भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 25

25.0*

मण्डलानां विधानं तु प्रसादं कुरु भैरव
येन जानाम्य् अहं देव कथयस्व विधानतः ॥

25.0*

सारं मण्डलम् आख्यातं फलं सारं परापरम्
लाति यस्माद् यमातीतं मण्डलं तेन कीर्तितम् ॥

25.0*

मकारे मातरः सर्वा डकारे डामरीगणम्
लकारे लाकिनीवर्गं मण्डलं तेन चोच्यते ॥

25.0*

मकारे नित् यम् आत्मानं डकारे खेचरीगणम्
लकारे भूचरीवर्गो मण्डलं तेन कीर्तितम् ॥

25.0*

मकारे ऽ नाम यो देवो डकारे शक्तिर् इष्यते
लकारे षड्विधा सृष्टिर् मण्डलं तेन कीर्तितम् ॥

25.0*

मकारं शिवतत्त्वं च विद्यातत्त्वं डकारगम्
लकारम् आत्मतत्त्वं तु कीर्तितं तेन मण्डलम् ॥

25.0*

मकारे तु शिवं विद्याद् डकारे परमेश्वरी
लकारे सप्तकोट्यस् तु मन्त्राणां परिकीर्तितम् ॥

25.0*

मकारे कारणाः पञ्च डकारे तु परापरा
लकारे अपराः पञ्च तेन मण्डल कीर्तितम् ॥

25.0*

ब्रह्मा विष्णुश् च रुद्रश् च ईश्वरश् च सदाशिवः
उच्यते मण्डलेनैते तेन मण्डलम् उच्यते ॥

25.0*

सर्वे ग्रहाश् च दिक्पाला नागा वै भैरवादयः
तिष्ठन्ति मण्डले लीनाः सर्वाधिक्यम् अतो पुनः ॥

25.0*

अनन्ताद्याः शिवान्ताध्वा षड्विधः सम्प्रकीर्तितः
आस्ते मण्डलके सो हि मण्डलं व्यापकं ततः ॥

25.0*

सर्वव्यापितया नान्यो मण्डलाभ्यधिको यतः
तेन मण्डलम् अभ्यर्च्य[ं] भुक्तिमुक्तिफलार्थिभिः ॥

25.0*

इतीष्टं मण्डलाध्यायं निर्दिष्टं कुब्जिकामते
कुर्यात् प्रदक्षिणं देवि अपसव्ये विसर्जनम् ॥

25.0*

श्रीमतस्याग्रतो देवि तद् एवं गुरुसन्निधौ
सुप्रसिद्धां ततो ज्येष्ठां सुपरीक्ष्य प्रयत्नतः ॥

25.0*

सप्ताविंशतिभिर् भेदैः प्रश्नम् एतत् क्रमागतम्
षट्प्रकारत्रयश् चाज्ञा येषां तीव्रावलोकनम् ॥

25.0*

सुभक्ता वत्सलाः शान्ता दम्भमायाविवर्जिताः
तेषां मण्डलकं कुर्याद् अन्यथा तु विलोमकृत् ॥

25.0*

तस्य पूजाक्रमश् चायं जानुना भूमिसंस्थितः
विधाय मार्जनी शुद्धे प्रोक्षिते चैव भूतले ॥

25.0*

दक्षहस्ततलं भ्राम्यं मण्डलं वारिनिर्मितम्
सुपुष्पप्रकरैर् युक्तं विलिप्य चन्दनादिभिः ॥

25.0*

त्रिधा तद् यागविधिना दत्त्वार्घं द्रव्यसंयुतम्
शिष्यो ऽस्य गन्धधूपाद्यैः पूजां कृत्वा पुरात्मनः ॥

25.0*

सद्विधानसमायुक्तं तद् अभ्यर्च्य समन्ततः
गुरुपादाम्भुजौ भक्त्या स्तुत्वा स्तोत्रादिभिः क्रमात् ॥

25.0*

पश्चात् त्रिःशुद्धया भक्त्या प्रणम्य तदनुज्ञया
उत्थाय शिरसा धार्यं भुक्तिमुक्तिफलार्थिना ॥

25.0*

गुरुपादस्थपुष्पं तु कार्यं शिस्येण सादरात्
नीराजनं सुभक्त्याथ शुभवस्तुनिवेदनम् ॥

25.0*

दूरात् करोति पर्यायात् पार्श्वस्थो हि च पर्वसु
स्वामिनं प्रणमेद् भक्त्या इत्य् आज्ञा पारमेश्वरी ॥

25.0*

पुष्पाघ्राय विसर्ज्येत नीत्वा नासम् अपुष्पता
विधानं मण्डलस्योक्तं स्वामिपूजाविधिक्रमः ॥

25.0*

क्रमं कुर्याद् इदं भक्त्या यः शिष्यः कुब्जिकामते
स्वामिपादप्रसादेन दिव्याज्ञां लभते पुनः ॥

25.0*

एतन् मण्डलम् आख्यातं यथार्थं तु मया तव
इदानीं ब्रूहि देवेशि किम् अन्यं कथयामि ते ॥

25.1

पञ्चात्मानः कथं देव संस्थितः कतमः शिवः
किन्नियोगरता देव किम्प्रमाणं व्यवस्थिताः ॥

25.2

अत्यन्तनिपुनं देवि पृच्छसे गुणविस्तरम्
सविस्मयकरं भद्रे कथयाम्य् अनुपूर्वशः ॥

25.3

परः परापरः सिद्धः प्रसिद्धः पुद्गलात्मकः
स्थाननिर्देशतो वक्ष्ये शृणु त्वं वरवर्णिनि ॥

25.4

शतकोटिप्रमाणेन परो ह्य् आत्मा व्यवस्थितः
षण्नवत्येव कोटीनां विज्ञेयस् तु परापरः ॥

25.5

चतुराशीतिप्रमाणेन सिद्धो ह्य् आत्मा व्यवस्थितः
षट्त्रिंशत्कोटिमध्यस्थः प्रसिद्धः कारणेश्वरः ॥

25.6

चत्वारिंशाष्टमानेन संस्थितः पुद्गलात्मकः
लडहैव स विज्ञेयः परापरविभागशः ॥

25.7

प्रसिद्धकन्धरारूढः सिद्धसारथिनाहतः
स याति नीयते यत्र परापरनिरीक्षणात् ॥

25.8

परमाणुसमादिष्टः कर्मवृत्तौ नियामितः
वामादिपथमार्गेण प्रकृत्यर्थभरालसः ॥

25.9

प्रकृत्याक्रान्तशकटो भज्यते म्रियते गवि
रोदते सारथिस् तत्र पश्यते तु परापरः ॥

25.10

वामादिपथम् आरूढो नद्याम्भोधिसरित्सरैः
याति मद् ह्येन तेषां वै पस्यते वर्षणादिकम् ॥

25.11

यानक्रीडां च पश्येत कफाक्रान्तभरो यदि
पुद्गलात्मा व्रजेत् तत्र सिद्धसारथिनेरितः ॥

25.12

पित्तद्रव्यभराक्रान्तो ज्येष्ठापथि नियोजितः
ज्वालावलीढमध्ये तु ज्वलन्तैकपुरे ऽपि वा ॥

25.13

क्षुत्पिपासाभिभूतस् तु चौरा गृह्णन्ति तत्पथे
कोपसङ्ग्रामसंरम्भं स्त्रियालिङ्गनचुम्बनम् ॥

25.14

राज्योपद्रवम् एतद् धि परदारसमाकुलम्
सारथिस् तु भवेत् तत्र वध्यते मार्यते तु सः ॥

25.15

परापरो रुदत्य् आशु परः पश्यति तत्र वै
यात्य् अनेकविधोपायैः ज्येष्ठापथसमाश्रितः ॥

25.16

कफपित्तभराक्रान्तो वाताक्रान्तो यथा पुनः
पथि रौद्रे नियुक्तो ऽयं यात्य् असौ खेचरामुखः ॥

25.17

स्वर्गपाताललोकान्तं पिशाचभुवनानि च
विद्याधरपुरं पश्येत् पुष्पितं वनकाननम् ॥

25.18

योगिनीचक्रमेलापं नृत्यगीतरवाकुलम्
राज्याभिषेकम् आपन्नं छत्त्रोत्क्षेपितचामरम् ॥

25.19

वातपित्तभराक्रान्तः पुद्गलात्मा पथि स्थितः
पश्यते सारथिः सर्वं भुञ्जते तु परापरः ॥

25.20

अथ वातभराक्रान्तो याति नीयति दूरतः
सन्त्रासितस् तु रविना विषमः समपर्वतम् ॥

25.21

खञ्जमानो ऽप्य् असौ यत्नाद् भज्यते म्रियते तु सः
अथ वातकफाक्रान्तः परसारथिनेरितः ॥

25.22

सर्पव्याघ्रवृकाकीर्णं मार्गं पश्यति सर्वथा
खाद्यते चाप्य् असौ सर्पैर् म्रियते नीयते ऽपि वा ॥

25.23

एवं पुद्गल-आत्मा वै प्रसिद्धस्कन्धम् आश्रितः
सिद्धसारथिना युक्तः परापरवशानुगः ॥

25.24

प्रेरितो ऽसौ परात्माना क्रीडते स चराचरम्
कथितं सरहस्यं तु परात्मानिर्णयं स्फुटम् ॥

25.25

यन् न कस्यचिद् आख्यातं भ्रान्तिरूपं जगस्य च
श्रीमतं ये न विन्दन्ति भ्रान्तिस् तेषां पदे पदे ॥

25.26

पराकाशे परो ह्य् आत्मा मन्त्राकाशे परापरः
शक्त्याकाशे सुसिद्धस् तु पदभावे प्रसिद्धधीः ॥

25.27

भूताकाशपथे संस्थः पुद्गलात्मा नकिञ्चनः
पञ्चैते शम्भुनादिष्टाः शम्भुः सर्वत्र समरसः ॥

25.28

षष्ठनाथः परः साक्षात् सर्वज्ञः स परापरः
अलक्षणम् असंज्ञो ऽसौ प्रसादाच् छम्भुवस् तु सः ॥

25.29

अनुज्ञातो ऽभिषिक्तस् तु वीरो वीरत्वम् इच्छता
चरेद् विद्याव्रतं मन्त्री यथा तत् कथयस्व मे ॥

25.30

शृणु देवि प्रवक्ष्यामि विद्याया व्रतम् उत्तमम्
जटी मुण्डी शिखी भस्मी ब्रह्मचारी तु स्नातकः ल्ल् ॥

25.31

व्रतस्थो ऽप्य् अव्रतस्थो वा सर्वावस्थो ऽथ सिद्धिदः
पञ्चमुद्राधरो वापि भस्मनिष्ठो दिगम्बरः ॥

25.32

चीरवल्कलधारी वा सर्वाभरणभूषितः
मलीमसो ऽथ शुक्लो वा वस्त्राभरणभूषितः ॥

25.33

येन येन हि वेषेण वर्तते साधकोत्तमः
तत् तद् एव व्रतं प्रोक्तम् इति शास्त्रस्य निश्चयः ॥

25.34

यद् यद् आभरणं तस्य यं वा वदति वाचया
सा चर्या कथिता तस्य मन्त्राश् चैव न संशयः ॥

25.35

विद्या नाम परा शक्तिर् द्विभिर् भेदैर् व्यवस्थिता
चिच्छक्तिरहिताधिष्ठा अवर्णा वर्णगा शुभा ॥

25.36

विन्दते वर्णगा येन तेन विद्याव्रतं प्रिये
चीर्णचर्या जगत् सर्वं वर्णावर्णैर् व्यवस्थितम् ॥

25.37

व्रतं भावम् इति प्रोक्तं तेन विद्याव्रतं स्मृतम्
चिच् चिनोति विद ज्ञाने चिच्छक्तिप्रतिबोधकम् ॥

25.38

अवर्णं रक्तवत् पिण्डं विद्यामन्त्रात्मविग्रहम्
पश्यन्ति च व्रतासक्ताश् चीर्णविद्या स उच्यते ॥

25.39

सप्तकोटिसहस्राणां विद्यानाम् अप्रमेयतः
चिच्छक्तिबोधनं यस्माद् अवर्णा वर्णतां गता ॥

25.40

एका एव परा प्रोक्ता विद्यारूपा तु कुण्डली
तेन देवि व्रतं प्रोक्तं विद्यायावरणं शुभम् ॥

25.41

विद्यामार्गे चरेद् यस् तु शास्त्रदृष्टेन कर्मणा
ध्यानं पूजा जपो होमः समयानां प्रपालनम् ॥

25.42

एतद् विद्याव्रतं प्रोक्तं नान्यथा वीरनायिके
विद्या ज्ञेया तु योनिस्था चरते द्वादशान्तगम् ॥

25.43

व्रतस्थानेषु सर्वेषु तेन विद्याव्रतं प्रिये
ब्रह्मा विष्णुस् तथा रुद्र ईश्वरस् तु सदाशिवः ॥

25.44

एते स्थाना व्रतस्यैव यत्र सा चरते परा
तं ज्ञात्वा परमं स्थानं चीर्णविद्याव्रतो हि सः ॥

25.45

पञ्चमुद्रा भवेद् देवि पञ्चकारणकं ततः
भूषितो हृदि तिष्ठेत पञ्चमुद्राव्यवस्थितः ॥

25.46

एतैस् तु भूषितो मन्त्री पर्यटेत् क्षेत्रम् आश्रितः
श्मशाने कानने कूपे उद्याने देवकुले ऽपि वा ॥

25.47

शून्ये राजगृहे मन्त्री पर्वताग्रे चतुष्पथे
त्रिपथग्रामरथ्यासु महोदधितटे तथा ॥

25.48

नदीसङ्गमतीरे वा एकवृक्षे ऽथ कानने
एकलिङ्गे तथा षण्डे क्षेत्रैर् वा अष्टभिः क्रमात् ॥

25.49

प्रयागा वरुणा कोला भीमनादा जयन्तिका
चरित्रेकाम्रकं चैव कोटीवर्षं तथाष्टमम् ॥

25.50

एतैस् तु पर्यटेन् मन्त्री योगिनीसिद्धिम् इच्छता
खट्वाङ्गधारिणो मौनी वेगात् पर्यटते सदा ॥

25.51

डमरुं पाशखट्वाङ्गं त्रिशूलं खेटकं तथा
नाराचा कर्तरी चक्रम् अङ्कुशं मुशलं धनुः ॥

25.52

गदा कट्टारिका शक्तिस् तथा दण्डकमण्डलुम्
एते तु आयुधाः श्रेष्ठाश् चर्याकाले तु धारयेत् ॥

25.53

पञ्चदैवसिकं कार्यम् अस्त्रसम्ख्या व्रतोत्तमा
द्वादसाहं चरेन् मन्त्री पक्षमासादितो ऽथवा ॥

25.54

षण्मासम् अथवाब्दं च द्विरब्दं त्रीणि-म्-एव वा
चतुः पञ्च तथा षट्सु सप्त अष्ट तथापि वा ॥

25.55

नव द्विपञ्चकं वाथ एकादश-म्-अथापि वा
द्वादशाब्दं चरेन् मन्त्री ब्रह्मघ्नो ऽपि स सिध्यति ॥

25.56

अब्द-म्-एकेन देवेशि मण्डलीकैः प्रपूज्यते
देशं भृत्या[ः] पुरं ग्रामं समन्त्री सपुरोगमः ॥

25.57

सान्तःपुरवरो राजा वश्यो भवति शोभने
द्विरब्दैर् यक्षकन्याश् च सिध्यन्ति सुरनायिके ॥

25.58

त्रिरब्दात् सप्तपाताला यास् तु दैत्याङ्गनाः शुभाः
पश्यते मदमत्तास् तु मदविभ्रान्तलोचनाः ॥

25.59

मातङ्गमदगामिन्यो अक्षया यौवनोद्वहाः
क्षुभ्यन्ति साधकेन्द्रस्य प्राणान् मुञ्चन्ति तत्क्षणात् ॥

25.60

चतुः पञ्च तथा षट्सु ब्रह्मलोकादि साधयेत्
सप्तमे ऽब्दे वरारोहे रुद्रान्ता या व्यवस्थिताः ॥

25.61

सिध्यन्ति साधकेन्द्रस्य इति शास्त्रे प्रचोदिताः
अष्टमे ईश्वराख्यं तु नवमे तु सदाशिवम् ॥

25.62

दशमे विद्यालयो भूत्वा क्रीडते गगने महान्
दशमैकादशे देवि द्वादशैर् गुणसंयुतः ॥

25.63

अणिमादिगुणैर् युक्तो गच्छते खेचरैः सह
अक्षयो ह्य् अजयो योगी क्रीडते सर्वगः शुभः ॥

25.64

व्रतस्थस्य फलं ह्य् एतत् कथितं तु मया प्रिये
साम्प्रतं योगमार्गेण यथा भवति तच् छृणु ॥

25.65

श्मशानं तु गृहं प्रोक्तं गृहो देहः प्रकीर्तितः
अटते तु अविश्रान्तः श्मशानगतचेतसः ॥

25.66

कं शरीरम् इति प्रोक्तं तस्यान्ते नयते भृशम्
पश्यते मन्त्रसंस्थो ऽपि वाङ्मयं सचराचरम् ॥

25.67

काननं तेन चाख्यातं कायान्ते संस्थितं प्रिये
मनः कूपं समुद्दिष्टं सङ्कल्पं कुरुते बहून् ॥

25.68

तत्राधारो व्रजेत् क्षेत्री तेन कूपेति विश्रुतः
उद्यतो मन नाभिस्थो मध्यतः सर्वजन्तुषु ॥

25.69

नेति तत् परमं प्राप्तं उद्यानस् तेन उच्यते
ददाति सततं देहे अमृतं तु नभोगतम् ॥

25.70

कुलान्ते च चरेद् येन धर्माधर्मात्मबन्धनैः
तेन देवि समाख्यातं देही देवकुलं सदा ॥

25.71

राजा चात्मा समुद्दिष्टः षट्त्रिंशे ऽप्य् अथवाध्वनि
शब्दादिगुणभूयिष्ठो मनःकोष्ठगतः प्रभुः ॥

25.72

तेन स्थितेन तिष्ठन्ति तेनैव सह गच्छति
उन्मनत्वे सदा युक्तः शून्यो मन-म्-उदाहृतः ॥

25.73

शून्यं राजगृहं तेन उन्मनत्वे सदा प्रिये
पर्वतं गुरुवक्त्रं तु तस्याग्रम् अवलम्बयेत् ॥

25.74

पर्वताग्रं स्मृतं तेन पर्यायेन सुरार्चिते
चतुष्पथं भवेद् देवि वामा ज्येष्ठा च रौद्रिका ॥

25.75

अम्बिकाया समायुक्तम् अटनं पुद्गलात्मकम्
चतुष्कं तेन चाख्यातं पथम् एतद् उदाहृतम् ॥

25.76

पथं नाडीत्रयं प्रोक्तम् इडाद्या तु कुलेश्वरि
त्रिपथस्थो-र्-अटेन् नित्यं कुरुते गति-र्-आगतिम् ॥

25.77

त्रिपथस्थैकभावस्थो यः करोति स सिध्यति
ग्रामं देहम् इति प्रोक्तम् आत्मा देहम् इति स्मृतः ॥

25.78

आलयः सर्वसत्त्वानां सुखदुःखपरापरः
गच्छते अध ऊर्ध्वं तु रथ्याधारो जगत्पतिः ॥

25.79

तेन रथ्या स्मृता नाडी ब्रह्माद्या आत्मनश् च तु
तटं तीरं समाख्यातं सिन्धूच्चारं निगद्यते ॥

25.80

दुःखान्ते तु लयातीतं तटम् उदधिसंज्ञकम्
वाचान्ते व्यापिनं देवं शिवं परमकारणम् ॥

25.81

तिष्ठते सततं मन्त्री तत्र चर्या प्रकाशिता
नदते चान्तराधारा परा कुण्डलिनी तु या ॥

25.82

सा नदी ओघभूता तु व्योमार्णे वहते सदा
सङ्गमं परया युक्तम् उन्मनायाः प्रकीर्तितम् ॥

25.83

सङ्गमं तेन चाख्यातं नदी तु समुदाहृता
तीरं तु समवायिन्या विभ्वीया सा परा कला ॥

25.84

तदातीतो भवेद् व्यापी नद्यास् तीरम् उदाहृतम्
एकवृक्षं समाख्यातम् एका शक्तिर् इहोच्यते ॥

25.85

वृक्षम् इन्द्रियम् आख्यातं वृक्षं शक्तिर् इति स्मृता
क्षयं गता परे व्योम्नि अमनस्के निरामये ॥

25.86

तेन देवि मया प्रोक्तम् एकवृक्षस् तु चर्यया
एकम् एव परं तत्त्वं लिङ्गाधारं विभुं प्रिये ॥

25.87

पर्यटे[त्] तु दिवा रात्रौ अविश्रान्तः पुनः पुनः
एकलिङ्गं समाख्यातं षण्डं तु कथयामि ते ॥

25.88

हृदयं तु सरः प्रोक्तं पद्मं वै अष्टपत्त्रकम्
उदानेन तु देवेशि विकाशे तु रविस् तु सः ॥

25.89

सेव्यते पुद्गलालीनं सरोजं हृदयात्मकम्
रमते तत्र हंसाख्यः शक्तिर् आद्या मनोन्मनी ॥

25.90

तं षण्डं कथितं शास्त्रे क्षेत्राणि कथयामि ते
क्षेत्रं नाम परं शान्तं शरीरं तत्त्वसंयुतम् ॥

25.91

क्षेत्रज्ञो अटते नित्यं स्थानाष्टकगतिस्थितः
तेनेदं कथितं देवि क्षेत्राष्टकम् उदाहृतम् ॥

25.92

ये पीठास् ते भवेत् क्षेत्राः क्षेत्राः पीठा उदाहृताः
नामपर्यायसंज्ञा तु शास्त्रे शास्त्रे पृथक् पृथक् ॥

25.93

प्रयागं नाभिसंस्थं तु वरुणा हृत्प्रदेशतः
कोलागिर्यं तु कण्ठस्थं भीमनादं च तालुके ॥

25.94

बिन्दुस्थाने जयन्त्याख्यं नादाख्ये तु चरित्रकम्
एकाम्रं शक्तिमध्ये तु ज्ञातव्यं विदितात्मकैः ॥

25.95

गुरुवक्त्रगतं प्रोक्तं कोटीवर्षं तु चाष्टमम्
एते स्थाना मया प्रोक्ता अध्यात्मं पुद्गलाश्रिताः ॥

25.96

अटते सततं येन हृच्चक्रस्थः सनातनः
यावद् एवं न विन्देच् च पीठम् अध्यात्मिकं प्रिये ॥

25.97

तावत् तस्य कुतः सिद्धिर् अटतो ऽपि जगत्त्रयम्
बहिरन्तरभावं तु अन्तरम्बहिरङ्गयोः ॥

25.98

लोकप्रवृत्तिहेत्वर्थे बहिःपीठाः प्रकीर्तिताः
अन्तरङ्गं यदा शुद्धं पश्यते मनसा प्रिये ॥

25.99

तदा पश्यति बाह्ये तु सूक्ष्मरूपा गभस्तयः
मेलकं च प्रयच्छन्ति चरुं वा पाशवीं विधिम् ॥

25.100

सम्प्रदायं प्रयच्छन्ति स्थानं वा कथयन्त्य् अपि
अशुद्धेन तु भावेन पर्यटेत् पृथिवीं यदि ॥

25.101

न तस्य दर्शनं देवि ददते मनसा क्वचित्
पश्यन्न् अपि च देवेशि पश्यन्तो ऽपि न पश्यति ॥

25.102

सङ्कीर्णलक्षणा देव्यो मिश्रा ज्ञातुं न शक्यते
प्रभावो ऽस्याः समुद्दिष्टो विना तासाम् अनुग्रहात् ॥

25.103

ग्रामे ग्रामे तथारण्ये नगरे चत्वरे पुरे
खेटके चैव सन्दोहे पीठक्षेत्रे वने तथा ॥

25.104

उद्यानोपवने चैव पूर्वम् उक्ते तथैव च
देशे देशे ऽभिजायन्ते ज्ञानरूपा गभस्तयः ॥

25.105

पार्थिवाचरणे प्रोक्ता आपे तेजे तथानिले
आकाशे चैव सुश्रोणि तासां सङ्ख्या न विद्यते ॥

25.106

पीठाश्रयविभागेन उत्पद्यन्ते ह्य् अनेकधा
खानपानरता नित्यं क्रीडन्ते चान्त्यजेष्व् अपि ॥

25.107

तेन देवि मया प्रोक्ताः पीठा बाह्यस्वरूपतः
वेश्यागृहं प्रयागाख्यं वरुणा सौण्डिकी विदुः ॥

25.108

कैवर्तिकी भवेत् कोल्ला अट्टहासं तु खट्टकी
जयन्ती कन्दुकी विद्याच् चरित्रं रजकीगृहम् ॥

25.109

एकाम्रकं भवेच् छिप्पी कोटाख्येति च कौषटी
पुरस्थितानि क्षेत्राणि ज्ञानात्मा लक्षयेत् तु ता[ः] ॥

25.110

बाह्यतः कथितो भेदो गृहस्थं शृणु साम्प्रतम्
प्रयागं मध्यदेशे तु वरुणा द्वारम् आस्रिता ॥

25.111

कोलापुरं तु कञ्जिन्यां चुल्ली चैवाट्टहासकम्
चरित्रं पेषणी ज्ञेया एकाम्रं कण्डनी स्मृता ॥

25.112

देविकोट्टं घरट्टं च उपक्षेत्राण्य् अतः सृणु
वर्धमानी-म्-उपालम्भी देहल्या मुषलं तथा ॥

25.113

खट्वा शूर्पघरट्टं च वर्धमान्यादितः क्रमात्
पादेनैतान् न संस्पृश्य यद् इच्छेच् छ्रियम् आत्मनः ॥

25.114

मार्जनीशूर्पवातं वा दूरतः परिवर्जयेत्
वाताविष्टाः प्रविश्यन्ति छिद्रं मत्वा तु साधके ॥

25.115

विघ्नानि सिद्धयोगिन्यः श्रेयं गृह्णन्त्य् अतो ऽर्थतः
कणिका शिरवाख्यं तु कालिकालालयं शिवम् ॥

25.116

कालञ्जरं महाकालं क्षेत्रसंस्थानम् आश्रितः
पीठोपपीठसन्दोहं पुरस्थं गृहदेहगम् ॥

25.117

ज्ञातव्यं चुम्बकेनैव भुक्तिमुक्तिफलप्रदम्
बाह्यतः कथिता ह्य् एवं पीठाः क्षेत्रास् तु सुव्रते ॥

25.118

पर्यटेद् एषु स्थानेषु पूजनीयाः सदा बुधैः
भक्ष्यभोज्यान्नपानैश् च तर्पयेन् मन्त्रवित् सदा ॥

25.119

एतेषां संस्थितिस् तेषां योगिनाम् अप्रमेयता
भवन्तीह न सन्देहो वरदाः साधकस्य तु ॥

25.120

तर्पिताः पूजिता देव्यः साधकस्य ददन्ति हि
षण्मासाद् युक्तमार्गस्य समयव्रतपालके ॥

25.121

मन्तव्यं साधकेन्द्रेण तोषयित्वा गुरुं प्रिये
अथान्यं सम्प्रवक्ष्यामि परिभाषास्त्रवादिनाम् ॥

25.122

अध्यात्मिकं बहिश् चैव यथा ज्ञायन्ति तत्त्वतः
तथा ते कथयिष्यामि शृणुष्वायतलोचने ॥

25.123

अध्यात्मं कुरुते बाह्यं व्रतचर्या तु साधनम्
एवं कृते भवेत् सिद्धिः सत्यं सत्यं न संशयः ॥

25.124

खट्वाङ्गं कथयिष्यामि खगतीकरणं परम्
आपादतलमूर्ध्नान्तं यथा भवति तच् छृणु ॥

25.125

शिरादौ सर्व-म्-अङ्गेषु अङ्गप्रत्यङ्गकेष्वपि
खट्वायते तु सुश्रोणि खट्वाङ्गी तेन उच्यते ॥

25.126

मौनेन वर्तयेन् नित्यं हृदि गूढं परापरम्
तेन मौनीति विज्ञेयः सर्वभावेषु भाविनि ॥

25.127

वेगेन पर्यटेद् देहे अविश्रान्तः पुनः पुनः
तेन वेगान् मयाख्यातम् अटनं पुद्गलस्य तु ॥

25.128

डमरुकं प्रवक्ष्यामि यथा शास्त्रे उदाहृतम्
अमा नाम परा सूक्ष्मा कला चामृतवाहिनी ॥

25.129

आत्मा सञ्चरते तस्मिन् रावं मुञ्चन्ति बिन्दुके
विसर्गस्थो महात्मानो वादयेत् कथयेति च ॥

25.130

डमरुकं स्मृतं तेन अमनस्के निरामये
नाभिस्था यस्य तिष्ठेत मायारूपा तु कुण्डली ॥

25.131

पाशम् एतद् विनिर्दिष्टं खड्गं चैवाधुना शृणु
खस्था छिनत्ति पाशांस् तु विसर्गास्त्रेण मोहनी ॥

25.132

खड्गवन् निर्मला येन खगमध्ये कुलेश्वरि
गता सा ब्रह्मसायुज्यं घटते शक्तिर् अव्यया ॥

25.133

तेन खड्गम् इति प्रोक्तम् आयुधं सुरनायिके
एका एव परा शक्तिस् त्रिपथा चक्रमण्डले ॥

25.134

वामा ज्येष्ठा तथा रौद्री इच्छाज्ञानक्रियात्मिका
त्रिशूलं त्रिपथं ख्यातं त्रिशक्तिम् अनुपूर्वशः ॥

25.135

खरूपा व्योमगा शान्ता निर्मला अटते प्रिये
खेटकं तेन नामं तु द्वादशान्ते व्यवस्थितम् ॥

25.136

नारा च शक्ति-र्-उच्चारं करणात्मव्यवस्थितम्
वेधते तु निरोधिन्या कारणं पञ्च एव तु ॥

25.137

तेन नाराचम् आख्यातं पर्यायेण वरानने
कर्तरी ज्ञानशक्तिस् तु येन पाशाञ् छिनत्त्य् असौ ॥

25.138

सा कला परमा सूक्ष्मा मन्त्राणां बोधनी परा
कर्तरी कर्तृरूपेण ज्ञातव्या साधकेन तु ॥

25.139

चरते द्वादशान्ते तु क्रमात् तत्त्वानि मुञ्चति
चक्रवेद् भ्रमते नित् यम् अङ्कुशस्था परापरा ॥

25.140

अङ्गमङ्गगता देवी बहिरन्तरसंस्थिता
कुरुते सततं चेष्टाम् आसने शयने तथा ॥

25.141

धावनं वल्गनं रोधम् अङ्कुशस्थानम् आश्रितः
मुषलत्वे स्थितो नादो रेखाकारोर्ध्वगः प्रिये ॥

25.142

तं भित्त्वा गमनं चोर्ध्वं मुषलाख्यं सदाशिवम्
धनुर् लक्ष्ये मनाख्यं तु येन वेधयते परम् ॥

25.143

आपूर्य सविसर्गेण परेण मनचक्षुषा
करणेन फडन्तेन विसर्गस्थेन सुस्वने ॥

25.144

ऋतुद्वयविशुद्धेन काननान्तर्गतेन तु
अनेन करणान्तेन कट्टारिका परापरा ॥

25.145

प्राप्नोति तत्त्वसायोज्यं गदया च सुलोचने
गता ह्य् एका परा रन्ध्रं ददते चामृतं शुभम् ॥

25.146

गतास् तु न निवर्तन्ते ये गता गदया सह
शक्तिः शक्तिस्थभावेन आत्मानं नयते सदा ॥

25.147

तद्भावयोगविद्धस् तु शक्तिना तु सुराधिपे
दण्डवदृजुरेखा तु नादान्तपदम् अव्ययम् ॥

25.148

तेन मार्गेण गन्तव्यं दण्डधारेण सुव्रते
कं शरीरम् इति ख्यातं मण्डलाकारसंस्थितम् ॥

25.149

अत्राध्वा तु वरारोहे शोधनीयो मनीषिभिः
कुलाद्या या परा शुद्धा सर्व-अध्वहृदि स्थिता ॥

25.150

तेनेदं कथितं भद्रे कमण्डलुर् इति स्मृतः
एते तु आयुधाः सूक्ष्माः पर्यायात् कथिताः स्फुटम् ॥

25.151

समयिन्यगता सूक्ष्मा कला सूक्ष्मातिनायिका
कथितास् तु मया देवि परापरविभागशः ॥

25.152

बाह्यतः कथयिष्यामि दूतीनां लक्षणं सुभम्
अन्तरङ्गे तथा ह्य् एवं श्रूयतां तेषु निश्चयम् ॥

25.153

माता दुहिता भगिनी सहजा तु तथा न्त्यजा
रजकी चर्मकारी च मातङ्गी चाग्रजन्मिका ॥

25.154

अन्नपानं तथा भक्ष्यम् आचरेच् छक्तिभिः सह
अन्त्यजानां द्विजानां च एकत्र चरुभोजनम् ॥

25.155

कर्तव्यं साधकेनैव यद् इच्छेत् सिद्धिम् उत्तमाम् ॥

25.156

कुत्सितं कथितं देव अयुक्तं शास्त्रवादिनाम्
पशूनां यत् समाख्यातम् आचारं परमेश्वर
यतीनां तु यदा सो हि तद् आश्चर्यं महाप्रभो ॥

25.157

साधु देवि महाप्राज्ञे प्रश्नम् एतत् सुदुर्लभम्
कथयामि समासेन त्वत्प्रीत्या सुरनायिके ॥

25.158

मातेव संस्थिता शक्तिर् जगतो योनिरूपिणी
अत्रोत्पन्नं समस्तं हि वाङ्मयं सचराचरम् ॥

25.159

तेन मातेति विख्याता कथिता परमेश्वरी
उद्भवस्था दुहित्री तु दुहनात् तु जगस्य च ॥

25.160

दुहित्री तु द्वितीया तु भगिनी त्व् अथ-म्-उच्यते
भगरूपा परा सूक्ष्मा नान्येन तु सुनिर्मिता ॥

25.161

स्वतोत्पन्ना स्वयं जाता तेनोक्ता सहजा कला
अन्तस्था सर्वभूतानां वर्तते चान्तगा परा ॥

25.162

अन्ते च संस्थिता ह्य् एका अन्त्यजा परमेश्वरी
रजस्तमोविनिर्मुक्ता महान्ते रजकी उमे ॥

25.163

चरते चर्मगा येन स्वरङ्गेन तु रञ्जिता
चर्मकारी तु सा चैका मातङ्गी च ततोच्यते ॥

25.164

आत्मस्था सततं नित्यं गीतस्यान्तपथे स्थिता
मातङ्गी कथिता दूती अग्रजन्मी तथोच्यते ॥

25.165

सर्वेषां चैव शास्त्राणाम् अग्रोत्पन्ना तु अग्रणी
नान्यत् तत्र भवेत् किञ्चिच् छक्तिर् आद्या मनोन्मनी ॥

25.166

अग्रजन्मा समाख्याता परा ह्य् अमृतवाहिनी
पर्यायात् कथिता देवि शक्तिस् तद्धर्मधर्मिणी ॥

25.167

अज्ञात्वा देहजां शक्तिं बहुस्थानगतां प्रिये
आचरन्ति च ये मूढाः पशवः समुदाहृताः ॥

25.168

अपाक्तेया असम्भाष्याः शिवव्रतविडम्बकाः
खानं पानं तथा देवि कर्तव्यं न च तैः सह ॥

25.169

एवं युक्तः सदा तिष्ठेन् मदिरानन्दचेतसः
मदिरा या परा शक्ति रञ्जितं तु जगत्त्रयम् ॥

25.170

आनन्दं तत्समत्वं हि मदिरानन्दचेतसः
सिध्यते नात्र सन्देहो यथा भैरव-म्-अब्रवीत् ॥

25.171

ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः
नैवास्ति किञ्चित् कर्तव्यम् अस्ति चेन् न स तत्त्ववित् ॥

25.172

अथान्यत् सम्प्रवक्ष्यामि अवस्थां ज्ञानबोधिकाम्
घोषणी पिङ्गला चैव विद्युन्माला च चन्द्रिणी ॥

25.173

मनोऽनुगा च सुकृता सौम्या चैव निरञ्जना
निरालम्बा तथा देवी अन्या चैव महाबला ॥

25.174

हेला लोला तथा लीला बोधाबोधवतीति च
निरामयाः समाख्याता एताः प्रत्यक्षमातराः ॥

25.175

आज्ञासिद्धिप्रदातारा आज्ञासिद्धिकुलान्वये
घोषणी घोषमार्गस्था शिखा धूम्रा च पिङ्गला ॥

25.176

रात्रौ द्योतयते शुक्लं विद्युन्मालेति चोच्यते
चन्द्रिणी चन्द्रगर्भेण सन्ध्याबिन्दु मनोऽनुगा ॥

25.177

निमीलिताक्षे यत् पीतं सुकृता समुदाहृता
कंसध्वनिस् तथा सौम्या घण्टा चैव निरञ्जना ॥

25.178

हंसाख्या तु निरालम्बा किङ्किणी तु महाबला
गुददेशे प्रजायेत सदा सिद्धिप्रदायिका ॥

25.179

घोषमार्गे तु यो हंसो हेला नामेति चोच्यते
तस्य मध्ये तु यः शब्दो लोलाख्या सा प्रकीर्तिता ॥

25.180

लीला चैवाणवा प्रोक्ता खेचरत्वप्रदायिनी
चीत्कृतं कर्णदेशे तु बोधाबोधवती तु सा ॥

25.181

आत्मानं हंसम् इत्य् आहुर् मायारूपा तु बोधनी
कुण्डली तु समाख्याता रुद्रशक्तिस् तु बिन्दुकम् ॥

25.182

गगने दृश्यते यस् तु प्रभाकारेण सुप्रभः
अखण्डमण्डलाकारं द्योतयन्तं नभस्तलम् ॥

25.183

अचलं तत् समाख्यातम् अचलत्वेन संस्थितम्
एतावस्थाः समाख्याता उदयन्ति क्रमेण तु ॥

25.184

आज्ञातत्परभावज्ञः सुगुप्तो गुरुपूजकः
तस्य सिद्धिर् भवत्य् आशु नान्यथा कुब्जिके वचः ॥

25.185

पितु[ः] प्राप्तं यथा सौख्यं तत् सुखं भुञ्जते स्वयम्
मृत्युर् येन सुखेनेह तत् सुखं ध्यानम् उच्यते ॥

25.186

समस्तेदं वरारोहे दुर्लभं प्रकटीकृतम्
त्वं पुनश् चावतारित्वा क्रमौघं सम्प्रकाशय ॥

25.187

सुगोप्यं गोपनीभूत्वा क्रमं पूज्यारिहा भव ॥

25.188

या सा कुब्जि परा महौघजननी सञ्चोदितो ऽहं त्वया त्वं कुब्जा परकुब्जिनी मम पुनस् त्वाहं मया त्वं पुनः
त्वयादिष्टचतुष्टयं क्रमपथं तेषां क्रमो वै यथा सम्प्रेष्यात्मगतं क्रमौघपरमं चाज्ञा गृहीतानघे ॥

25.189

शतकोटिसुविस्तीर्णं तन्त्रेदं पारमेश्वरम्
अस्य भेदोपभेदाश् च भविष्यन्ति ह्य् अनेकधा ॥

25.190

अत्र कल्पे वरारोहे सूत्रसङ्ग्रहलक्षणम्
चतुर्विंशतिसाहस्रं किं तु तत् प्रकटं न हि ॥

25.191

कर्तव्यं तु त्वया भद्रे किं तु पीठचतुष्टये
प्रकाशयस्व चाज्ञातो यथा गोप्यतरं भवेत् ॥

25.192

सुदुर्लभतरं देवि तन्त्रेदं परमाद्भुतम्
यत्र वा तिष्ठते देशे स देशो भुक्तिभाग् भवेत् ॥

25.193

किं पुनः पुरमध्यस्थं गृहावस्थगतं हृदि
तिष्ठते यस्य ऽसौ नाथे पुरं पीठसमं भवेत् ॥

25.194

गृहं तद् योगपीठं च मन्तव्यम् अन्वयान्वितैः
आगमं मण्डलाद्यैस् तु पूज्योघं पारमेश्वरम् ॥

25.195

यत्रेदं तिष्ठते स्थाने दिव्याम्नायं सुदुर्लभम्
दिव्यैस् तु पूज्यते सो हि यदि गोप्यतरं भवेत् ॥

25.196

विधानविहिता पूजा यद्य् अष्टम्यां चतुर्दशी
पूजयेत् परमाम्नायं पूज्यते स मरीचिभिः ॥

25.197

यस् त्व् एवं विन्दते देवि ग्रन्थतश् चार्थतो ऽपि वा
स ज्येष्ठः कुलसन्ताने पूज्यो ऽसौ भैरवो यथा ॥

25.198

अवज्ञां कुरुते यस् तु यस्य तस्य प्रकाशयेत्
सामर्थ्येन सतां द्विष्टो भ्रष्टो दुःखी स सर्वतः ॥

25.199

आगमाधारभाण्डस्य दृष्ट्वावज्ञां करोति यः
नमस्कारेण तत् पीठं तस्यैवायं पुरोदितम् ॥

25.200

श्रुत्वैवं विस्मयापन्ना ऊचुस् त्व् एवं कुलेश्वरी
प्रेरयित्वादितोद्दिष्टा अत्राज्ञानविरोधिनी ॥

25.201

आज्ञाश्रुतं समस्तेदं दृष्टम् अस्माद् विर्जृम्भितम्
व्रजतोडादिसिद्धानां तेषु सर्वं समर्पयेत् ॥

25.202

समयिन्यश् च संयोज्य तस्य त्वामोघशालिनी
भविष्यसि पुरावस्था तदवस्थान्तरे स्थिता ॥

25.203

प्रथमं मद्गुणैर् भद्रे द्वितीयं च खगान्तरे
तृतीयं भूचरीनाथः पश्चानन्तभवात्मिका ॥

25.204

त्रयान्ते गुरुपङ्क्तिस्था पृथक्पूजाक्रमे स्थिता
भविष्यसि पुरावस्था ह्रास्यमाना पदे पदे ॥

25.205

जीविकोपायहेत्वर्थम् उत्कर्षार्थम् अथापि वा
तेषु त्यज्य पराम्नायं भूतावेशकरी भव ॥

25.206

व्यतिक्रमं यदा काले भविष्यत् कुब्जिनीमते
तदा काले तु तं हत्वा समाप्येवं पुनर् भज ॥

25.207

सारसङ्ग्रहम् एतद् धि अनामामतम् उत्तमम्
अस्योच्चारं न कर्तव्यम् उच्चाराद् अय् उतं जपेत् ॥

25.208

कुब्जिका या वरारोहे पञ्चभिः प्रणवैः सह
तैर् विना न हि चोच्चारं कुब्जाम्नायमहाध्वरे ॥

25.209

यैस् तु तानि वरारोहे कथयामि स्वरूपतः
बिन्दुयुक्तानि सर्वाणि जीवभूतानि शासने ॥

25.210

आदिमं च तृतीयं च दशमं चैकविंशकम्
द्वितीयं चैकविंशेन वर्जितं पञ्चमं तु तत् ॥

25.211

किं तु वामेन जङ्घाया हतं बीजेन कारयेत्
तद् बीजं परम् उद्दिष्टं सर्वज्ञानावतारकम् ॥

25.212

अम्बिका बिन्दुनादं च कुण्डली च परः शिवः
रत्नानां पञ्चकं देवि व्यापयित्वा सुदुर्लभम् ॥

25.213

अनेनाभ्यासयोगेन खेचरीकुलनन्दनः
सिध्यते नात्र सन्देहो गुरुवक्त्रप्रसादतः ॥

25.214

खेचरा भूचरा चैव दिक्चरा गोचरा तथा
ददन्ति मेलकं सर्वं यस्येदं हृदि संस्थितम् ॥

25.215

देवदेवेन देव्याया मतं दिव्यं मया तव
कर्तव्यं तु तथा गोप्यम् इत्य् आज्ञा पारमेश्वरी ॥

25.216

पूजा चास्य प्रकर्तव्या विशेषेण वरानने
शुक्लपक्षे तृतीयायां वैशाखस्य तथा पुनः ॥

25.217

कृष्णपक्षे त्रयोदश्यां नभस्यनवमी पुनः
आश्विने शुक्लपक्षस्य पूर्णिमा फाल्गुने मता ॥

25.218

आषाढे श्रावणे चैव भाद्रपद्यां तथैव च
शुक्लपक्षे चतुर्दश्यां कर्तव्यं च पवित्रकम् ॥

25.219

आत्मवित्तानुसारेण उत्तमाधममध्यमाः
गुरुपर्वम् इति ख्यातं पालनीयं कुलाम्बिके ॥

25.220

युगादयः समाख्याता अत्र पीठावतारणम्
पीठमार्गक्रमायातम् आगमो ऽयं तद् एव हि ॥

25.221

आगमे पूजिते सर्वं पूजितं ज्ञानसागरम्
येनेदं पुस्तकं देव्याः पूर्वोक्तं यन् मया तव ॥

25.222

अन्यत् तत् परमोपायं सिद्धिपर्यायशासने
दिव्यसिद्धिप्रदातारं दिव्यभाषाविभूषितम् ॥

25.223

कुसुमं च रजं रक्तं रथ्यं शिवकुसुम्भकम्
तडिद् अमृतमधुरं क्षतजोद्भवनेत्रजम् ॥

25.224

कादम्बरी प्रसन्ना च परिस्रुङ् मदिरा सुरा
वामामृतम् अलिश् चैव सोमपानं मदालसी ॥

25.225

धारामृतं शिवाम्बुं च रतिविष्णुवरुणोद्भवम्
वर्चो ब्रह्मा द्विजन्मा च सरोजः कमलासनः ॥

25.226

बुकपुष्पकणाख्यं च लिङ्गपङ्कमलं तथा
कुण्डगोलोद्भवं शुक्रं शशिश् चैव सितं मधु ॥

25.227

कटं मांसं पलं क्रव्यं पिषितं फल्गुषामिषम्
जाङ्गलं देवदारुं च क्ष्मा वै खड्गोद्भवं स्मृतम् ॥

25.228

तैलं वसा तथा स्नेहं कटुतैलं तु तीक्ष्णकम्
तुरुष्कं सिह्णकं प्रोक्तं कपालपुटमध्यगम् ॥

25.229

लशुनं नासिकावस्थं तच् च हिङ्गु प्रकीर्तितम्
गजं चैव तु कुष्माण्डं पलाण्डुं च विशेषतः ॥

25.230

पर्युषिताच्छाल्य् अगरुं पिप्पल्यः कृष्णतण्डुलाः
कृष्णच्छागो महानेत्री पललं मेषात्मकं स्मृतम् ॥

25.231

सामर्थज्ञविदानां च इति पूजा प्रकीर्तिता
सिद्धद्रव्यं समाख्यातं प्रसङ्गाद् योगिनीकुले ॥

25.232

नानेन रहिता सिद्धिर् भुक्तिमुक्तिर् न विद्यते
निराचारपदं ह्य् एतत् तेनेदं परमं स्मृतम् ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc