भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 22

22.1

श्रुता देव महाव्याप्तिः समस्तव्यस्तविस्तरात्
इदानीं श्रोतुम् इच्छामि त्वत्सकाशान् मनोद्भवाम् ॥

22.2

अपरां देहजैर् भिन्नां शब्दराशिं सभैरवम् ॥

22.3

साधु भद्रे पुनः साधु महावस्तुप्रबोधके
तद् अहं सम्प्रवक्ष्यामि सिद्धकौलं महातपे ॥

22.4

सूर्यकोटिकराभासं विद्युच्छटलताकुलम्
कालाग्निशिखराटोपं शूलज्वालोर्मिसङ्कुलम् ॥

22.5

विस्फुलिङ्गज्वलन्तौघैर् महाज्वालार्चिवर्तुलम्
ज्वालामालाकुलोज्ज्वालैः करालैर् भीमभीषणैः ॥

22.6

स्वर्गपातालभूर्लोकैर् अन्तरीक्षैर् दिशो दश
मच्छरीरे समुत्पन्ना महाक्रोधसमुद्भवा ॥

22.7

अकारादिक्षकारान्ता एकैकाक्षरभेदिता
भैरवावलिनी देवी विलोमेन समुद्धरेत् ॥

22.8

तद् अहं सम्प्रवक्ष्यामि शृणु कुब्जि महाधिपे
क्ष ह स आदितः कृत्वा अकारान्तेन सम्पुटम् ॥

22.9

एष क्रोधो महादेवि मम हृदयनिःसृतः
पञ्चाशभैरवोपेता मालिन्या सह संयुता ॥

22.10

अनेन न्यासमात्रेण सकलीकृतविग्रहः
चिन्तयेद् देहम् आत्मानम् उक्तलक्षणसंयुतम् ॥

22.11

संहरन्तं जगत् सर्वम् छिन्दन्तं पाशपञ्जरम्
निर्दहन्तं जगत् सर्वम् भस्मकूटं विचिन्तयेत् ॥

22.12

अकारादिक्षकारान्तं पशुदेहे विचिन्तयेत्
अधोमुखोर्ध्वपादान्तं संहारानलमध्यगम् ॥

22.13

संवर्तानलदह्यन्तं चतुर्दशवियोजितम्
तद्बीजं सम्प्रवक्ष्यामि महाक्रोधस्य भैरवि ॥

22.14ab

मन्त्रसारं वरारोहे शृणु त्वं भावितात्मना ॥

22.14cd

क्रोधहृदयानुजा देवी महाभैरवम् अब्रवीत् ॥

22.15

कुजाख्यमन्त्रम् उच्चार्य त्रैलोक्यम् अपि संहरेत्
कैलासम् अपि पातयेद् वाचासिद्धिः प्रवर्तते ॥

22.16

एकैकाक्षरसम्भिन्नाम् उद्धरामि परापराम्
अकारादिक्षकारान्तं नामं वक्ष्यामि पार्वति ॥

22.17

अथापरा परा ख्याता महामाया परापरा
मन्त्रगर्भा महादेवी विश्रुता भुवनत्रये ॥

22.18

प्रमादाल्लोपम् आयाते सिद्धे समयमण्डले
साधकस्य भवेद् ग्लानिः क्लिष्टो विघ्नैः प्रबाध्यते ॥

22.19

का गतिस् तस्य देवेश कथं शुद्धिम् अवाप्नुयात्
तम् आचक्षस्व सर्वज्ञ समयघ्नः शुध्यते यथा ॥

22.20

अट्टहासादितः कृत्वा राजगृहम् अपश्चिमम्
आयुधैः सहितां देवीं क्षेत्रपालसमन्विताम् ॥

22.21

क्षेत्रोपक्षेत्रसन्दोहैः सेवनान् निर्मलो भवेत्
अथाशक्तः प्रमादी वा पीठसङ्कीर्तनात् प्रिये ॥

22.22

सम्यक् शुद्धिम् अवाप्नोति प्रातर् उत्थाय यः पठेत्
तद् अहं सम्प्रवक्ष्यामि समयानां विशुद्धये ॥

22.23

अट्टहासे कदम्बस्थां सौम्यास्यां वज्रधारिणीम्
महाघण्टसमोपेतां प्रणमामि सिवङ्करीम् ॥

22.24

चरित्रायां करञ्जस्थां कृष्णाख्यां शक्तिधारिणीम्
महाबलसमोपेतां प्रणमामि सुसिद्धिदाम् ॥

22.25

अग्निकेन समोपेतां दण्डहस्तां नगौकसाम्
कोलागिर्ये महालक्ष्मीं नौमि लक्ष्मीविवर्धनीम् ॥

22.26

ज्वालामुखीं श्रीजयन्त्यां निम्बस्थां खड्गधारिणीम्
महाप्रेतसमोपेतां नौमि सर्वार्थसिद्धिदाम् ॥

22.27

अश्वत्थस्थां महामायाम् उज्जैन्यां पाशधारिणीम्
महाकालसमोपेतां नौमि सर्वार्थसिद्धिदाम् ॥

22.28

उडुम्बरतलावस्थां वायुवेगां ध्वजायुधाम्
प्रयागे पवनोपेतां नौमि शत्रुविनाशनीम् ॥

22.29

वाराणस्यां तु तालस्थाम् ऊर्ध्वकेशीं गदायुधाम्
प्रणम्य शिरसा देवीं शाङ्करीं शाङ्करान्विताम् ॥

22.30

कर्णमोटीं वटस्थां तु सशूलां हेतुकान्विताम्
श्रीकोटे श्रीपदां नौमि राज्यसम्पददायिनीम् ॥

22.31

विरजायाम्बिकदेवीं मुद्रापट्टिशधारिणीम्
अनलेन समोपेतां प्रणमामि जयावहाम् ॥

22.32

ऐरुड्याम् अग्निवक्त्रां तु वज्रशक्तिधरां शुभाम्
घण्टारवसमोपेतां नमामि रिपुनाशनीम् ॥

22.33

मुषलायुधहस्तां तु महाजङ्घसमन्विताम्
नमामि शत्रुभङ्गार्थे पिङ्गाक्षीं हस्तिनापुरे ॥

22.34

एलापुरे खरास्यां तु पाशहस्तां महाबलाम्
गजकर्णसमोपेतां नौमि दुष्टप्रमर्दनीम् ॥

22.35

काश्मर्यां चैव गोकर्णां मुद्रालकुटधारिणीम्
तडिज्जङ्घसमोपेतां नमामि रिपुमर्दनीम् ॥

22.36

करालेन समोपेतां नमाम्यङ्कुशधारिणीम्
क्रमणीं मरुदेशे तु त्रैलोक्याकृष्टिकारिकाम् ॥

22.37

रोमजङ्घसमोपेतां नगरे तु हलायुधाम्
चैत्रकच्छनिवासां तु नमामि धनसिद्धये ॥

22.38

कुम्भकेन समोपेतां खट्वाङ्गकरभूषिताम्
नमामि पापशुद्ध्यर्थं चामुण्डाम् पुण्ड्रवर्धने ॥

22.39

परस्तीरे प्रसन्नास्यां वज्रशृङ्खलधारिणीम्
नमामि त्रिजटोपेतां भेदस्तम्भनकारिकाम् ॥

22.40

पृष्ठापुरे विद्युन्मुखीं दण्डशक्त्यायुधोद्यताम्
नमामि घनरवोपेतां भेदजृम्भनकारिकाम् ॥

22.41

उल्कामुखसमोपेतां कुहुद्यां तु महाबलाम्
मुद्रालकुटधारिण्यां नौमि दुष्टाङ्गभञ्जनीम् ॥

22.42

पिशिताशसमोपेतां नौमि कट्टारिकोद्यताम्
सोपारे अग्निवक्त्रां तु अमित्रपशुदारिणीम् ॥

22.43

क्षीरिके लोकमातां तु खड्गहस्तां नमाम्य् अहम्
महामेरुसमोपेतां महतार्तिनिकृन्तनीम् ॥

22.44

वज्रायुधधरां सौम्यां भीमाननसमन्विताम्
स्तम्भाकृष्टिकरीं देवीं मायापुर्यां तु कम्पिनीम् ॥

22.45

महाक्रोधसमोपेतां पूतनाम्रातिकेश्वरे
गदाहस्तायुधां नौमि ताडनाकृष्टिकारिकाम् ॥

22.46

राजगृहे भग्ननासां महाकर्णसमन्विताम्
वज्रशक्तिधरां नौमि अशेषफलदायिकाम् ॥

22.47

क्षेत्रोपक्षेत्रसन्दोहे स्थितभूचक्रमातराम्
क्षेत्रपालसमोपेतां कीर्तयेद् यः समाहितः ॥

22.48

प्रातर् उत्थाय मन्त्रज्ञः स्वप्नकाले ऽथवा सुधीः
युक्तो ऽपि पातकैर् घोरैर् मातॄणां सम्मतो भवेत् ॥

22.49

मातृहा पितृहा चैव ब्रह्मघ्न गोघ्न एव च
वीरद्रव्यापहारी च प्रमादात् समयच्युतः ॥

22.50

मन्त्राचारविलुप्तो ऽपि पीठसङ्कीर्तनात् प्रिये
पापकञ्चुकम् उत्सृज्य नैव पश्यति दुर्गतिम् ॥

22.51

यः पुनः शुद्धभावात्मा त्रिष्कालं परिवर्तयेत्
प्राप्नोति चिन्तितान् कामान् स्त्रीणां भवति वल्लभः ॥

22.52

कुण्डे ऽथ मण्डले वाथ प्रतिमायां पटे ऽपि वा
लिङ्गे दक्षिणमूर्तौ वा जलमध्ये गतो ऽपि वा ॥

22.53

त्रिष्कालम् एककालं वा यः पठेद् यस् तु भावितः
विषशस्त्रज1आग्निभ्यो व्याधिभूतग्रहैर् अपि ॥

22.54

अजितः सुचिरं कालं जायते निरुपद्रवः
महाभये समुत्पन्ने कपिलागोमयेन तु ॥

22.55

चतुर्दिक्षु चतुर्विंश कारयेन् मण्डलानि तु
पूर्वम् उत्तरतश् चैव वारुण्यां दक्षिणेन तु ॥

22.56

षट्कं षट्कं तु कर्तव्यं तत्र पूज्य क्रमेण तु
श्मशानकल्पवृक्षे तु योगिन्यः क्षेत्रपास् तथा ॥

22.57

पूर्वे तु श्वेतपुष्पैस् तु दक्षिणे पीतपुष्पकैः
पश्चिमे रक्तपुष्पैस् तु उत्तरे कृष्णपुष्पकैः ॥

22.58

सायुधान् श्वेतपुष्पैस् तु गन्धैर् धूपैर् मनोरमैः
मध्ये तु कलशं स्थाप्य दिव्यतोयपरिप्लुतम् ॥

22.59

चतुर्विंशति दीपांश् च स्थाने स्थाने प्रदापयेत्
चतुर्विंशति पीठांश् च क्रमेण परिवर्तयेत् ॥

22.60

अहोरात्रोषितो भूत्वा निशाम् एकां सुयन्त्रितः
प्रभाते विमले मन्त्री वीरभोज्यं तु कारयेत् ॥

22.46

राजगृहे भग्ननासां महाकर्णसमन्विताम्
वज्रशक्तिधरां नौमि अशेषफलदायिकाम् ॥

22.47

क्षेत्रोपक्षेत्रसन्दोहे स्थितभूचक्रमातराम्
क्षेत्रपालसमोपेतां कीर्तयेद् यः समाहितः ॥

22.48

प्रातर् उत्थाय मन्त्रज्ञः स्वप्नकाले ऽथवा सुधीः
युक्तो ऽपि पातकैर् घोरैर् मातॄणां सम्मतो भवेत् ॥

22.49

मातृहा पितृहा चैव ब्रह्मघ्न गोघ्न एव च
वीरद्रव्यापहारी च प्रमादात् समयच्युतः ॥

22.50

मन्त्राचारविलुप्तो ऽपि पीठसङ्कीर्तनात् प्रिये
पापकञ्चुकम् उत्सृज्य नैव पश्यति दुर्गतिम् ॥

22.51

यः पुनः शुद्धभावात्मा त्रिष्कालं परिवर्तयेत्
प्राप्नोति चिन्तितान् कामान् स्त्रीणां भवति वल्लभः ॥

22.52

कुण्डे ऽथ मण्डले वाथ प्रतिमायां पटे ऽपि वा
लिङ्गे दक्षिणमूर्तौ वा जलमध्ये गतो ऽपि वा ॥

22.53

त्रिष्कालम् एककालं वा यः पठेद् यस् तु भावितः
विषशस्त्रज1आग्निभ्यो व्याधिभूतग्रहैर् अपि ॥

22.54

अजितः सुचिरं कालं जायते निरुपद्रवः
महाभये समुत्पन्ने कपिलागोमयेन तु ॥

22.55

चतुर्दिक्षु चतुर्विंश कारयेन् मण्डलानि तु
पूर्वम् उत्तरतश् चैव वारुण्यां दक्षिणेन तु ॥

22.56

षट्कं षट्कं तु कर्तव्यं तत्र पूज्य क्रमेण तु
श्मशानकल्पवृक्षे तु योगिन्यः क्षेत्रपास् तथा ॥

22.57

पूर्वे तु श्वेतपुष्पैस् तु दक्षिणे पीतपुष्पकैः
पश्चिमे रक्तपुष्पैस् तु उत्तरे कृष्णपुष्पकैः ॥

22.58

सायुधान् श्वेतपुष्पैस् तु गन्धैर् धूपैर् मनोरमैः
मध्ये तु कलशं स्थाप्य दिव्यतोयपरिप्लुतम् ॥

22.59

चतुर्विंशति दीपांश् च स्थाने स्थाने प्रदापयेत्
चतुर्विंशति पीठांश् च क्रमेण परिवर्तयेत् ॥

22.60

अहोरात्रोषितो भूत्वा निशाम् एकां सुयन्त्रितः
प्रभाते विमले मन्त्री वीरभोज्यं तु कारयेत् ॥

22.61

ततः क्षमापयेत् पीठान् प्रणिपत्य पुनः पुनः
निर्विघ्नस् तु ततो मन्त्री क्षिप्रं भवति सिद्धिभाक् ॥

22.62

उपसर्गग्रहादिभ्यः क्षयकुष्ठज्वरादिभिः
मुच्यते सर्वरोगैश् च धनवान् अपि जायते ॥

22.63

कन्या मनेप्सितान् कामान् लभते चाभिषेकतः
पुत्रार्थी लभते पुत्रान् कामुकः सुभगो भवेत् ॥

22.64

विद्यार्थी लभते विद्यां वणिग् वै लाभम् अश्नुते
मन्त्राराधनशीलश् च जायते निरुपद्रवः ॥

22.65

योगाभ्यासरतो नित्यं प्राप्य सिद्धिं परं ययौ
द्वीपाम्नायप्रसङ्गेन सर्वम् एतत् प्रकाशितम् ॥

22.66

समस्तव्यस्तव्याप्तिस् तु क्षेत्रोपक्षेत्रसंयुतम्
यत् त्वया पृच्छितं सर्वं कालज्ञानं कुजेश्वरि ॥

22.67

तद् अहं सम्प्रवक्ष्यामि भक्तानां भक्तिवत्सले
सर्वं सम्पादितं तुभ्यम् आज्ञानन्दक्रमार्णवम् ॥

22.68

इदानीं शृणु कल्याणि कालचक्रं यथा स्थितम् ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc