरभ्यासाद् विंशद्वयं तथानघे
क्षोभणीति द्विरभ्यासाद् विंशत्रिकम् उदाहृतम् ॥

5.27

मारणिद्वितयं चैव विंशचत्वारिसङ्ख्यया
सञ्जीवनिपदे द्वे तु पञ्चविंशपदं प्रिये ॥

5.28

हेरियुग्मं स्मृतं भद्रे षड्विंशकम् अनुत्तमम्
गेरियुग्मं तथा प्रोक्तं सप्तविंशतिमं पदम् ॥

5.29

घुरि चैव द्विरभ्यासाद् अष्टाविंश वरानने
घुरिलेति तथाप्य् एवम् ऊनत्रिंशम् उदाहृतम् ॥

5.30

नमो मातृगणायेति त्रिंशकं कथितं स्फुटम्
नमो नमः ऐं विच्चे स्वाहा त्रिंशम् एकोत्तरं पदम् ॥

5.31

समस्तपदसंयोगात् परिमाणं शतार्धकम्
वर्णानां च शते द्वे तु द्वानवत्या वरानने ॥

5.32

अधिकं कथितं भद्रे मातॄणां नामवर्जितम्
पदभेदस् तु विद्याया ज्ञातव्यः साधकेन तु ॥

5.33

प्रयत्नेन वरारोहे तन्त्राम्नायप्रपालकः
सकृद् उच्चारिता विद्या समयज्ञो भवत्य् असौ ॥

5.34

पञ्चप्रणव-म्-उद्धारं यथा त्वं गह्वरे शृणु
ए-ओ-मध्ये समुद्धृत्य बिन्दुनाद-म्-अलङ्कृतम् ॥

5.35

भगाख्यं प्रथमं बीजम् उद्धृतं परमाक्षरम्
व-ष-मध्यगतं गृह्य ण-ट-मध्यासने स्थितम् ॥

5.36

इ-उ-मध्येन सम्भिन्नम् अः-औ-मध्य-म्-अलङ्कृतम्
द्वितीयं कथितं देवि तृतीयं व-म-मध्यगम् ॥

5.37

ठ-ल-मध्यासनासीनं चतुर्थस्वरभेदितम्
बिन्दुना मस्तकाक्रान्तं न-च-मध्ये चतुर्थकम् ॥

5.38

ई-त-मध्ये समारुद्धम् ऐ-पूर्वेण विभेदितम्
बिन्दुनादसमाक्रान्तं चतुर्थं प्रणवं भवेत् ॥

5.39

पञ्चमं य-स-मध्यस्थं ब-ह-मध्यासने स्थितम्
अं-पूर्वेण समायुक्तम् औ-पश्चिमविभूटितम् ॥

5.40

अर्धचन्द्रान्वितं कृत्वा बिन्दुनादयुतं कुरु
पञ्चप्रणव-म्-उद्धारं रहस्यं कथितं तव ॥

5.41

मन्त्राणां दीपकं देवि यथाकर्मणि योजयेत्
विद्यायास् तु प्रसङ्गेन पञ्चप्रणवम् उद्धृतम् ॥

5.42

साम्प्रतं शृणु कल्याणि विद्यामाहात्म्यम् उत्तमम्
सेवनाज् जपहोमाद् वा ध्यानाच् च क्रमशो भवेत् ॥

5.43

षण्मासाच् चोत्पतेद् देवि सत् यम् एतद् उदाहृतम्
कृत्वा साम्राटजान् दोषान् उच्चारात् कल्मषापहम् ॥

5.44

देवद्रोहे गुरुद्रोहे कोटित्रिंशैः स शुध्यति
छेदने पुष्पपत्त्राणाम् आवर्ताच् छुध्यते तु सः ॥

5.45

सन्ध्यालोपे कृते देवि त्रिरावर्तेण शुध्यति
आह्निकच्छेदसञ्जाते शतम् एकम् उदीरयेत् ॥

5.46

लङ्घने समयानां च अभक्ष्यस्य तु भक्षणे
अवाच्यवाचिते देवि सहस्राच् छुद्धिर् इष्यते ॥

5.47

काकोलूककपोतानां पक्षिणां घातने कृते
सहस्रैर् द्विभिः शुध्येत सत्यं सत्यं न संशयः ॥

5.48

छागमेष तथान्यानि मृगजम्बूक ऋक्षयोः
शुद्धिस् त्रिसहस्राद् देवि यथा भैरव-म्-अब्रवीत् ॥

5.49

सर्पमार्जारहन्तारो दुन्दुभोमत्स्यघातकः
चतुर्भिश् च सहस्रैर् हि शीघ्रं शुद्धिम् अवाप्नुयात् ॥

5.50

श्वसूकरनकुलादि मूषकश् चाथ वापि वा
पञ्चभिः शुद्धिर् इष्येत सहस्रैस् तु कुलान्वये ॥

5.51

गवां हत्वा प्रशुध्येत दशलक्षैस् तु सङ्ख्यया
ब्राह्मणस् तु यदा देवि प्रमादाद् घातितो बुधैः ॥

5.52

लक्षैर् विंशति शुध्येत नक्ताशी तु जितेन्द्रियः
बौद्धारहन्तहन्ता च द्विजाद् द्विगुण शुध्यति ॥

5.53

लाकुला मौषलाश् चैव ये चान्ये लातपाणयः
हत्वा शुद्धिम् अवाप्नोति कोटित्रयजपेन तु ॥

5.54

गुरुं हत्वा पञ्च कोट्यः शुध्यते तु प्रमादतः
स्त्रियो घाती दुराचारो दश कोट्यो जपेत् प्रिये ॥

5.55

नक्ताशी शुद्धिम् आप्नोति क्षेत्रपीठान् भ्रमेद् यदि
अन्येषां वर्णजातीनाम् अधमोत्तममध्यमाः ॥

5.56

लक्षैस् तु भवते शुद्धिर् द्वित्रिचत्वारिसङ्ख्यया
एकाद् एकोन कर्तव्यं वर्णाणां च क्रमेण तु ॥

5.57

निन्दते योगिनीं यस् तु शिवभक्तांश् च निन्दति
शास्त्राणि दूषयेद् यस् तु स्त्रियम् आकोटयेति च ॥

5.58

क्रोषन्ति कन्यका देवि सहस्राच् छुद्धिर् इष्यते
वामदक्षिणसिद्धान्ते शिवव्रतधरो हतः ॥

5.59

कोटिचतुर्भिर् देवेशि शुध्यते जपतत्परः
यः पुनस् तत्त्ववेत्ता च षोढान्यासविशारदः ॥

5.60

स्मरणाच् छुद्धिर् इष्येत तथ्यं भैरव-म्-अब्रवीत्
क्रोधेन तु यदा देवि उच्चैःशब्दप्रलापितम् ॥

5.61

त्रिवारावर्तयेद् विद्यां शान्तिम् आशु प्रयच्छति
कृते कर्मणि बालानां लूताचिपिटगण्डयोः ॥

5.62

ज्वरग्रहविषादिभ्यः ओषधाख्यापनाय च
पञ्चावर्ताद् विशुध्येत अन्वयी यस् तु शासने ॥

5.63

यः पुनः क्रमवेत्ता च शुद्धाशुद्धैर् न बाध्यते
देशिकं पुत्रकं वापि साधकं समयज्ञकम् ॥

5.64

प्रमादान् निन्दते यस् तु दशावर्ताद् विशुध्यति
अलिं जुगुप्सयेद् यस् तु फल्गुषं वा यदि प्रिये ॥

5.65

एकोच्चारेण शुध्येत अन्नं वा यज् जुगुप्सते
कन्दुकं मल्लकोषाढ्या छिप्पकं चर्मकारकम् ॥

5.66

ध्वजं सूनाकरं वापि मत्स्यघातं तु लुब्धकम्
कोङ्कणं चीनबाह्लीकं वङ्गालं कामरूपकम् ॥

5.67

मागधं सैन्धवं वापि गुज्जरं लाटसंज्ञकम्
अन्ये ऽपि देशमध्यस्था वनवासान्त्यजातयः ॥

5.68

वेश्यादिक्रमशः सर्वे निन्दनाच् छुद्धिर् इष्यते
त्रिरावर्तेण देवेशि अकामात् कामतो ऽपि वा ॥

5.69

कामतो द्विगुणं देवि कर्तव्यं सिद्धिम् इच्छता
त्रिखण्डा यादृशं प्रोक्तं प्रायश्चित्तं कुलान्वये ॥

5.70

द्वात्रिंशाक्षरया तद्वत् कर्तव्यं तत्त्ववेदिभिः
एते निरोधरूपास् तु साधकानां प्रकाशिताः ॥

5.71

तदर्थे कथिता विद्या येन सिध्यन्ति साधकाः
श्रेयार्थिनां मयाख्याता मद्भक्ताः कृतनिश्चयाः ॥

5.72

अन्येषां न कदाचित् स्याल् लौल्यार्थे ये स्थितानघे
इयं विद्या समाख्याता उपयोगाद् वरानने ॥

5.73

साम्प्रतं पदभेदस् तु यथा योज्यस् तु भैरवि
तथा ते कथयिष्यामि तच् छृणुष्व समासतः ॥

5.74

या विद्या कथिता पूर्वं नादिफान्तक्रमेण तु
तच्छरीरगता वर्णाः पञ्चप्रणवभेदिताह् ॥

5.75

पञ्चयोन्याः स्वरूपेण वर्णम् एकैकसङ्ख्यया
भैरवः शब्दराशिस् तु आदिक्षान्तक्रमेण तु ॥

5.76

ते वर्णाः पञ्चप्रणवैः सम्पुटे[च्] च पृथक् पृथक्
आदिक्षान्तक्रमेणैव नियोजनम् उदाहृतम् ॥

5.77

द्वाभ्यां तु ग्रथनं कार्यं समस्तस्यापि शोभने
सप्त वर्णान् ददेच् चादौ मध्ये विद्यापदं ददेत् ॥

5.78

पुनः सप्त पदस्यान्ते तस्यान्ते तु पदं पुनः
पुनः सप्तकम् उच्चार्य पदं च तदनन्तरम् ॥

5.79

अनेन क्रमयोगेन निर्वाहेन तु योजयेत्
क्षान्तं वै याव देवेशि तावद् एव नियोजयेत् ॥

5.80

पदसङ्ख्या समस्तस्य निर्वाहोभयदीपिते
मालिनी द्वादशैर् भेदैः शब्दराशिस् तु षोडशैः ॥

5.81

अनेन क्रमशः सर्वे वर्णाश् चैव पृथक् पृथक्
चलचक्रविभागेन पदविद्यां यदा यजेत् ॥

5.82

तदा क्षोभं करोत्य् आशु दिव्यादिव्येतरं प्रिये
योनयः पञ्चधा यास् तु सर्वाः क्लिद्यन्ति नान्यथा ॥

5.83

द्रावणं क्षोभणं मोहं जृम्भणं शोषणं तथा
सर्वान् तान् कुरुते देवि यदा शक्तिसमो भवेत् ॥

5.84

प्रसुप्तभुजगाकारा द्वादशान्ते वरानने
नाभिष्ठा तु तथाप्य् एवं द्रष्टव्या परमेश्वरि ॥

5.85

दृश्यते देहमध्ये तु व्योमान्ते च परापरा
तस्याग्रे तु ततो मन्त्रं हुताशकणिकाकृतिम् ॥

5.86

उच्चारेत ततो मन्त्रं शब्दरूपं हृदि प्रिये
शब्दान्ते शक्तिर् उच्चार्या ईषन्मन्दगमारुता ॥

5.87

पद्मसूत्रनिभाकारा उच्चार्या सानुनासिका
उच्चारान्तावसाने तु ज्ञातव्यालातचक्रवत् ॥

5.88

तत्र मध्यगतं देवि चैतन्यं मन्त्रसंयुतम्
प्रस्फुरत्किरणानेकैः कोटिशो दिक्ष्व् अवस्थितैः ॥

5.89

तस्याप्य् अन्ते ततो देवि शक्तिर् आद्या मनोन्मनी
अतीता तु यदा सा वै तदा बिन्द्वी उदाहृता ॥

5.90

बिन्द्वन्ते व्यापको देवो मायातीतो निरामयः
स शिवो भावनातीतो निर्गुणो गुणसम्भवः ॥

5.91

अधिकारी सर्वकारी च शक्त्यातीतो महाप्रभुः
अनेन क्रमयोगेन क्रमः कार्यः सुनिश्चितैः ॥

5.92

आत्मा मनश् च मन्त्रश् च शिवः शक्तिस् तथैव च
एकीभावगतो देवि ज्ञातव्यः सिद्धिम् ईहकैः ॥

5.93

तस्मात् प्राणसमं जाप्यं मन्त्रान्ते नादगोचरे
नादस्यान्ते ततो ज्ञात्वा एतत् स्मरणम् उच्यते ॥

5.94

स्मरणं शक्तिर् उद्दिष्टा या करोति गमागमम्
तस्यान्ते तु परा सूक्ष्मा सा कला अमृतात्मिका ॥

5.95

लयातीता अरूपा तु स्वयंवेद्याविचारतः
न तस्य लक्षणं देवि न लक्षो नैव योजना ॥

5.96

न क्षयो नैव वृद्धिश् च शुक्लकृष्णौ न चैव हि
न रात्रिर् न दिनं चैव न सन्ध्या अयनं तथा ॥

5.97

विषुवं नैव देवेशि सङ्क्रान्तिर् नैव विद्यते
सर्वावस्थगतिं ज्ञात्वा विज्ञानम् उपजायते ॥

5.98

एतत् कौलिकम् आख्यातम् उमामाहेश्वरं प्रिये
उत्पतेत न सन्देहो लक्षजापाच् चलस्य तु ॥

5.99

चला शक्तिः समाख्याता लक्षणेन उदाहृता
अवर्णा वर्णसंयोगा मालिनी सा उदाहृता ॥

5.100

पदभेदगता ह्य् एका असङ्ख्याता वरानने
एवं तद्ग्रह-म्-आख्यातः सद्यःप्रत्ययकारकः ॥

5.101

न कस्यचिन् मयाख्यातम् उमामाहेश्वरं प्रिये
सततं जपते यस् तु योगिनीवल्लभो भवेत् ॥

5.102

षण्मासाच् छुध्यते देवि ब्रह्मघ्नो ऽपि न संशयः
पश्यते विरजां शान्तां ज्योतिरूपां महाद्युतिम् ॥

5.103

जपस्य लक्षणं देवि इदानीं शृणु साम्प्रतम्
एकोच्चारशतान्ते तु परावस्था तु गीयते ॥

5.104

शतभेदः समाख्यातस् तद्गुणो दश एव तु
सहस्रभेदम् इत्य् उक्तं लक्षः शतगुणः स्मृतः ॥

5.105

कोटिभेदः शतानां तु लक्षाणां वरवर्णिनि
एतज् जपविधानं तु कथितं तव शोभने ॥

5.106

मुक्तकः शतभेदेन युक्तं शतगुणं शतम्
चलचक्रविभागेन लक्षभेदम् उदाहृतम् ॥

5.107

चलचक्रं यदा देवि कोटिभेदो वरानने
बाह्यतः कथितो भद्रे अध्यात्मिकम् अतः शृणु ॥

5.108

उद्भवे शतभेदस् तु सहस्रो विश्लेषके विदुः
लये तु लक्षभेदो वै लयातीते तु कोटयः ॥

5.109

वामा ज्येष्ठा तथा रौद्री बिन्द्वी च समुदाहृता
इच्छा ज्ञानी क्रिया शान्ता क्रमेणैव सुरार्चिते ॥

5.110

आत्मचारगतिं ज्ञात्वा जपः कार्यः सदा बुधैः
अनेनैवाक्षसूत्रेण लक्षलक्षणलक्षिते ॥

5.111

कर्तव्यो हि जपो नित्यं सर्वशास्त्रविशारदैः
भुवनाख्ये वरारोहे शक्त्याख्ये तु तथैव हि ॥

5.112

चारोच्चारविभागेन जपः श्रेष्ठ उदाहृतः
माला पञ्चाशिका प्रोक्ता सूत्रं शक्तिः शिवात्मिका ॥

5.113

ग्रथनं कुण्डली शक्तिर् लयान्ते मेरुसंस्थितम्
एतद् गुप्ततरं कार्यम् अक्षसूत्रं शिवात्मकम् ॥

5.114*

प्रकटं नैव कर्तव्यं न मेरुं लङ्घयेत् क्वचित् ।
शङ्खस्फटिकरुद्राक्षपुत्रञ् जीवकरिष्टकाः ॥

5.115

एवमाद्याः स्मृता ये तु मणिमाला वरानने
न तत्र विद्यते देवो न मन्त्रो नैव चेतना ॥

5.116

यत्र यत्र स्थिता माला न दोषो विद्यते प्रिये
मन्त्रन्यासे कृते देवि किल गोप्यं तु कारयेत् ॥

5.117

शरीरं कुत्र गोप्यं तु कारयीत वरानने
मन्त्रन्यासे कृते ह्य् आत्मा सकलीकृतविग्रहः ॥

5.118

यथा गोप्यं न युञ्जेत तद्वच् चैवाक्षमालिका
अक्षं चेन्द्रियम् इत्य् उक्तं सूत्रं कुण्डलिनी स्मृता ॥

5.119

लक्षं तु सा परा सूक्ष्मा कला ह्य् अमृतवाहिनी
संयोगकारिणी व्योम्नि तेन सूत्रेति कीर्तिता ॥

5.120

सङ्ख्याग्रहणकार्येषु सा चोक्ता अक्षमालिका
शङ्खाद्यास् तु वरारोहे जपकर्मणि शस्यते ॥

5.121

शङ्खजं तु श्रियाकामः स्फाटिकं मुक्तिहेतवे
पद्माक्षा पद्मजा प्रोक्ता श्रियापुष्टिकरा प्रिये ॥

5.122

रुद्राक्षैः सिद्धिम् आप्नोति यच् चान्यं खेचरीपदम्
जीवका सर्वदा ज्ञेया गोपुच्छाग्रथितानघे ॥

5.123

विद्रुमा वश्यकार्येषु मौक्तिका सर्वकामदा
अन्यानि तु स्मृता ये वै रत्नजा परमेश्वरि ॥

5.124

सर्वदा ते समुद्दिष्टा नात्र कार्यविचारणात्
रिष्टकाक्षास्थिजा माला अभिचारे प्रशस्यते ॥

5.125

नागवङ्गस् तथा लोहा मिश्राश् चान्ये ऽपि ये स्मृताः
मारणे तां प्रशस्येत स्तम्भने मोहने तथा ॥

5.126

कम्पने ध्वंसने देवि कर्तव्या चाभिचारके
एवम् अन्ये ऽपि ये प्रोक्तास् तेषां श्रेष्ठा तु शङ्खजा ॥

5.127

प्रशस्ता सर्वकार्येषु जपकर्मणि शस्यते
शङ्खावर्ता तु या नाडी शिखान्ते तु व्यवस्थिता ॥

5.128

तेन शङ्खमयं प्रोक्तम् अक्षसूत्रं सुराधिपे
स्फुटते मस्तके या सा द्विधा चैव विसर्पिणी ॥

5.129

स्फाटिकं तेन चोद्दिष्टं गुरुवक्त्रे प्रतिष्ठितम्
रौद्रीभाव[ः] स्मृतो रुद्रस् ताल्वग्रे च व्यवस्थितः ॥

5.130

शब्दस्पर्शरसो रूपं गन्धतन्मात्रसंयुतम्
विकारित्वे प्रवर्तेत निरोधाल् लक्षम् एव च ॥

5.131

तेन रुद्राक्षमालाया जपः श्रेष्ठ उदाहृतः
पुत्रवद् उदरे कृत्वा प्रसुप्तामृतकुण्डली ॥

5.132

तया नीयत्य् असौ जीव अधश् चोर्ध्वेन भाविनि
पुत्रञ्जीवकसंज्ञा तु तेनैषा समुदाहृता ॥

5.133

अरिष्टानि अनेकानि सुखदुःखात्मिकानि तु
भुञ्जते सततं देवि अर्जितं यत् पुरा धनम् ॥

5.134

अरिष्टाख्या स्मृता माला अप्रमेया भवान्तरे
हृत्पद्मे संस्थिता नित्यम् अक्षराणां प्रबोधिका ॥

5.135

पद्माक्षमाला सा प्रोक्ता शास्त्रे शास्त्रे वरानने
एवमाद्याः स्मृता ये तु पर्याया अक्षमालया ॥

5.136

ते सर्वे आत्मनश् चैव कथिताश् च कुलेश्वरि
अक्षसूत्रविधिः ख्यातः सम्यक् कौलिकवेदिनाम् ॥

5.137

साम्प्रतं न्यासम् आख्यामि शृणु तत्त्वेन शोभने
स्वाभाविकं चलं दीप्तं स्थिरं द्रवनभोयुतम् ॥

5.138

न्यासमात्रं समाख्यातं षोढाद्वादशभेदतः
षोढा शक्तिः समाख्याता परा चैवाक्षरा शुभा ॥

5.139

कुण्डली नाभिदेशस्था परा सा व्योमरूपिणी
एका एव परा सूक्ष्मा अक्षया तेजरूपिणी ॥

5.140

ज्ञातव्या सा परा देवी षड्वर्णरहिता कला
ब्रह्मस्थानगता सूक्ष्मा स्वाभाविकम् उदाहृता ॥

5.141

विष्णुस्थाने चला प्रोक्ता दीप्ता रुद्रपदे स्मृता
ईश्वरे स्थिरसंज्ञा तु सदाख्ये द्रवसम्भवा ॥

5.142

शक्तिस्था व्योमरूपा तु ज्ञातव्या तत्त्ववेदिभिः
अणिमादिगुणाधारा षड्गुणा गुणबोधनी ॥

5.143

व्यापिनी व्योमरूपा च अनन्तानाथनाश्रिता
संयोक्त्री च वियोक्त्री च सद्भावगुणसंस्थिता ॥

5.144

एका एव परा शक्तिः संस्थिता कृत्यभेदतः
कृत्यभेदेन भेदो ऽस्या न भेदः परमार्थतः ॥

5.145

एवं न्यासे कृते देवि अन्तरङ्गे प्रवर्तते
बहिरङ्गे वर्णरूपा च एका चैव अनेकधा ॥

5.146

षोढाद्वादशभेदेन न्यासः प्रोक्तो गमागमे ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc