Kubjikamatatantra · अध्याय 24
देवदेव महादेव शशाङ्ककृतशेखर
तद्ग्रहाख्ये तु ये रुद्राः सृष्टिन्यासेन मे श्रुताः ॥
संहारेण सुरेशान कथयस्व प्रसादतः
निश्चयार्थं महादेव क्षकाराद्या यथास्फुटम् ॥
कथयामि न सन्देहः स्फुटार्थं तद्ग्रहात्मकम्
पञ्चाशद्व्युत्क्रमेणैव शृणुष्व गदतो मम ॥
क्ष संवर्तः स्थितः क्रोधे ह प्राणे लाकुली स्थितः
स भृगुः शुक्रतो नित्यं ष श्वेतो मज्जम् आस्थितः ॥
श बकीशो ऽस्थिमध्ये तु व खड्गीशः सिरान्वितः
ल पिनाकी स्थितो मांसे र भुजङ्गो ऽसृगास्थितः ॥
य वालीशस् त्वचामध्ये कथितं तव सुव्रते
महाकालो मकारस् तु हृदये सर्वजन्तुषु ॥
द्विरण्डस् तु भ नाभ्यां तु ब वंशे छगलण्डिनः
फ शिखी वामपार्श्वे तु कथितं तु वरानने ॥
पकारो लोहितो रुद्रो दक्षिणे कुक्षिम् आश्रितः
न मेषो वामपादे तु ध मीनो जङ्घम् आश्रितः ॥
द धातृ जानुमध्ये तु संस्थितो वरवर्णिनि
थ दिण्डी ऊरुदेशे तु त आषाढी ततोर्ध्वतः ॥
डकारे दारुको रुद्रो जानुमध्ये प्रकीर्तितः
ठ लाङ्गल्य् ऊरुदेशे तु नात्र कार्यविचारणात् ॥
सोमेश्वरस् टकारे तु जङ्घामूले स्थितस् तु सः
ञ हस्ते संस्थितः शर्मा झाजेशो वामबाहुगः ॥
ज चतुर्मुख मध्ये तु छ एकाक्षस् तु कक्षगः
चकारः कूर्म एवात्र शिखरे वामके स्थितः ॥
अतोर्ध्वे दक्षिणे हस्ते ङादिकान्तम् अतः शृणु
ङकार[ः] कर-अग्रे तु एकरुद्रो व्यवस्थितः ॥
घ शिवेशः करस्योर्ध्वे ग प्रचण्डश् च कुर्परे
ख चण्डो बाहुमध्ये तु क क्रोधः शिखरे स्थितः ॥
अः महासेनरुद्रस् तु विसर्गब्रह्मरन्ध्रगः
अं क्रूरो मध्यघण्टान्ते औ ऽनुग्रहीशोर्ध्व-ओष्ठके ॥
ओ ओष्ठे सद्यदेवस् तु ऐ भौक्ती द्विज-म्-ऊर्ध्वगः
ए झण्टीशो ऽ धपङ्क्तिस् तु द्विजभूतो व्यवस्थितः ॥
ॡ हरो वामगण्डे तु ऌ स्थाणुर् दक्षगण्डगः
ॠ तिथीश इडायां तु ऋ भारभूति पिङ्गला ॥
ऊ अर्घीशो वामकर्णे उ अमरीशस् तु दक्षिणे
ई त्रिमूर्तिर् वामचक्षुषि इ सूक्ष्म दक्षचक्षुगः ॥
आ अनन्तो मण्डले वक्त्रे अ श्रीकण्ठो ललाटगः
तद्ग्रहे रुद्र-म्-आख्याता मालिन्यां शृणु साम्प्रतम् ॥
वामे फेत्कारिका चैव दहनी दक्षपादगा
सावित्री चैव गायत्री औ ओ जङ्घौ प्रकीर्तितौ ॥
ए ऐ जानू क्रिया ज्ञानी तारा तकारम् ऊरुगा
शुक्रदेवीत्य् अनुस्वारं शुक्रं देव्यास् तु भैरवि ॥
श गुह्यं कुसुमाख्या च महाकाली नितम्बगा
क्ष संहारी स्थिता नाभौ षोदरं लम्बनोदरा ॥
ह प्राणे अम्बिका देवी सकारे च परापरा
आमोटी तद्गतं क्षीरम् आ वर्णं परिकीर्तितम् ॥
पूतना छगलण्डा च ल-छौ स्तनौ प्रकीर्तितौ
पावनी तु प हृल्लग्ना जयन्त्या शूलजा स्मृता ॥
दीपनी शूलदण्डा तु रेफं दक्षकरे स्थितम्
कपालिनी वामकरे ट वर्णः परिकीर्तितः ॥
इच्छाशक्तिर् विसर्गाख्या करपृष्ठाव् उभाव् अपि
कुर्दनी झङ्करी चैव ञ-झाव् अङ्गुलयः क्रमात् ॥
सम्पूर्णपूर्णिमा चैव ठवर्णस् तलहस्तयोः
विनायकी च लामा च ड-ढौ बाहुद्वयं प्रिये ॥
वायुवेगा च भीषण्या स्कन्धयोर् उभयोर् अपि
व कण्ठे शिखिवाहिन्या अ वाग् वागेश्वरी मता ॥
माया देवी इ जिह्वा तु जिह्वा देव्या विराजते
खिर्विरा घोरघोषा च शिवा काली च कङ्कटा ॥
कवर्गे दशनास् तीक्ष्णा एवं देव्या विराजते
बकारं वदनं तस्या वज्रिणी शक्तिर् अव्यया ॥
ई गुह्यशक्ति नादस्था नासायां नेत्रमध्यतः
प्रज्ञा च मोहनी चैव ऊ उ भूषण-म्-ईक्षगौ ॥
नारायणी ण कर्णौ तु वामदक्षिणयोर् उभौ
प्रियदर्शना ध नेत्रस्था उभौ नेत्रौ विराजते ॥
चामुण्डा च ललाटस्था थ वक्त्रं ग्रसनी स्मृता
ॡ ऌ ऋ ॠ तु शान्त्याद्याः शिरोमाला तु मालिनी ॥
नादिनी तु शिखान्तस्था नकाराक्षरसम्भवा
मालिन्यास् तद्ग्रहो ह्य् एष शक्तित्रयम् अतः शृणु ॥
क्रिया च शुक्रसहिता बिन्दु-अर्धेन्दुसंयुता
नादशक्तिशिखाक्रान्ता प्रथमं बीजम् उत्तमम् ॥
अम्बिका शूलदण्डस्था गुह्यशक्त्या त्व् अलङ्कृता
बिन्दुयुक्तं द्वितीयं तु तृतीयं शृणु साम्प्रतम् ॥
वाक्तत्त्वं केवलं शुद्धं घोरघोषा तथापरा
दक्षजङ्घासमायुक्ता दीपनी दक्षजानुगा ॥
अम्बिका दीपनीसंस्था गुह्यशक्तीच्छयान्विता
अम्बिका च परारूढा इच्छायुक्तं पदं भवेत् ॥
अभिन्ना पावनी तद्वच् छूलदण्डं तथैव च
महाकालीस्वरूपेण दशनं तु चतुर्थकम् 1 ॥
गायत्र्या भेदितं कार्यं ज्ञानभिन्ना च दीपनी
मोहन्या भेदितं प्राणं महाकाल्या समाहितम् ॥
षडक्षरं द्वितीयं तु पदं देव्याः समुद्धृतम्
गायत्र्या भेदितं कृत्वा घोरघोषा महाबला ॥
दीपनीं केवलां दद्यात् प्रज्ञया शूलदण्डकम्
ज्ञानभिन्नं तु हृदयं प्राणं जीवसमन्वितम् ॥
सावित्रीसहितं कार्यं पदं विद्यात् तृतीयकम्
दक्षजङ्घासमायुक्ता घोरघोषा कुलेश्वरी ॥
दीपनी केवला चात्र नितम्बं मोहनान्वितम्
कालिका जिह्वया युक्ता चतुर्थं चतुरक्षरम् ॥
भीषणानासमायुक्ता महाकाली तु केवला
भीषणा गुह्यशक्तिस्था लम्बिका केवलाप्य् अतः ॥
नारायणी ज्ञानशक्त्या युक्ता स्यात् पञ्चमं पदम्
वज्रिणी तु महाकाली द्विर् अभ्यासं तु कारयेत् ॥
पावनी मायया भिन्ना अभिन्ना शिखिवाहिनी
द्विर् अभ्यासम् इदं कार्यं प्राणम् इच्छासमन्वितं ॥
षष्ठमं तु पदं देव्या उद्धृतं तु नवाक्षरम्
अम्बिका ज्ञानभिन्ना वै दीपन्या च चतुष्टयम् ॥
भूषितं भूषणेनैव वामकर्णस्य सुव्रते
दीपन्या केवला चैव चतुर्धा तु प्रकल्पयेत् ॥
नववर्णम् इदं देवि सप्तमं पदम् उद्धृतम्
अम्बिका शूलदण्डस्था गुह्यशक्त्या विभूषिता ॥
पुनर् एव तथाप्य् एवं शूलदण्डासने स्थिता
प्रज्ञायुक्ता तु कर्तव्या वामपादं ततः पुनः ॥
शूलदण्डासनासीनं ज्ञानदेव्या ह्य् अलङ्कृतम्
प्राणं जीवसमायुक्तं शूलदण्डासने स्थितम् ॥
सावित्र्या सहितं कार्यं भूषितं भूषणेन तु
वामकर्णस्य देवेशि क्रियादेव्या ततः पुनः ॥
बिन्दुयुक्तं तु कर्तव्यं पदं देव्यास् तु चाष्टमम्
कुब्जे ते प्रीतिपूर्वेण कथितं तु विशेषतः ॥
फेत्कारादिनियोगेन नादिफान्तं तु मालिनी
विद्यात्रयं तथाप्य् एवं [ऽ]घोर्याष्टकसमन्वितम् ॥
द्वादशाङ्गं तु सुश्रोणि विद्याङ्गाश् च नवात्मकम्
नवात्मा-अङ्गसंयुक्तं मालिन्याङ्गसमन्वितम् ॥
निग्रहस् तु समाख्यातो विलोमेनोपदेशतः
अथान्यं सम्प्रवक्ष्यामि अर्चनं विधिपूर्वकम् ॥
कौलिकेन विधानेन यथाशास्त्रविधानतः
सुसमे भूप्रदेशे तु गोमयेनोपलेपिते ॥
योगपीठे ऽथवा रम्ये गन्धधूपसुवासिते
पुष्पप्रकरसङ्कीर्णे सुगुप्ते जनवर्जिते ॥
तत्रार्चनं समारभ्य एकचित्तो दृढव्रतः
शुक्लवस्त्रपरीधानः सुक्लयज्ञोपवीतिनः ॥
शुचिर् भूत्वा सुसन्नद्धः षोढान्यासेन कुब्जिके
सबाह्याभ्यन्तरे ध्यात्वा एकचित्तो व्यवस्थितः ॥
ततः कर्म समारभ्य पूर्वोक्तेन विधानवित्
कुङ्कुमाक्षतसम्मिश्रैस् त्रिरस्रं वर्तयेत् क्रमम् ॥
रक्तचन्दनचूर्णेन सिन्दूरेण-म्-अथाम्बिके
हिङ्गुलेन तथा रक्ते लिख्याक्षरं यथोदितम् ॥
नादबिन्दुसमायुक्तं षट्प्रकारसमन्वितम्
सर्वाकारसमोपेतं परमं दिव्यरूपिणम् ॥
तत्र पूजा प्रकर्तव्या शास्त्रोक्तेन विधानवित्
आदौ पीठानि चत्वारि चत्वारः पीठदेवताः ॥
योगिनीपञ्चकं चैव डादियान्ताः क्रमेण तु
पुनर् महान्तारिकाः पञ्च ज्ञानं षड्विधम् उच्यते ॥
स्रष्टारः सिद्धसद्भावाः सिद्धाश् चत्वार्य् अनुक्रमात्
ओंकारपीठमध्यस्थं देव्याया सह विन्यसेत् ॥
दक्षिणे चैव जालाख्यं पूर्णपीठं तथोत्तरे
कामरूपं ततो ऽग्रे तु देव्यासिद्धसमन्वितम् ॥
षट्प्रकारविधानेन कुलाष्टकम् अतः शृणु
प्रयागे तु महाक्षेत्रे आ-क्षा-मङ्गलसंयुता ॥
वैरिञ्ची आदिना पूज्या पूर्वभागे व्यवस्थिता
वाराणस्यां महाक्षेत्रे ई-ला-चर्चिकसंयुता ॥
माहेशी कादिना पूज्या आग्नेयीं दिशम् आश्रिता
कोलागिर्ये महाक्षेत्रे ऊ-हा-योगीसमन्विता ॥
कौमारी चादिना पूज्या याम्यायां दिशि संस्थिता
अट्टहासे महाक्षेत्रे ॠ-सा-सिद्धिहरान्विता ॥
टादिना वैष्णवी ह्य् एवं नैरृत्यकोणम् आश्रिता
जयन्ती च महाक्षेत्रे ॡ-षा-भट्टसमन्विता ॥
वाराही तादिना ह्य् एवं वारुण्यां दिशि भूषिता
चरित्रे च महाक्षेत्रे ऐ-शा-किलकिलान्विता ॥
ऐन्द्री पाद्येन सम्पूज्या वायव्यकोणके स्थिता
एकाम्रके महाक्षेत्रे कालरात्र्या च औ-व-का ॥
चामुण्डा यादिना पूज्या कौबेरीदिशि संस्थिता
देविकोट्टे महाक्षेत्रे अः-ह्ला-भीषणसंयुता ॥
लक्ष्मी शाद्येन सम्पूज्या ऐशान्यां दिशि भूषिता
क्षवर्णे कुब्जिनीशानं मध्यसंस्थं प्रपूजयेत् ॥
डकारे डाकिनी पूज्या रकारे राक्षसी तथा
लकारे लाकिनी ऽप्य् एवं ककारे कुसुमालिका ॥
शकारे शाकिनी विद्धि यकारे यक्षिणी मता
भ्रामणी मध्यतः पूज्या दक्षषट्कं प्रकीर्तितम् ॥
उत्तरं सम्प्रवक्ष्यामि यथावद् अनुपूर्वशः
गुह्याख्या च महाख्या च बलाख्या मणिचन्द्रिका ॥
मालिनी विद्यया सार्धं षट्कम् उत्तरसंज्ञकम्
ऊर्ध्वतः सिद्धसन्तानं मित्रादौ गुरवावधिम् ॥
आधारीशस् तु ओंकारे कुरङ्गीशस् तु जालके
चक्रीशः पूर्णगिर्यायां मथनं कामरूपके ॥
योगिन्यश् च युगाश् चैव क्रमशः सम्प्रपूजयेत्
चण्डा घण्टा महानासा सुमुखी दुर्मुखी बला ॥
रेवती प्रथमा घोरा भौम्या भीमा महाबला
जया च विजया चैव ऽजिता चैवापराजिता ॥
महोत्कटा विरूपाक्षी शुष्का चाकाशमातरा
सेहारी जातहारी च दंष्ट्राली शुष्करेवती ॥
पिपीलिका पुष्पहारी अशनी शस्पहारिका
भद्रकाली सुभद्रा च भद्रभीमा सुभद्रिका ॥
कादिवर्णैः प्रपूज्यैताः स्वरैः पीठाधिपास् तथा
सिद्धक्रमम् इदं देवि सिद्धमात्ट्ः प्रपूजयेत् ॥
गोपनीयं प्रयत्नेन यदीच्छेच् छिरजीवितम्
न देयं दुष्टबुद्धीनाम् इत्य् आज्ञा पारमेश्वरी ॥
पूजनीयं प्रयत्नेन नित् यम् एव न संशयः
योगाचारसमो योगी मानसं सम्प्रपूजयेत् ॥
त्रिकालम् एककालं वा षोढान्यासप्रपूर्वकम्
षट्प्रकारम् इदं देवि त्रिसन्ध्यं सम्प्रपूजयेत् ॥
स्वरैः षोडशभिर् देव्यः सिद्धाश् चैव प्रपूजयेत् ॥
पीठं पीठेश्वरीम् ईशं पीठाधिपसपालकम्
नाथदेव्या समायुक्तं सिद्धदेव्यान्वितं यजेत् ॥
पञ्चमं पीठमध्यस्थं देवीचतुष्टयान्वितम्
सिद्धैश् चतुर्भिः संयुक्तं पूजयेत् समनुक्रमात् ॥
षडङ्गभोगसंस्थानं पङ्क्ति रत्नं च पञ्चकम्
गुह्यषट्कं तथा डादि स्थानषट्कम् अतः परम् ॥
योगिनीषट्कम् एतद् धि पञ्चकं च ततः पुनः
क्षेत्राष्ट-म्-अष्टकं चैव अष्टकं च चतुष्टयम् ॥
षट्कम् अन्यत् ततो बाह्ये पूजनीयं प्रयत्नतः
यो वेत्ति योग्यता तस्य अन्यथा नामधारकः ॥
षोढान्यासं ततः पश्चाद् वाचनीयं प्रयत्नतः
स्वभ्रा चैव निरभ्रा च भूचरी खेचरी तथा ॥
गोचरी गणमुख्या च योगिन्यः षट् कुले स्थिताः
सूक्ष्मा चैव सुसूक्ष्मा च अन्तिमामृत-म्-अन्तिमा ॥
कामरूपादितः कृत्वा योगिन्यः सिद्धसंयुताः
कमला बर्बरा चैव महान्तारी तृतीयका ॥
लघ्विनी च चतुर्थी स्याद् बिम्बाख्या वृद्धपञ्चकम्
रक्ताख्या च करालाख्या चण्डा उच्छुष्मसंज्ञिका ॥
खण्डिका पञ्चमी ज्ञेया पञ्च देव्या उदाहृताः
मातङ्गी च पुलिन्दा च शबरी चम्पका तथा ॥
मध्यतः कुब्जनामा तु रत्नभूषणभूषिता
विशुद्धानाहतं चैव तथा च मणिपूरकम् ॥
स्वाधिष्ठानं तथाधारं पञ्चरत्नं प्रपूजयेत्
षोढान्यासस्य तत्त्वज्ञो अन्यथा च विलोमकृत् ॥
पूज्यपूजकदिग्भागे क्रमशुद्धिक्रमेण तु
स च योग्यो ऽन्वयी शिष्यो अन्यथा नामधारकः ॥
गन्धैश् च विविधैः पुष्पैर् जवाबन्धूकपाटलैः
करवीरकुब्जकुण्डैश् च जातीमल्लिकचम्पकैः ॥
सैवल्योत्पलयूथीभिः सिन्दूरैः किंशुकैस् तथा
एभिश् च बहुभिश् चान्यैः सुगन्धैर् धूपगुग्गुलैः ॥
वामामृतादिभिर् द्रव्यैः कुण्डगोलोद्भवैस् तथा
पञ्चामृतैस् तथा चान्यैर् अलिफल्गुसमन्वितैः ॥
महापिशितधूपैस् तु नालाजैर् दीपकैः सह
एवं कुर्याद् विधानेन अर्चनं विधिपूर्वकम् ॥
महाशङ्खार्घपात्रेण अर्घं दत्त्वा यथाक्रमम्
तस्यापि पूर्वतो देवि मण्डलानां चतुष्टयम् ॥
पीतपुष्पैः समभ्यर्च्य एकैकस्य क्रमेण तु
पुनर् दक्षिणतो देवि चत्वारः कृष्णपुष्पकैः ॥
उत्तरे चैव चत्वारि रक्तपुष्पैः प्रपूजयेत्
चत्वारः पश्चिमे देवि श्वेतपुष्पैः प्रपूजयेत् ॥
प्रणामः क्रियते पश्चाद् अष्टाङ्गं मानसेन तु
स्तोत्रं पश्चात् प्रकुर्वीत तच् च देवि वदाम्य् अह् अम् ॥
नमो ऽस्तु ते महामाये सूक्ष्मदेहे परापरे
एकाकिनि विशुद्धात्मे नादाख्ये बिन्दुमालिनि ॥
अदेहाच् च समुत्पन्ने अचले विश्वधारिणि
महाकुण्डलिनी नित्ये हंसमध्ये व्यवस्थिते ॥
सोमसूर्याग्निमध्यस्थे व्योमव्यापी परापरे
ओंकारविग्रहावस्थे हकारार्धार्धधारिणि ॥
वालाग्रशतधासूक्ष्मे अनन्ते चाक्षये ऽव्यये
हकारार्धकलाधारे पद्मकिञ्जल्कम् आश्रिते ॥
सकलाख्ये महामाये वरदे लोकपूजिते
एकैकनाडिमध्यस्थे मर्म-म्-एकैकभेदिनि ॥
अष्टत्रिंशत्कला देवि भेदिनि ब्रह्मरन्ध्रगे
ब्रह्मा विष्णुश् च रुद्रश् च ईश्वरश् च सदासिवः ॥
एते पञ्च महाप्रेताः पादमूले व्यवस्थिताः
त्रैलोक्यजननी देवि नमस् ते शक्तिरूपिणी ॥
इडापिङ्गलमध्यस्थे मृणालतन्तुरूपिणि
बिन्दुमध्यगते देवि कुटिले चार्धचन्द्रिके ॥
तुषारकणिकाभासे द्वादशान्तावलम्बिनि
उमाख्ये हृद्गते गौरि द्वादशादित्यवर्चसे ॥
शून्ये शून्यान्तरावस्थे हंसाख्ये प्राणधारिणि
लम्बाख्ये परमे देवि दक्षिणोत्तरगामिनि ॥
नासाग्रे तु समुत्तीर्णे मध्यसूत्रप्रवाहिनि
हृल्लेखे परमानन्दे तालुमूर्ध्नि व्यवस्थिते ॥
नादघण्टिकसङ्घृष्टे गुणाष्टकसमन्विते
स्थूलसूक्ष्मे तु सङ्क्षुब्धे धर्माधर्मपुटद्वये ॥
कार्यकारणकर्तृत्वे त्रिशून्ये नादविग्रहे
परापरपरे शुद्धे चैतन्ये शाश्वते ध्रुवे ॥
सर्ववर्णधरी देवि गुह्यतत्त्वेति विश्रुते
अशरीरे महाभागे संसारार्णवतारिणि ॥
जया च विजया चैव जयन्ती चापराजिता-
तुम्बुरुबीजमध्यस्थे नमस् ते पापमोचनि ॥
बन्धमोक्षकरी देवि षोडशान्ते व्यवस्थिते
भ्रामणी शक्तिशूलेन महाव्यूहसमन्विते ॥
भ्रमणि भ्रामणी गौरि मायायन्त्रप्रवाहिनि
स्वच्छन्दभैरवी देवि क्रोध-उन्मत्तभैरवि ॥
पञ्चाशद्वर्णरूपस्थे त्वया रुद्राः प्रकीर्तिताः
अमृताख्ये रुरुश् चण्डे नमस् ते ज्ञानभैरवि ॥
दंष्ट्रोत्कटे विद्युज्जिह्वे तारकाक्षि भयानके
नमामि देवदेवेशि अघोरे घोररूपिणि ॥
ज्वालामुखी वेगवती उमादेवि सरस्वति
हंसस्वरोद्वहे देवि गोमुखि शक्तिमालिनि ॥
क्रोष्टुके सुभगे देवि दुर्गे कात्यायनी तथा
नित्यक्लिन्नासमाख्याते रक्ते एकाक्षरे परे ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही चैव माहेन्द्री चामुण्डा त्व् अभयानना ॥
योगेशी त्वं हि देवेशि कुलाष्टकविभूषिते
ऐन्द्री चैव तु आग्नेयी याम्या नैरृत्यवारुणी ॥
वायव्या चैव कौबेरी ईशानी समुदाहृता
प्रयागा वरुणा कोल्ला अट्टहासा जयन्तिका ॥
चरित्रेकाम्रके चैव देविकोट्टं तु चाष्टधा
तथा काली उमा देवी देवदूति नमो ऽस्तु ते ॥
भद्रकालि महादेवि चर्ममुण्डे भयावहे
महोच्छुष्मे महाशान्ते नमस् ते शक्तिरूपिणि ॥
भूर् भुवः स्वेति स्वाहान्ते दयां नाथे कुरुष्व मे
ज्ञानार्थिनो महामाये एतद् इच्छामि वेदितुम् ॥
यस् त्व् इदं पठते स्तोत्रं त्रिसन्ध्यं चैव मानवः
प्राप्नोति चिन्तितान् कामान् स्त्रीणां भवति वल्लभः ॥
कुलजानां महेशान पवित्रारोहणं कथम्
कस्मिन् काले कथं कार्यं किमर्थं वद मे प्रभो ॥
पुरा देवासुरैर् देवि क्षीरोदो मथितो यदा
तत्र नेत्रो महाभागे कश्यपस्य सुतो बली ॥
मन्थाने योजितो भद्रे विषनिद्राविमूर्छितः
न शक्नोति तलस्यान्ते वर्षासु वसितुं यदा ॥
तेनाहं राधितो देवि पवित्रेण महात्मना
दिव्यं वर्षसहस्रं तु वायुभक्षो महाबलः ॥
तुष्टो ऽहं तस्य देवेशि किं कर्तव्यं पुरोदितम्
ततो ऽसौ दण्डवद् भूमौ मम पादाग्रतः स्थितः ॥
प्रावृट्काले न शक्नोमि तलान्ते वसितुं हर
ततः सो ऽपि मया देवि कराभ्यां गृह्य भूतलात् ॥
शिरसा धारितो देवि जटाजूटे वरानने
ततः सर्वैस् तु देवेशि शिरसा धारितः शुचिः ॥
दशकोटिस् तु पूजानां पवित्रारोहणे समा
वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनम् एव च ॥
हरते नागराजस् तु विना देवि पवित्रकात्
वृथा परिश्रमस् तस्य यो न कुर्यात् पवित्रकम् ॥
तस्मात् सर्वप्रयत्नेन कर्तव्यं कुलजैः प्रिये
आषाढे शुक्लपक्षे तु मिथुनस्थे दिवाकरे ॥
तदालाभे प्रकर्तव्यं कर्कटस्थे दिवाकरे
अविरोधेन कर्तव्यं यावत् स्यात् तुलपूर्णिमा ॥
सौवर्णं तु कृतं सूत्रं सूक्ष्मं तु त्रिगुणीकृतम्
तत्र तन्तुशतं प्रोक्तं ग्रन्थिपादं गुरोर् मतम् ॥
पूज्यस्य द्व्यधिकं कार्यं प्रतिपूज्ये चतुराधिकम्
सप्ताधिकं शिवस्योक्तं योगेशीनां षडुत्तरम् ॥
विद्यापीठस्य सर्वस्य कुर्यात् तच् च षडुत्तरम्
पादुकानां प्रकर्तव्यं शतम् अष्टाधिकं प्रिये ॥
अष्टत्रिंशच् च ग्रन्थ्यो वै पञ्चाशद् वा विकल्पना
अष्टाधिकं गुरोर् उक्तं वटुकस्य तथा भवेत् ॥
अथवा राजतं सूत्रम् अभावाद् वस्त्रजं भवेत्
शुक्लसूत्रं समादाय त्रिगुणं त्रिगुणीकृतम् ॥
तेन तन्तुशतं कुर्याद् अष्टाधिकं महातपे
श्रीकण्ठादि चतुर्विंशैर् अजेशाद्यैस् तु षोडश ॥
अष्टाभिश् च महाकालैर् विद्यामाता चतुष्टयम्
षट्तन्तु डादिषट्कस्य कुलाष्टे चाष्टतन्तुकम् ॥
ग्रन्थयश् च यथाशोभा यथाशक्त्या पवित्रकम्
गोरोचना प्रकर्तव्या अथवा कुङ्कुमेन तु ॥
एवं निष्पादयित्वा तु यागं कृत्वा वरानने
दातव्यं भक्तियुक्तेन पूजान्ते तु पवित्रकम् ॥
गीतं नृत्यं प्रकर्तव्यं स एवात्र वरानने
हिन्दोलं वाथ कर्तव्यं मन्दतारयुतेन तु ॥
प्राप्ताः समयिनो ये तु ते पूज्यास् तु प्रयत्नतः
तत् सर्वं तु प्रकर्तव्यं चातुर्मास्यं वरानने ॥
सप्तवासरम् एवं तु त्रीणि वा एकम् एव वा
वीरक्रीडाकृते देवि सम्पन्नं भवते प्रिये ॥
तत् पवित्रं वरारोहे कृत्वा चैव क्षमापयेत्
बहुयज्ञफलं देवि बहुतीर्थफलं तथा ॥
दानधर्मस्य देवेशि कलां नार्घन्ति षोडशीम्
पवित्रं परमं पुण्यं सर्वदोषविवर्जितम् ॥
तेन कार्यम् इदं देवि कुलजैस् तु वरानने
लङ्घनं समयानां तु कर्म विधिविनाकृतम् ॥
ते दोषा नाशम् आयान्ति पवित्रेण वरानने
वर्षे वर्षे प्रकर्तव्यं यथाविभवविस्तरात् ॥
काशैः कुशैः प्रकर्तव्यं भक्तियुक्तेन भैरवि
वित्तशाठ्यं न कर्तव्यम् इहैव तु कुलागमे ॥
शाठ्येन यत् कृतं कर्म न तत् सिद्धिपदं भवेत्
एवं ज्ञात्वा वरारोहे वित्तशाठ्यं न कारयेत् ॥
तद्ग्रहश् च तथा पूजा पवित्रारोहणं परम्
एतत् सर्वं समाख्यातं किम् अन्यत् परिपृच्छसि ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0