भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 23

23.1

कालचक्रं वरारोहे आत्मनश् च परस्य च
ज्ञात्वा व्यपोहयेत् कालम् उत्क्रान्तिं वा सलक्षणम् ॥

23.2

येन जानाति देवेशि साधको निश्चयात्मकः
शृणु त्वं परमानन्दं सुगोप्यं प्रकटामि ते ॥

23.3

कालं तु त्रिविधं प्रोक्तं परं चैव परापरम्
अपरं तु कलाधारं कालस्य वशसंस्थितम् ॥

23.4

त्रुटिलवात् परः कालः कालोन्मेषात् परापरः
मन्वन्तरादिकाष्ठादौ स कालः कलते तनुम् ॥

23.5

कल्पे परापरे काले स्थित्वा कालस्य वञ्चनम्
परात् परतरे काले स्थितौ कालस्य कालकृत् ॥

23.6

इति मत्वा परं कालं मानभूतं गुरोर् मुखात्
ततः कुर्वन्ति सर्वत्र ज्ञानक्रीडाम् अशङ्किताम् ॥

23.7

परं तु षण्णवत्योर्ध्वं षण्णवत्या परापरम्
चतुराशीतिप्रमाणेन अपरं कलनात्मकम् ॥

23.8

पञ्चकेन निबद्धं तु पञ्चत्वं याति शीघ्रतः
नन्दाभद्रादियोगेन जयारिक्तादिपौर्णिमा ॥

23.9

पञ्च पञ्च तथा पञ्च मासा-ऋत्वयनावधिम्
संवत्सरं युगं चेति मन्वन्तरसकल्पकम् ॥

23.10

एवं कलन्ति तं कालं पञ्चपञ्चान्तकावधिम्
कालावधिस्थितान् द्वीपान् द्वीपैः पीठान् विदुर् बुधाः ॥

23.11

पीठान्तस्थानि तत्त्वानि पञ्च भूतानि तेषु वै
एकैकं पञ्चकावृत्तं पञ्चविंशान्तकाविधिम् ॥

23.12

स्वरपञ्चकयुक्तानि संसरन्ति कलार्णवे
पद्मनाडीनिबद्धेताः कालयन्त्रोपरिष्ठिताः ॥

23.13

जीवतोयं हरत्य् आशु शोषयन्ति क्षणे क्षणे
चन्द्रसूर्यकरैः कृत्वा कृतान्तो वाहने क्षमः ॥

23.14

जीवार्णवं समस्तेदम् आकृष्य च पुनः पुनः
सिञ्चयेत् क्षयवृक्षाणि जरामृत्युफलार्थिनः ॥

23.15

एवं ते त्रिविधः कालः कथितस् तु सुविस्तरः
लक्ष्यते यै रुतैः सो हि तन् निबोधयतः शृणु ॥

23.16

बहिरङ्गान्तरङ्गानि ज्ञात्वा वञ्चयते यथा
वञ्चितुं यो न शक्येत स याति गुरुसन्निधौ ॥

23.17

स्वप्ने वा यदि प्रत्यक्षं समाधिगुणयोगतः
विवर्णां पश्यते छायां जीवेद् वर्षत्रयं तु सः ॥

23.18

उत्तराभिमुखो भूत्वा पश्यते दक्षिणादिशम्
विवर्णं पूर्वम् आख्यातं मासैकं त्रिदिनोज्झितम् ॥

23.19

शुद्धनिर्मलम् आदित्यं विरश्मिं यदि पश्यति
वर्षद्वयेन मन्तव्यं मृत्युम् आत्मनि विन्दति ॥

23.20

अरुन्धतीं ध्रुवं चैव सोमच्छायां महापथम्
यो न पश्यति देवेशि न जीवेद् वत्सरात् परम् ॥

23.21

मध्ये छिद्रं चन्द्रमसि यस् तु पश्यति भामिनि
मृत्युं तस्य विजानीयान् मासे चैकादशे तथा ॥

23.22

भग्नशाखाद्रुमं पश्येद् गन्धर्वनगरं तथा
पश्येत् प्रेतपिशाचांश् च दश मासान् स जीवति ॥

23.23

यस्य वै स्नातमात्रस्य हृदि पादौ च शुष्यति
धूमो वा मस्तके वास्ति अष्टमासान् स जीवति ॥

23.24

अग्रतः पृष्ठतो वापि खण्डं यस्य पदं भवेत्
पांसौ वा कर्दमे वापि सप्त मासान् स जीवति ॥

23.25

रक्तमाल्यानुलेपानि रक्तकृष्णं च वाससम्
लभते स्वप्नयोगेन षण्मासांस् तु स जीवति ॥

23.26

आरुह्य मस्तके यस्य कृकलासः स्थिरीभवेत्
धारयेत् त्रीणि रूपाणि पञ्चमासान् स जीवति ॥

23.27

पुरुषो लोहदण्डेन कृष्णो यस्य परिच्छदः
पश्यते स्वप्नयोगेन चतुर्मासान् स जीवति ॥

23.28

चन्द्रबिम्बप्रतीकाशम् उदयन्तं दिवाकरम्
विरश्मिमण्डलं पश्येत् त्रीणि मासान् स जीवति ॥

23.29

दीपम् आरक्तताम्राभम् आकाशे रविमण्डलम्
मञ्जिष्ठां मेदिनीं पश्येज् जीवेन् मासद्वयं तु सः ॥

23.30

अप्सु वा यदि वादर्शे यद्य् आत्मानं न पश्यति
विशिरां पश्यते छायां मासम् एकं स जीवति ॥

23.31

यदि नेत्रं स्रवेद् एकं कण्ठस्थानं विशुष्यति
वाचाद्यं कम्पते यस्य स्वाङ्गं वह्निसमप्रभम् ॥

23.32

वेदना भवते तीव्रा अब्दम् एकं स जीवति
ललाटं चलते यस्य विवर्णं जायते मुखम् ॥

23.33

ध्रुवस्थाने तु प्रस्वेदं जायते यस्य सर्वदा
एकादश स मासानि जीवतेत्य् अविचारतः ॥

23.34

हृदये यस्य सन्तापं स्वकं कायं न पश्यति
वाचा च चलते यस्य दन्ताश् च परिशुष्यति ॥

23.35

विस्मृतिर् नित्य चित्तस्य दश मासान् स जीवति
हृदयं शुष्यते यस्य स्वकं कार्यं न जानति ॥

23.36

गुह्यं च शुष्यते शीघ्रं नव मासान् स जीवति
शुष्यते दक्षिणाङ्गं तु वामाङ्गं चैव शुष्यति ॥

23.37

घूर्मते महता नित् यम् अष्ट मासान् स जीवति
अकस्माज् जायते स्थूलः स्थूलो ऽपि कृषतां गतः ॥

23.38

धूसरो धूम्रवर्णश् च सप्त मासान् स जीवति
पूर्वे तु उदिते सूर्ये छायां पश्यैव दक्षिणाम् ॥

23.39

मुहूर्तं जीवते सो वै सत्येदं कुलनन्दिनि
वक्रनासा भवेद् यस्य मासाद् ऊर्ध्वं न जीवति ॥

23.40

छागगन्धं भवेद् गात्रं दन्ताश् चिटिचिटायते
छायात्मां विकृतां पश्येत् सप्तरात्रं स जीवति ॥

23.41

यस्य कृष्णा भवेज् जिह्वा पद्मवर्णं मुखं भवेत्
गण्डपृष्ठौ सुरक्ताभौ त्रिरात्रं च स जीवति ॥

23.42

श्यामदन्तं मुखं चैव प्रकृतिर् यस्य दृश्यते
विपरीतेन्द्रियग्रामं अहोरात्रं स जीवति ॥

23.43

घोषं न शृणुते यस् तु दीपवर्तिं न पश्यति
विशिरां पश्यते छायां क्षणम् एकं स जीवति ॥

23.44

अन्यच् च परमोपायं शृणुष्व वरवर्णिनि
येन विज्ञातमात्रेण कालं जानाति तत्त्वतः ॥

23.45

षोडशद्वादशाराभ्यां या गतिस् त्व् अर्कसोमयोः
तस्मिन् निरीक्षयेज् ज्योतिं दीप्यमाने हुताशने ॥

23.46

षोडशान्तर्गतं यच् च पूर्वोक्तं यच् चतुर्दलम्
तस्य मध्ये विजानीयात् कालज्ञः काललक्षणम् ॥

23.47

सोमाधस्ताद् दले नष्टे षण्मासान् म्रियते ध्रुवम्
त्रीणि मासांस् तथा चोर्ध्वे द्वौ मासौ ध्वनिसन्निधौ ॥

23.48

मासैकं वायुसामीप्ये तच् च पूषोदयं विदुः
सोमचक्रम् इदं प्रोक्तं सृणु सूर्यं च साम्प्रतम् ॥

23.49

यदा न दृस्यते ज्योतिर् द्वादशारे चतुर्दले
पक्षैकं तस्य देवेशि दिनानि दश पञ्चकैः ॥

23.50

तत्रैव तेन मार्गेण यदा ज्योतिर् न दृश्यते
दश पञ्च तथा त्रीणि एकाहं तस्य जीवितम् ॥

23.51

अथान्यत् परमं वक्ष्ये निश्चितं काललक्षणम्
जीवन्ति च तदभ्यासात् तदभावान् म्रियन्ति ते ॥

23.52

निश्चितं तद् वरारोहे कालयोगः स एव हि
विस्मृतिर् जायते यस्य सा वारा मृत्युकाङ्क्षिणी ॥

23.53

देहमध्यगतं सर्वं म्रियते कालचोदितम्
परापरेण कालेन भेदयित्वा समभ्यसेत् ॥

23.54

वामावर्तादियोगेन दक्षिणान्तम् अनुक्रमात्
शुक्लकृष्णप्रयोगेण कदहान्तम् अपश्चिमम् ॥

23.55

पूर्णमावास्यमध्यस्थं कालचक्रं समभ्यसेत्
पञ्च पञ्च तथा पञ्च प्रतिपव्छुक्लम् आदितः ॥

23.56

स्वरवर्णसमायोगं शुक्लादौ कृष्णकावधिम्
पुद्गलात्मा समाश्रित्य अभ्यसेदम् अहर् अहः ॥

23.57

जरामृत्युविनाशार्थे शीघ्रेदं पिण्डसाधनम्
कथयन्ति महाविद्याः कालस्य काललक्षणम् ॥

23.58

कथम् अप्य् एष तन्निष्ठो यदि सिद्धिं न गच्छति
आकृष्टो योगिनीचक्रे तदा विस्मृतिकारिका ॥

23.59

विस्मृतिर् वा तिथिर् याति अभ्यसन्तो मुहुर् मुहुः
सा वारा सा तिथिर् देवि निश्चितेदं मयोदितम् ॥

23.60

एतत् ते परमं कालं परमार्थं प्रकीर्तितम्
सविस्मयकरं देवि अभेद्यं सम्प्रकाशितम् ॥

23.61

यदीच्छसि चिरं देवि जीवितं परमार्थतः
देहमध्यं परित्यज्य तिष्ठस्वान्यत्र भाविता ॥

23.62

देहामृतं परं योगं न देयम् अपरीक्षिते
यावज् ज्ञानविरागाभ्यां पूरितं स्यात् तनुर् न हि ॥

23.63

परापरस्य कालस्य ज्ञातृत्वं भवते यथा
लेखनादिप्रयोगेण विधियोगेन भाविनि ॥

23.64

मार्गशीर्षस्य मासस्य कृष्णायां पञ्चमी भवेत्
तस्यां सम्भारसम्पन्नो रात्रौ जागरणं यजेत् ॥

23.65

आहरेन् निर्व्रणं भूर्जं रोचनासृक् सकुङ्कुमम्
लिखेत् पूर्वमुखो भूत्वा द्वादशैव स्वरान् शुभान् ॥

23.66

मात्राबिन्दुसुसम्पन्नान् रक्षयित्वा पुनः पुनः
संवरेच् छुक्लसूत्रेण जप्तविद्यः समालभेत् ॥

23.67

सितचन्दननैवेद्यैर् जातीपुष्पैर् मनोरमैः
पूजयित्वा क्रमाम्नायं दीपमन्त्रसुसंयुतम् ॥

23.68

शरावसम्पुटस्थं तु जातीकुसुममध्यतः
स्थापयित्वा जपेन् मन्त्रं यावद् रात्रिक्षयं गतः ॥

23.69

ततः प्रभातसमये पूजयित्वा पुनः क्रमम्
कुमार्यो वै प्रतर्पेत विद्या लब्धा तथा शृणु ॥

23.70

ह्रीं हूं स्व्लें स्वाहापतये रक्ष रक्षामृतोद्भवे
स्व्लें हूं ह्रीं च पुनर् जाप्यं सम्पुटीकृत्य मन्त्रयेत् ॥

23.71

जप्तविद्यास् तु स्तुभ्यन्ते कथयन्ति शुभाशुभम्
न स्तुभ्यन्ति यदा देव्यो जप्तविद्यास्य सम्पुटम् ॥

23.72

दर्शयन्ति महाहानिं भ्रष्टत्वं योगिनीकुले
सामर्थ्यतो न मृत्युः स्याद् भ्रष्टसिद्धिं न यास्यति ॥

23.73

एवं कृत्वा ततः पश्चाद् भूर्जपत्त्रे स्थिताक्षरान्
वाचयन् सन्निरूपेत समं हीनं सुवृद्धिदम् ॥

23.74

अक्षराभ्यधिके यत्र तत्र राज्यं विनिर्दिशेत्
मात्रयाभ्यधिके लाभं समे चारोग्यवत्सलम् ॥

23.75

बिन्दुहीनं यदा पश्येद् हानिम् अर्थस्य तत्र वै
मात्राहीने भवेद् व्याधिर् मृत्युः स्याद् अक्षरं विना ॥

23.76

वामादिक्रमयोगेन लक्षयेद् उपदेशतः
विद्याकुम्भं सवर्धन्या तत्काले पूजितं तु यत् ॥

23.77

ततः पुनः समालब्धं ग्रामस्य च पुरस्य च
भ्रामयेत् षोडशवारं दह्यते न तदम्भसा ॥

23.78

एतत् ते कथितं देवि शुभाशुभविलक्षणम्
न देयं दुष्टबुद्धीनाम् आगमं गोपयेत् सदा ॥

23.79

कालावबोधनं देवि पूषाकालोपलक्षितम्
समसप्तगते सूर्ये जन्म-ऋक्षे च चन्द्रमाः ॥

23.80

मकरोदयवेलायां पूषाकालस् तु कुब्जिके
अरिष्टदर्शनं नाथे जपहोमोपशाम्यति ॥

23.81

मृत्युञ्जयेन योगेन तच् छृणुष्व परिस्फुटम्
जुं सः सम्पुटनामाद्यं सः जुं अन्ते नियोजयेत् ॥

23.82

चन्द्रोदयामृतान्तस्थं पुद्गलात्मा विचिन्तयेत्
जपेन् मृतुञ्जयं देवि परापरतनौ स्थितः ॥

23.83

अक्षसूत्रेण दिव्येन नेतरेण प्रशस्यते ॥

23.84

सविस्मयकरं वाक्यम् अत्यद्भुतम् अकारणम्
अक्षसूत्रं पुरा ज्ञातं दिव्याक्षं वद साम्प्रतम् ॥

23.85

शृणु देवि प्रवक्ष्यामि दिव्याक्षसूत्रनिर्णयम्
यन् न कस्यचिद् आख्यातं सिद्धिदं परमं पदम् ॥

23.86

यन् न भिद्यति चक्रेण यन् न दह्यति चाग्निना
यन् न प्रोतापरे सूत्रे पट्टकार्पासिके ऽपि वा ॥

23.87

यस्य मध्ये स्थितो मेरुर् ग्रन्थयश् च न तत्र वै
पञ्चाशाक्षमया तन्तु[र्] यस्मात् सर्वं चराचरम् ॥

23.88

छिन्नभिन्नेषु मन्त्रेषु लुब्धक्रुद्धेषु सुप्तके
जप्तानेन तु सूत्रेण असिद्धं साधयेद् ध्रुवम् ॥

23.89

अक्षसूत्रम् इदं सिद्धं सर्वमार्गप्रबोधकम्
सर्वमार्गेषु गुप्तेदम् ऽनुष्ठेयं परमेश्वरि ॥

23.90

प्रस्तुतायातमार्गेण वर्णितं सूत्रनिर्णयम् ॥

23.91

डाकिनी राक्षसी लामा काकिनी शाकिनी तथा
यक्षिणी भ्रामणी चैव वद मन्त्रं सुराधिप ॥

23.92

ऊ-ढ-मध्यगतं गृह्य ण-ट-मध्यगतं तथा
व-ख-पूर्वद्वयोद्धृत्य ध-ह-मध्यगतं पुनः ॥

23.93

य-स-मध्यगतं गृह्य एतत् षट्कं समुद्धृतम्
ञपश्चिमं समुद्धृत्य दीर्घस्वरयुतं कुरु ॥

23.94

षट्प्रकारविधानेन षट्कं षट्कं नियोजयेत्
प्रभुर् वै भ्रामणी प्रोक्ता षट्स्वराधिष्ठिता तु सा ॥

23.95

सर्वकार्ये नियोक्तव्या निग्रहानुग्रहं प्रति
अन्यद् वै हृदयं वक्ष्ये शाकिनीनां यशस्विनि ॥

23.96

ऊ-पश्चिमं समुद्धृत्य ह-पूर्व-म्-आसने स्थितम्
रेफाक्रान्तं तु कर्तव्यं द-उत्तरयुतं तथा ॥

23.97

झ-पूर्वेण समायुक्तं कूटं बिन्दुसमन्वितम्
प्रस्तारायातमार्गेण उद्धृतं षट्कनिर्णयम् ॥

23.98

प्रस्तुतं शृणु कल्याणि उच्यमानं निगद्यते
अरिष्टदर्शनाद्य् एवम् अभ्यस्यन्तो ऽन्यथा यदि ॥

23.99

शुष्यते घण्टिकास्थानं तदा ध्यानं परित्यजेत्
जपध्यानार्चनाद् एव सञ्जातोपशमं न हि ॥

23.100

तदात्र निश्चितं जातं पञ्चाहान् मृत्युलक्षणम्
निश्चयेन तदा काले गुरुदेवं समाश्रयेत् ॥

23.101

पुत्रदारादिबन्धूनां व्याहरित्वा वदेद् इदम्
पञ्चाहावान्तरे काले कुर्याद् उत्क्रान्तिकारणम् ॥

23.102

अन्यथा कुरुते यस् तु स पापी ह्य् आत्मभेदकः
न दुःखितो न कोपेन कुर्याद् उत्क्रान्तिकारणम् ॥

23.103

कीर्तिहेतोः शरीरस्य यदि शक्तो न रक्षणे
गुरुणापि हि दातव्यं ज्ञात्वा शिष्यं सलक्षणम् ॥

23.104

अन्यथा ददते यस् तु लिङ्गभेदी गुरुस् तु सः
पञ्चप्रकारको ह्य् आत्मा येन ज्ञातः स्वदेहतः ॥

23.105

सर्वतीर्थमयः सो हि तीर्थानि कृतकान्य् अपि
सुसिद्धपुम्भिः सर्वैस् तु यत्र बद्धास्पदं क्वचित् ॥

23.106

तत्प्रभावाद् भवेत् तीर्थं न तीर्थं जलपूरितम्
ज्ञानावबोधसम्पन्ना ज्ञानसम्पादने क्षमाः ॥

23.107

यत्र तिष्ठन्ति ते स्थाने तत् तीर्थं परमार्थतः
वाराणसी कुरुक्षेत्रं नैमिषं भैरवं तथा ॥

23.108

सन्निधानो गुरुर् यत्र सर्वतीर्थानि तत्र वै
तीर्थानि तोयपूर्णानि देवाः पाषाणमृण्मयाः ॥

23.109

आत्मविदो न मन्यन्ते तत् तीर्थम् इतरे जनाः
बलिनोपद्रुते स्थाने गुरोर् मानम् उपागते ॥

23.110

ज्ञानिनो ऽपि न दोषोऽस्ति आत्मनो हनने कृते
तीर्थङ्करो गुरुर् यस्मात् तत्कार्योज्झितजीविते ॥

23.111

तिर्यग्योनिं ह्य् असौ याति दुःखान्तं फलम् अश्नुते
अन्यत्काले न कर्तव्यम् उत्क्रान्त्युत्क्रमणं प्रिये ॥

23.112

कीर्तिहेतोः प्रकर्तव्या सा यथा कथ्यते ऽ धुना
द्वारेष्व् अर्गलसंयोगं कुर्याच् चोद्घाटनं क्वचित् ॥

23.113

जीवाधारं छिनेद् ग्रन्थिम् एतद् उत्क्रान्तिलक्षणम्
गुदं लिङ्गं तथा नाभिर् मुखं नासा श्रुतीक्षणौ ॥

23.114

एषु स्थाने ऽर्गलं योज्य कुञ्चिकोर्ध्वं नियोजयेत्
अर्गलान्य् उपदेशेन शृणु त्वं करणं यथा ॥

23.115

गुदाधारोपरि स्थित्वा कृत्वा वै कुक्कुटासनम्
समपादोरुजङ्घस् तु कुर्परौ तु तदूर्ध्वगौ ॥

23.116

भग्नपृष्ठशिरःस्कन्धो ह्य् उत्तानोर्ध्वमुखः स्थितः
मुष्टिभ्यां पीडयेत् स्कन्धौ कण्ठस्थौ चानुनासिकौ ॥

23.117

उच्चरेत् क्षुरिकामूले ग्रन्थिच्छेदं भवेत् क्षणात्
घाटयित्वा तु द्वाराणि नित्यम् एव समभ्यसेत् ॥

23.118

घण्टिकायां तु देवेशि षण्मासावधिपूर्वकम्
नित्यम् एवाभ्यसन्तस्य प्रत्ययानि भवन्ति हि ॥

23.118A

घटाधारगतं प्राणं कूर्मयन्त्रेण पीडयेत्
अभ्यसन् मासम् एकं तु सद्यम् उत्क्रान्तिलक्षणम् ॥

23.119

ब्रह्मरन्ध्रं स्फुरन्तीव निर्जीवं कण्ठकावधिम्
एवम् अभ्यासयेन् नित्यं यत्र बन्धतनु[ः] स्थितः ॥

23.120

गुदाधारे मृदुं दत्त्वा पृष्ठाधारं सुशोभनम्
जानूरुभ्यां तु पार्श्वे तु कीलकौ द्वौ निधापयेत् ॥

23.121

तत्प्रमाणौ समौ भूम्यां यन्त्रयेन् मृदुयन्त्रणात्
एवं संशोधयित्वा तु पूर्वसिद्धि[र्] यथा यथा ॥

23.122

तदा सङ्कुरुते कीर्तिम् इत्य् आज्ञा पारमेश्वरी
सतताभ्यासयोगेन सद्यम् उत्क्रमणे क्षमः ॥

23.123

क्रुद्धः संहरते क्षिप्रं घटिकाभ्यन्तरेण वै
तृण वृक्षलतादीनां षट्पदाकाशगामिनाम् ॥

23.124

फलपुष्पप्रपातेन तदा सिद्धिं विलक्षयेत्
अकालेनापि कालस् तु षड्घटिकाभ्यन्तरेण वै ॥

23.125

षण्मासाभ्यासयोगेन आत्मनः कुरुते ध्रुवम्
एवं ते कथितं सर्वं सरहस्यं महामतम् ॥

23.126

क्षुरिकाद्यर्गलाभ्यासं कथयाम्य् उपदेशतः
एतद्विज्ञानसारो ऽयं विज्ञानानेकसङ्कुलम् ॥

23.127

अनादेशान् न तद् देयं दत्ते स्याल्लिङ्गभेदकृत्
लुब्धक्रुद्धेषु दुष्टेषु गोपयेदं सुरक्षितम् ॥

23.128

परं चाज्ञापहारो ऽस्ति यस्य हानिर् न विद्यते
एवं सुरक्षिता देवि वारितासि पुनः पुनः ॥

23.129

अनादिष्टस्य शिष्येदं दास्यसे नरकार्थिनी
पञ्चात्मानं यदा ज्ञातं यदा ज्ञातं षडध्वरम् ॥

23.130

तदा त्व् अपश्चिमम् इदं कथ्यम् उत्क्रान्तिकारणम्
अन्यद् वा पश्चिमं वक्ष्ये दुःखाक्रान्तस्य योगिनः ॥

23.131

सर्वज्ञविहिते मार्गे न दोषस् तत्प्रसाधने
आत्मनश् च परस्यैव क्रुद्धचेतोऽवधारणम् ॥

23.132

कर्तव्यं भीवने गत्वा रक्तमण्डलकं सुभम्
मण्डलान्ते तु षट्कोणं तत्र देव्यः सुभीषणाः ॥

23.133

पूजयेद् यक्षिणीमूला डामर्यन्तं विदुर् बुधाः
कुसुमिन्या सहैकत्वम् आत्मानं मध्यतो न्यसेत् ॥

23.134

मांसखण्डैः प्रपूज्येत रक्तेनार्घं प्रदापयेत्
भेदयित्वा तु अष्टाङ्गं विष्ठमूत्रसमेकतः ॥

23.135

किञ्चिदलिसमायुक्तम् अर्घपात्रं नियोजयेत्
क्ष्मापलेनाथ नारेण कृष्णवस्त्रोद्भवेन च ॥

23.136

पूजयेद् वाथ नैवेद्यैर् धातुं दत्त्वा स्वकां स्वकाम्
रक्तपात्रं पृथक्कुर्यान् नैवेद्यानि पृथक् पृथक् ॥

23.137

कपालशकलैः सर्वं पात्रादौ धूपकावधिम्
सान्निध्यकरणार्थं तु धूपान्यं सन्नियोजयेत् ॥

23.138

येनाकृष्टाः प्रयान्त्य् आशु सन्निधाना भवन्ति हि
क्ष्मापलं हि च क्ष्मापित्तं नरास्थि शैलमद्रजम् ॥

23.139

किञ्चिदलिसमायुक्तं धूपो ऽयं परमार्थतः
एवोपचारयोगेन धूपयित्वा समुच्चरेत् ॥

23.140

विद्यां स्वधातुसंयुक्तां यस्य तस्य शतं जपेत् ॥

23.141

शतं शतं जपित्वा तु एकैकायाः समर्पयेत्
गृह्णन्त्व् इदं मया दत्तम् अत्राज्ञा पारमेश्वरी ॥

23.142

दुःखितो ऽहं विरक्तो ऽहं भ्रष्टो ऽहं समयोज्झितः
गृह्णन्तु देवताः क्षिप्रं मया दत्तां स्वकां तनुम् ॥

23.143

आज्ञा यदि प्रमाणो ऽस्ति प्रमाणं यदि चान्वयम्
तेन सत्येन गृह्णन्तु मत्प्रदत्तं मरीचयः ॥

23.144

एवं विरक्तदेहस् तु यावत् कुर्याद् दिने दिने
तावद् आयान्ति योगिन्यः सप्तमे ऽहनि भासुराः ॥

23.145

ज्ञानसिद्धिप्रसिद्धस्य सप्तरात्रान्तकावधिम्
क्षपयन्त्य् अन्यथा नैव शीघ्रं संहारयन्ति ताः ॥

23.146

अथ चेद् दुष्टकर्माणां निग्रहेदं प्रकारयेत्
तद् आत्माङ्गसमुद्भूतं किञ्चिद् द्रव्यं न गृह्णयेत् ॥

23.147

ब्रह्मणालेप्य-म्-आत्मानं पश्चाद् ध्यानं नियोजयेत्
परमात्मस्वरूपो ऽहं भैरवो ऽहं महाप्रभुः ॥

23.148

इति मत्वा प्रयुञ्जीत षोढान्यासं स्वके तनौ
कृत्वा षोडश वाराणि ततो वज्रतनुर् भवेत् ॥

23.149

अथातः सम्प्रवक्ष्यामि लोहके साधनं यथा
अयुतैकेन सिद्धिः स्याल् लिङ्गे वै पश्चिमामुखे ॥

23.150

स्वयम्भौ बाणलिङ्गे वा इतरे वापि सुव्रते
तत्र स्थित्वा जपेद् एवम् एकचित्तः समाहितः ॥

23.151

सदा क्रुद्धेन कर्तव्यं निग्रहं सप्तवासरैः
शतम् अष्टोत्तरेणैव यावत् तन्निग्रहो भवेत् ॥

23.152

अतोर्ध्वे यन्त्रकर्माणि निग्रहानुग्रहं प्रति
कृत्वा कुण्डलिकास् तिस्रो अष्टौ द्वादश षोडश ॥

23.153

मध्ये यकारलोपस्य लोप्ये निष्कद्वयस्य च
कर्मकर्माणुरूपेण शेषा वर्णा यथासुखम् ॥

23.154

अथातः सम्प्रवक्ष्यामि स्वप्नमानवकाम्बिकाम्
प्राणं वह्निसमारूढं मात्राद्वादशभेदितम् ॥

23.155

अक्षरान्तरितं कृत्वा सषडङ्गा भवेद् उमे
ह्रस्वा त्याज्या प्रयत्नेन दीर्घा ग्राह्या सुलोचने ॥

23.156

अयुतं पूर्वसेवायां पञ्चप्रणवसम्पुटे
रक्ताश्वमारकुसुमैः सिध्यते नात्र संशयः ॥

23.157

अष्टोत्तरशतं जप्त्वा शय्यारूढो निशासु च
शुभाशुभं वदेद् रात्रौ सिद्धविद्यां तु कौलिकीम् ॥

23.158

अथान्यम् अपि वक्ष्यामि प्रयोगं मृत्युनाशनम्
सङ्कोच्य मूलचक्रन् तु जन्मस्थं धारयेत् क्षणात् ॥

23.159

सङ्घट्टे पीडनं कृत्वा लम्बकं तु विदारयेत्
लम्बकामृतसन्तृप्तो जयेन् मृत्युं न संशयः ॥

23.160

दाहशोषस् तु सन्तापो वैवर्णं वा महद्भुतम्
नाशयेत वरारोहे अनेनाभ्यासयोगतः ॥

23.161

रसनां शून्यमध्यस्थां कृत्वा चैव निराश्रयम्
न दन्तैर् दशनान् स्पृष्ट्वा ओष्ठौ नैव परस्परम् ॥

23.162

त्यज्य स्पर्शनम् एतेषां जिनेन् मृत्युं न संशयः
एष मृत्युञ्जयो योगो न भूतो न भविष्यति ॥

23.163

नाभिचक्राद् अधश् चाग्निर् निवृत्ते तु गमागमे
द्वन्द्वातीतं पदं देवि चिन्तातीतं प्रचक्ष्यते ॥

23.164

पृष्ठवंश-अधस्तात् तु स्पन्दने विलयं गते
कालातीतं परं स्थानं चिन्तातीतम् इहोच्यते ॥

23.165

गुदगुह्यान्तरे ग्रन्थिः सीवन्या बदिरास्थिवत्
जरातीतं पदं दिव्यं भावातीतं प्रचक्ष्यते ॥

23.166

गुदगुह्यान्तरे ग्रन्थिर् गुहाधारे सुखोदये
परानन्दपदं दिव्यं चिन्तातीतं तु कथ्यते ॥

23.167

राजदन्तद्वयोर् मध्ये अधस्तात् पीडयेद् भृशम्
ऊर्ध्वदृष्टिं परां कृत्वा एवम् एतत् समभ्यसेत् ॥

23.168

अनेन जयते मृत्युं नात्र कार्यविचारणात्
नादान्ते संस्थितं लक्ष्यं पञ्चतत्त्वस्य मध्यगम् ॥

23.169

चतुष्कलसमोपेतं तत्र स्थित्वा जपेत् प्रिये
जरा मृत्युश् च रोगाश् च ईतयो विविधाश् च ये ॥

23.170

नश्यन्ते नात्र सन्देहस् तुहिनं तु रवेर् यथा
अधः प्राणं समानीय कुण्डलीपदमध्यगम् ॥

23.171

तत्र रुन्ध्यात् प्रयत्नेन वृत्तिराजविवर्जितम्
ये प्राणास् ते महाजीवे गतायुर् वीरवन्दिते ॥

23.172

तत्रासक्तः सदा देवि मृत्युजिद् भवते क्षणात्
कथितं सरहस्यं तु सुगोप्यं तु तवानघे ॥

23.173

षोढान्यासविधानं तु पूर्वं तु कथितं मया
निरोधोत्क्रमणादीनां किं त्वेदं न प्रकाशयेत् ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc