भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 21

21.1

लक्षाचारमनोरूपाः शक्तयो वीर्यसंस्थिताः
रुद्रशक्तिसमावेशास् ताभिर् आत्मनिबृंहणम् ॥

21.2

शिवचैतन्ययोगेन शक्तिचैतन्यबृंहणम्
शक्तिचैतन्ययोगेन जीवचैतन्यबृंहणम् ॥

21.3

जीवचैतन्ययोगेन मन्त्रचैतन्यबृंहणम्
मन्त्रचैतन्ययोगेन पिण्डचैतन्यबृंहणम् ॥

21.4

पिण्डचैतन्ययोगेन बाह्याचारस्य बृंहणम्
चैतन्येन विना सर्वम् अस्वतन्त्रं शिलादिवत् ॥

21.5

निष्क्रियं चेतनाहीनं मृतदेहोपमं प्रिये
अग्निचैतन्ययोगेन जलम् अप्य् अत्र दाहकम् ॥

21.6

तस्मात् सर्वप्रयत्नेन विद्यावीर्यचिदात्मकम्
धरामण्डलगर्भे तु द्वीपदेशान्तरं यजेत् ॥

21.7

द्वादशैवात्र योगिन्यो द्वादशारे प्रपूजयेत्
कर्णिकायां यजेद् देवं शब्दराशिं सलक्षणम् ॥

21.8

कुमारी सिंहलद्वीपं सुवर्णं च तृतीयकम्
कर्णप्रावरणं चान्यं स्वामुखं देशम् उत्तमम् ॥

21.9

कुलूतम् ओड्डियानं च एभिर् देशैर् यजेत् सुधीः
जालन्धरं च विख्यातम् एकपादं तथापरम् ॥

21.10

पारसौकुलविख्यातं कुशद्वीपं च शाल्मली
पर्णद्वीपं कुमाराख्यं यवद्वीपं तथापरम् ॥

21.11

देशं तु कामरूपाख्यं पुष्करद्वीपम् एव च
अपरं कटाहद्वीपं चीनदेशम् अतः परम् ॥

21.12

चन्द्रद्वीपं जनद्वीपं रत्नद्वीपं सुशोभनम्
रसद्वीपं च गोमेदं गर्भोदं सूर्यद्वीपकम् ॥

21.13

आसवद्वीपं विख्यातं मरुदेशसमन्वितम्
वसन्तं महासरद्वीपम् अमृतद्वीपम् एव च ॥

21.14

द्वीपम् आनन्दगन्धर्वौ अग्निद्वीपं महावनम्
अङ्गारद्वीपपर्यन्तं नग्नद्वीपावसानगम् ॥

21.15

एषां द्वीपाधिपानां च नामं वक्ष्यामि तच् छृणु
क्षेत्रपाला महारौद्रा रक्षां कुर्वन्ति साधके ॥

21.16

विद्रुमो गस्तिनश् चण्डस् तथा यक्षो गणाधिपः
महाभृगुर् जयो नाम महाजिह्वस् तु विक्रमः ॥

21.17

ध्वाङ्क्षश् च जयभद्रश् च पीठे पीठे समासते
महादिव्यो दधीचिश् च कुमारीशस् तथापरः ॥

21.18

महाधंष्ट्रः करालीशः श्रुतीधरो निगद्यते
महाध्वाङ्क्षो महानन्दी सुगन्धी च गोपालकः ॥

21.19

पुष्पदन्तो धनाढ्यश् च विपुलो नन्दकारकः
शुक्रो विडालो द्वाव् एतौ शुकारुणशुभाननौ ॥

21.20

रतिप्रियसुरप्रियौ द्वौ चित्राङ्गसुदुर्जयौ
रसनो विडालः प्रद्युम्नः क्षेत्रपालाः कुलक्रमे ॥

21.21

मनोहरा रूपिणी देवी चित्रा चित्ररथा तथा
चित्राङ्गी चित्ररेखा च विचित्रा चित्रना शुभा ॥

21.22

चित्राक्षी चित्ररूपा च सुभद्रा कामदा शुभा
ककारस्य इमा देव्यः कन्यद्वीपाधिकरिणी[ः] ॥

21.23

क्षेत्रपालो महाविष्णुश् चक्रहस्तो महाबलः
क्रूरा च पिङ्गला चैव खड्गिका लम्पटा सती ॥

21.24

दंष्ट्राली राक्षसी ध्वाङ्क्षी लोलुपा लोहितामुखी
बह्वाशी च विरूपा च लम्पटा आमिषप्रिया ॥

21.25

खकारस्य इमा देव्यः सिंहलद्वीपम् आश्रिताः
क्षेत्रपालो महायोगी अगस्तिश् च महा-ऋषिः ॥

21.26

सुप्रकीर्णा प्रकीर्णा च लम्बा लम्बमुखी तथा
लम्बोष्ठी दीर्घदंष्ट्रा च लम्बजा प्राणहामुखी ॥

21.27

गजकर्णा सुकर्णा च महाकाली सुभीषणा
वातवेगा रवा घोरा गकारे देवताः स्थिताः ॥

21.28

स्वर्णद्वीपाधिकारिण्यश् चण्डनाथो महाबलः
घनरवा घोरघोषा महाघोषातिघोषिका ॥

21.29

घण्टा घण्टेश्वरी घोरा महाघण्टा सुघण्टिका
अतिघण्टातिघोरा च कलकलारवेति च ॥

21.30

घकारे देवता ह्य् एताः कर्णाप्रावृतमण्डले
यक्षराजा महादेवः क्षेत्रपालो महाबलः ॥

21.31

विभूतिर् भोगदा कान्तिः खड्गिनी पद्मिनी तथा
गान्धारि योगमाता च सुधारा परमोज्ज्वला ॥

21.32

सेहारी मांसहारी च प्राणहारी बलापहा
ऋच्छिका गृध्रतुण्डी च रेवती रङ्गिसंज्ञिका ॥

21.33

ङकारे देवता ह्य् एताः स्वामुखे मण्डले स्थिताः
राज्यं पालयते देशे कवर्गे उत्तरापथे ॥

21.34

क्षेत्रपालो गणपति रक्षां कुर्वन्ति साधके
चण्डा चण्डमुखी चण्डा चण्डवेगा महारवा ॥

21.35

भृकुटी चण्डवीर्या च चण्डभ्रू चण्डनायिका
चञ्चला चलवेगा च चलजिह्वा चलेश्वरी ॥

21.36

चकारे देवता ह्य् एताः क्षेत्रपालो महाजयः
कुलूतदेशवासिन्यो रक्षां कुर्वन्ति साधके ॥

21.37

कालरात्री च वेताली कङ्काली च करङ्किणी
किङ्किणी चण्डघोषा च अट्टहासा महारवा ॥

21.38

चण्डमातङ्गी चण्डाली सूकरी कुक्कुटी तथा
गन्धारी डोम्बी चम्पाक्षी छकारे देवताः स्मृताः ॥

21.39

नायिका ओड्डियाने तु क्षेत्रपालो महाभृगुः
ज्वलिनी ज्वालिनी चैव महाज्वालावती प्रभा ॥

21.40

तेजा तेजवती वह्निः सुतेजा निर्मलोज्ज्वला
ज्वालावती कराली च विस्फुलिङ्गा शिखाशिखी ॥

21.41

जकारे देवता राज्ञः सर्वसत्त्ववशङ्करी[ः]
जालन्धरे च देवेशे क्षेत्रपालो महाजिह्वः ॥

21.42

सुभद्रा भीमभद्रा च भद्रा चैव शुभानना
भीमा भीमवती कान्ती कङ्काली च करालिनी ॥

21.43

भद्रकाली सुकाली च विकटा कङ्कटेति च
चार्वाकी लम्पटी चैव झकारे देवताः स्मृताः ॥

21.44

मण्डले एकपादे तु महामाया बलोत्कटाः
चित्रसेनो महावीरः क्षेत्रपालो महाभयः ॥

21.45

सुभटोद्भटा विकटा कुटिला चैव कङ्कटा
वीरमाता सुवीरा च खड्गिनी शूलिनी खरा ॥

21.46

छुच्छुन्दरी विडाली च ञकारे देवतागणाः
पारसे तु महादेव्यो अधिकारं प्रकुर्वते ॥

21.47

ध्वाङ्क्षो नामेति विख्यातः क्षेत्रपालो भयानकः
राजा दक्षिणदेशे तु चवर्गे च क्रमीश्वरी ॥

21.48

मृगा च शशिरेखा च हरिणी रोहिणी तथा
अमृतोद्भवा पर्णजीवी जीवरक्षा सुजीविका ॥

21.49

हरिणाक्षी सुजीवा च चन्द्रोदयामृतोद्भवा
टकारे देवता ह्य् एताः कुशद्वीपे व्यवस्थिताः ॥

21.50

क्षेत्रपालो जयभद्रः कुशद्वीपप्रपालकः
व्योमनी व्योमरूपा च व्योमव्यापी शुभोदया ॥

21.51

ग्रहचारी सुचारी च विषहारी विषान्तिका
जृम्भोद्याना च फेत्कारी देवकी दुर्जया महा ॥

21.52

ठकारे देवताः पूज्याः शाल्मलीद्वीपम् आश्रिताः
क्षेत्रपालो महादिव्यः कपालहस्तो महाबलः ॥

21.53

चञ्चला चपला चण्डा डमरी डामरी शुभा
डिण्डिनी मुण्डिनी मुण्डा शाकिनी डाकिनीति च ॥

21.54

कर्तनी काकिनी देवी हट्टकी डाकिनी महा
डकारे देवता ह्य् एताश् चीनद्वीपे व्यवस्थिताः ॥

21.55

दधीचिः क्षेत्रपालस् तु तत्र देशे प्रपूजयेत्
यमदंष्ट्रा महादंष्ट्रा अन्त्रमाला करालिका ॥

21.56

विकराला करालिन्या तालजङ्घा सुजङ्घिका
लोहजङ्घातिजङ्घा च महावेगातिवेगगा ॥

21.57

वज्रशङ्खी नटी चैव बला चैव तथापरा
ढकारे देवता नाम कुमारीद्वीपम् आश्रिताः ॥

21.58

क्षेत्रपालः कुमारीशो रक्षपालस् तथैव च
बला चातिबला चैव अजिता चापराजिता ॥

21.59

जया च विजया देवी जृम्भनी स्तम्भनी तथा
अन्धनी मोहनी माया निगडा कीलनी तथा ॥

21.60

यवद्वीपे स्थिता देव्य अधिकारं प्रकुर्वते
महादंष्ट्रस् तु विख्यातः क्षेत्रपालो महाबलः ॥

21.61

णकारे देवता ह्य् एताः कामरूपनिवासिताः
दन्तुरा रौद्रभाषा च अभ्रमाल कुलासुभा ॥

21.62

चलजिह्वाग्रणेत्रा च रुरु[र्] हूंकारिका तथा
खादका रूपनाम च संहारी च क्षयान्तिका ॥

21.63

कण्डनी पेषणी चैव महाग्रासी कृतान्तिका
तकारे देवताः ख्याताः पुष्करद्वीपम् आश्रिताः ॥

21.64

नायका देवता नाम क्षेत्रपालः श्रुतीधरः
डम्भकी डिम्भिडिम्भा च कैवर्तरजलेहिका ॥

21.65

द्रवणी द्रावणी क्षोभा प्लवनी प्लावनीति च
मदोत्कटा मदक्षोभा मदवाहा महाबला ॥

21.66

कामसन्दीपनी देवी अतिरूपा मनोहरा
थकारे देवता नाम संस्थिता[ः ] परतीरके ॥

21.67

क्षेत्रपालो महाध्वाङ्क्षः खड्गहस्तो महाबलः
अरुणा घोषदेवी च रेवती घोरदायिका ॥

21.68

स्तम्भनी घोररक्षा च घोररूपा च घोरिणी
घोरघोरतराघोरा घोरा विकटनायिका ॥

21.69

वानरी क्रोष्टकी चैव सुरासवमधुप्रिया
दकारे देवता राजाश् चीनदेशे सुवासिताः ॥

21.70

क्षेत्रपालो महानन्दी शूलहस्तो महाबलः
भीमरावा सुरावा च संस्तारी सवराक्षिका ॥

21.71

स्तम्भनी रोषणी रौद्रा रुद्रवत्या छलापहा
महाशक्तिः क्षान्तिशीला वज्रतुण्डी वृकोदरी ॥

21.72

धकारे देवता ह्य् एताः पूजनीयाः सदा बुधैः
क्षेत्रपालः सुगन्धी च गन्धर्वो वीणहस्तकः ॥

21.73

चन्द्रद्वीपे सुवासिन्यो आर्तानाम् आर्तिनाशनी[ः]
कलनी कृन्तनी काली कालसंवर्तनी कला ॥

21.74

अन्तेष्ठी च प्रतिष्ठा च शान्तिपुष्टिकरी तथा
जया धृतिकरी सौम्या कामदा शुभदानना ॥

21.75

सुतेजा काममतिका नकारे देवताः शुभाः
जनद्वीपरता नित्यं साधकानां तु वत्सलाः ॥

21.76

क्षेत्रपालस् तु गोपालो धर्मज्ञः सत्यवादिनः
धर्मा धर्मवती शीला पापहा धर्मवर्धनी ॥

21.77

धर्मरक्षितवार्ता च धर्माधर्मवतीति च
धर्मकर्ता धर्मप्रिया धर्मसन्दीपनीति च ॥

21.78

पकारे देवता राजा रत्नद्वीपार्णवे स्थिताः
क्षेत्रपालो महाकायस् तस्मिन् देशे ऽ धिपो महान् ॥

21.79

सुमतिर् दुर्मतिर् मेधा विमला मनविकाशिनी
शुद्धिर् बुद्धिर् मतिः कान्तिर् बलोत्साहनवर्धनी ॥

21.80

बला चातिबला चैव प्राणवृद्धिकरी परा
निर्लेपा निर्घृणा माया सर्वपापक्षयङ्करी ॥

21.81

फकारे देवता राजा सरद्वीपे सुवासिनः
पुष्पदन्तस् तु विख्यातः क्षेत्रपालो महाबलः ॥

21.82

रक्ता चैव विरक्ता च उद्वेगा शोकवर्धनी
कामतृष्णा क्षुधा मोहा निद्रालसभया जरा ॥

21.83

सुकृष्णा रोदनी कुष्मा मलाङ्गी शिशुनाशनी
बकारे देवता राजा ह्य् एता गोमेदमण्डले ॥

21.84

धनदो नाम विख्यातः क्षेत्रपालो महायशः
तृष्णा च कामदा भोगा निर्दुःखा सुखदा तथा ॥

21.85

आनन्दा च सुनन्दा च महानन्दा शुभङ्करी
वीतरागा महोत्साहा जितरागा मनोरमा ॥

21.86

भकारे देवता ह्य् एता मध्ये गर्भोदमण्डले
विपुलो नाम विख्यातः क्षेत्रपालो महाबलः ॥

21.87

मनोन्मनी मनःक्षोभा मदोन्मत्ता मदाकुला
मदा गजमदा नाम कामानन्दसुविह्वला ॥

21.88

महावेगा सुवेगा च महावेगा क्षणापहा
क्रमणी चैव नामा च क्रामणी च तथापरा ॥

21.89

सूर्यद्वीपे महायोगी[ः] सर्वाः कनकपिङ्गलाः
मकारस्य इमा देव्यो राजा अधिपतिर् महान् ॥

21.90

आनन्दो नाम विख्यातः क्षेत्रपालः सदा स्थितः
हयवेगा सुवेगा च अतिवेगवती महा ॥

21.91

चक्रवेगा विरुद्धा च चलचित्तवती मती
रोदनी क्षोदनी बाला ऽतिरोषा कलहप्रिया ॥

21.92

विद्रुता त्रासनी देवी मनोवेगा च चञ्चला
यकारे देवता राजा आसवद्वीपसंस्थिताः ॥

21.93

शुक्रो नामेति विख्यातः क्षेत्रपालो महाबलः
विद्युज्जिह्वा महाजिह्वा शृङ्गाटा कुटिला स्फुटा ॥

21.94

ज्वाला चैव सुज्वाला च महाज्वाला तथैव च
ज्वालावती विस्फुलिङ्गा ज्वालाभस्मक्षयान्तका ॥

21.95

रकारमध्यगा देव्यो मरुदेशाधिपो महान्
विडालः क्षेत्रपालश् च महाबलपराक्रमः ॥

21.96

उल्लेखा च पताका च भोगा भोगवती महा
महाभोगातिभोगा च भोगाढ्या भोगपारगा ॥

21.97

ऋद्धिर् वृद्धिर् धृतिः कान्तिर् लकारे देवताः शुभाः
वसन्तद्वीपवासिन्यः क्षेत्रपालश् च कारुणी ॥

21.98

वरिष्ठा च परा दिव्या अमृता तु फलाशिनी
हरिणाक्षी सुवर्णा च कनकरेणुपिञ्जरा ॥

21.99

रत्ना च रत्नद्वीपा च सुद्वीपा रत्नमालिनी
रत्नशोभा महाशोभा रोमशोभा पराद्युतिः ॥

21.100

वकारे देवता ह्य् एताः सरद्वीपाधिवासिता[ः]
क्षेत्रपालस् तु विख्यातः शुभाननो बलोत्कटः ॥

21.101

सवरी बर्बरी गृध्री घण्टकर्णा खरानना
हयग्रीवा च जङ्घा च सर्वग्रासा कृतान्तका ॥

21.102

सर्वाशी च महाभक्षा महादंष्ट्रातिरौरवा
शकारे देवता नाम कथिताश् च महायशाः ॥

21.103

अमृतासवद्वीपे च क्षेत्रपालो रतिप्रियः
रागा रागवती क्रोधा महाभोगा च रौरवा ॥

21.104

क्रुद्धनी रोषणी कलहा कलकाली कलान्तिका
दुर्भेद्या दुर्भटा चैव दुमिरीक्षा सुभीषणा ॥

21.105

यमान्तका कली नाम षकारे देवताः शुभाः
आनन्दद्वीपवासिन्यो देव्यो अक्षययौवनाः ॥

21.106

देवश् च क्षेत्रपालो ऽत्र सुरासववरप्रियः
नटी नाटी कुनाटी च वाटकी हाटकी विटी ॥

21.107

कङ्कटा विकटा चैव सुभटा च भटोद्भवा
सकारे देवता नाम गान्धर्वद्वीपवासिनः ॥

21.108

वीणावंशरता देवी नोदं गन्धर्वकिन्नरैः
चित्राङ्गः क्षेत्रपालश् च मेरूर्ध्ववलये स्थितः ॥

21.109

नादाक्षी नादरूपा च सर्वाकारी गमागमा
अन्तचारी सुचारी च ऊर्ध्वनादी सुवाहिनी ॥

21.110

संयोगा च वियोगा च हंसाख्या च विसालिनी
अङ्गारद्वीपवासिन्यो हकाराक्षरसम्भवाः ॥

21.111

विडालो नाम विख्यातः क्षेत्रपालो महाबलः
सर्वग्रासी कृतान्ती च पवनी पावनी तथा ॥

21.112

भेदनी छेदनी चैव सर्वकारी क्षुधाशनी
उच्छुष्मा देवगान्धारी भस्मान्ता वडवानला ॥

21.113

बह्वाशी अग्निद्वीपा च क्षमा क्षेमकरी परा
क्षकारे देवता ह्य् एता नग्नद्वीपरताः प्रिये ॥

21.114

प्रद्युम्नः क्षेत्रपालश् च महाबलपराक्रमः ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc