भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 20

20.1

पुरा मह्यं त्वया देव द्वीपाम्नायः प्रचोदितः
परमार्थोपदेशेन यथा त्व् एवं वद प्रभो ॥

20.2

सत्येदं साधु देवेशि यत् त्वया परिपृच्छितम्
द्वीपाम्नायावतारं तु सुगोप्यं प्रकटामि ते ॥

20.3

आद्यकल्पावतारे तु उद्यानार्णवमध्यतः
कृष्णरक्तजनाकीर्णं देदीप्यार्चिसमप्रभम् ॥

20.4

ओघसृष्टेस् तु संस्थानं मातङ्गद्वीपम् उत्तमम्
द्वितीये ऽत्र परे कल्पे सिन्दूरारुणसप्रभम् ॥

20.5

पीतरक्तजनाकीर्णं ब्रह्मघ्नं द्वीपनायकम्
तेजःसृष्टेस् तु संस्थानं करालाग्निसमप्रभम् ॥

20.6

तृतीये द्वापरे कल्पे कुसुम्भोदकसन्निभम्
पीतारुणजनाकीर्णं रजसा द्वीपम् उज्ज्वलम् ॥

20.7

क्रीडासृष्टेस् तु संस्थानं चण्डोग्राक्षिसमप्रभम्
उद्यानभैरवाम्भोभिः कल्लोलालीसमाकुलम् ॥

20.8

महाकल्पे चतुर्थे तु पद्मरागसमप्रभम्
श्वेतरक्तजनाकीर्णं विशुद्धामोघसम्पदम् ॥

20.9

इच्छासृष्टेस् तु संस्थानम् अत्रोद्यानं महावनम्
गन्धमाल्यसुपुष्पाढ्यं महोच्छुष्मोपशोभितम् ॥

20.10

पञ्चमे दिव्यकल्पे तु चन्द्रकोटिसमप्रभम्
चन्द्रकान्तिमयं दिव्यं विशुद्धोदधिमध्यगम् ॥

20.11

कामानन्दजनाकीर्णं चतुःसृष्टिप्रवर्तकम्
अनेकानन्दसम्पन्नं चन्द्रद्वीपगुणावृतम् ॥

20.12

चतुर्वर्णगुणानन्दं चतुर्वर्गफलोदयम्
चतुर्मायाजनातीतं चतुर्थान्तमृतात्मकम् ॥

20.13

ज्ञानक्रियाम् अधिष्ठानम् अव्यक्ताव्यक्तरूपिणम्
सृष्टिसन्दोहम् आनन्दं चन्द्रद्वीपगुणास्पदम् ॥

20.14

पञ्चद्वीपोपचारो ऽयम् उपद्वीपान्य् अतः शृणु
चत्वार्य् एव सबीजानि व्यक्तिं यान्ति कुलाध्वरे ॥

20.15

उपद्वीपारुणं चाद्यं वारुणं तु द्वितीयकम्
नरसिंहं तृतीयं तु लोकालोकं चतुर्थकम् ॥

20.16

द्वीपोपद्वीपसम्भूतं सर्वम् एतच् चराचरम्
व्यक्ताव्यक्तं तु तं यस्मात् कारणं तं निगद्यते ॥

20.17

परे चत्वारि द्वीपानि चत्वार्य् एवं पराणि च
चन्द्रद्वीपं परं तेभ्यो मध्यस्थं व्यक्तिकारणम् ॥

20.18

द्वीपसृष्टिपरानन्दम् उद्यानार्णवमध्यगम्
लक्षितव्योपदेशेन शेषान्यद् विस्तृतं पुरा ॥

20.19

द्वीपानन्दं कथं देव कथितं तु मया श्रुतम्
तथापि मे मनोग्लानिः कथयस्व यथा स्फुटम् ॥

20.20

व्याप्यव्यापकभावेन यत्स्थाने संस्थितानि तु
यस्माद् उत्पत्तिसंस्थानम् एतत् सर्वं वद प्रभो ॥

20.21

साधु साधु महाभागे साधु मालिनि सर्वथा
पृच्छितं शृणु कल्याणि निरवद्यं वदामि ते ॥

20.22

आदौ षोडश पीठानि पीठे द्वीपसमुद्भवः
तानि द्वादशधा विद्धि एकैकं च पृथक् पृथक् ॥

20.23

कुलचक्रसमायुक्तं त्रिःप्रकारं विलक्षयेत्
पीठोपपीठसंयुक्तं क्षेत्रसन्दोहलक्षितम् ॥

20.24

उपक्षेत्रोपसन्दोहे द्वे द्वे पीठसमावृते
लक्षितव्यानि यत्नेन उपास्य गुरवं प्रिये ॥

20.25

चतुस्त्रिंशति द्वीपानि द्वीपस्थं त्रिचतुष्टयम्
मातराणां वरारोहे एकैकस्मिन् व्यवस्थितम् ॥

20.26

दूरस्थानि पुरस्थानि देहस्थानि विलक्षयेत्
तैर् विना साधनं सिद्धिर् यत्नेनापि न जायते ॥

20.27

इतरस्य बहिस्थानि क्षेत्रस्थानि तु साधके
देहस्थानि तु तस्यैव किं त्व् एवं हि स मुक्तिभाक् ॥

20.28

कुरुते यत्र संस्थानं क्वचित् साधकपुङ्गवः
साधनं मन्त्रयोगस्य लिङ्गसंस्थापनेऽपि वा ॥

20.29

प्रतिमा चाधिकारार्थं ज्ञात्वा स्थानं समाश्रयेत्
अन्यथा नैव भुक्तिस् तु द्वन्द्वद्वेषो रुजान्वितः ॥

20.30

द्वीपं द्वीपाधिपं देव्या द्वीपनाथसमन्वितम्
पीठभिन्नक्रमं ज्ञात्वा सिध्यते ह्य् अविचारतः ॥

20.31

क्षेत्रग्रामपुरस्यैव पीठस्य नगरस्य वा
ज्ञात्वा पञ्चसु संस्थानं संस्थानं कारयेत् तदा ॥

20.32

पञ्च पञ्च तथा पञ्च पञ्चमान्तं कुलान्तिकम्
चलसौम्ये चतुष्कं तु ईश्वरैकं दिशादितः ॥

20.33

पीठव्यूहवरं मध्ये द्वीपव्यूहं बहिस्थितम्
पुरं नाम भवेद् यत्र तां दिशं तु समाश्रयेत् ॥

20.34

अस्थिगूथावृतं चापि दोषैर् द्विष्टं यथा भवेत्
तथापि भोगम् आप्नोति तत्स्थानन्यासयोगतः ॥

20.35

नाक्षरेण भवेन् मन्त्रं योगश् चैव गुणान्वितः
अक्षरेणापि मन्त्रस्य किं तु तत्स्थानयोगतः ॥

20.36

मन्त्रस्थापितलिङ्गानि निस्फुराणि यशस्विनि
दृश्यन्ते स्थानहीनानि सिद्धैः संस्थापितानि तु ॥

20.37

स्थानवैकल्यभावेन यस्याश्चर्यं कुलेश्वरि
स्वतेजोदीपितं शम्भुं क्वचिद् दृश्यति निस्फुरम् ॥

20.38

सर्वज्ञं सर्वदं मन्त्रम् अजस्रं भावपूर्वकम्
सर्वदं सर्वकालस्थं कालरूपामृतात्मकम् ॥

20.39

गोपितं सर्वतन्त्रेषु द्वीपाम्नायेन गोपितम्
द्वीपाक्षरं तथा वारं तिथिनक्षत्रसंयुतम् ॥

20.40

साधकाक्षरसंयुक्तं मन्त्रम् एतत् सुरार्चितम्
पीठयुक्तं प्रमेयेन भिद्य पीठेन चेतरम् ॥

20.41

दश-म्-एकादशेनैव कूटस्थं वा समेकतः
पुरस्याद्यक्षरं वापि स्वस्थाने क्षोभकृद् भवेत् ॥

20.42

सर्वस्यापि हि क्षेत्रस्य प्रवेशे जपम् आरभेत्
स्वस्थानात्मकमन्त्रेण स्वस्थानेन पुरं विशेत् ॥

20.43

दिशाम् आलोक्य जप्तव्यं सप्तवारावधि प्रिये
तावत् क्षुभ्यति तत् क्षेत्रं बालवृद्धयुवान् अपि ॥

20.44

स्थितिर् वै यत्र मन्तव्या तत्रैव विधिम् आचरेत्
सकृद् अन्यत्र चोच्चारं जपमानं पुरं विशेत् ॥

20.45

तत्रान्नपानशयनं किञ्चिद् दुःखं न जायते
यः पुनः सर्वभावेन भक्तियुक्तः समभ्यसेत् ॥

20.46

द्वीपस्थानं समास्थाय स्वेष्टमन्त्रस्य साधयेत्
तत्रापि तस्य सिद्धीनि भवन्त्य् अष्टविधा प्रिये ॥

20.47

द्वीपाधिपम् अजानन्तो वर्षपूर्णशतेन वा
तथापि न हि सिध्यन्ति योगाद् ध्यानाच् च मन्त्रिणः ॥

20.48

पीठाधिपतयः प्रोक्ताः षोडशैव वरानने
तैस् तु व्याप्तम् इदं सर्वं चतुस्त्रिंशान्तगोचरम् ॥

20.49

द्वीपाधिपतयः प्रोक्ताश् चतुस्त्रिंशति केवलाः
पीठाधिपतिभिर् युक्ताः पञ्चाश पतयस् तु ते ॥

20.50

आद्यन्तसंस्थितं भद्रे मध्ये लिङ्गस्य लक्षयेत्
पीठग्रामपुरस्यापि लक्षयित्वा निराकुलम् ॥

20.51

पालकस्याक्षरं यत्र यद् इदं न तद् आदिमम्
कस्मात् पीठेषु अधिपाः पीठभिन्नं न पूजयेत् ॥

20.52

न गुरुं नादिमं चान्तं न मध्यं पीठसंयुतम्
केवलं यदि लभ्येत तदाद्यं तु सुरार्चिते ॥

20.53

लिङ्गसंज्ञा तु नामस्य सर्वतो अधिपावृतम्
तस्माद् एकतमं गृह्य लिङ्गमूलं यद् अक्षरम् ॥

20.54

तं तु गृह्य विकल्पेन मध्यान्तं वर्जयेत् प्रिये
एवं ज्ञात्वा ततः सिद्धिर् जायते निर्विकल्पतः ॥

20.55

अविज्ञाय न पूज्येतां यस् तु कुर्वीत साधनम्
मम तुल्यास् तु कुर्वन्ति विघ्नं वै पालकाः प्रिये ॥

20.56

अत्र सारतरं प्रोक्तं निश्चयम् अधिपान् प्रति
श्रुतं देवि त्वया सर्वं नाम पञ्चाशकेष्व् अपि ॥

20.57

अघोर्याडामरे तन्त्रे सूचितो ऽप्य् अस्य निर्णयः
संस्फुटं सर्वभावेन निर्णीतं कुब्जिनीमते ॥

20.58

कथं देव स्थिता देहे पीठद्वीपाधिपाश्रयम्
क्व स्थाने संस्थिता देव एतद् आचक्ष्व निश्चयम् ॥

20.59

शृणु देवि यथा देहे पीठैः षोडशभिः शिरः
आवृतं वंशगुह्यान्तं द्वीपैः कोदण्डकावधिम् ॥

20.60

ग्रीवाधो वांशमार्गेण कन्दोर्ध्वं याव संस्थितम्
पञ्च द्वीपानि देवेशि ब्रह्मण्याधिष्ठितानि तु ॥

20.61

पञ्च नाभिगता भद्रे माहेश्यालङ्कृतास् तु ते
जठरे पञ्च वैष्णव्या कौमार्य् एव हृदि स्थिता ॥

20.62

पञ्चद्वीपान्विता काली कण्ठान्ते संव्यवस्थिता
ऐन्द्र्य् आकाशपदस्था तु चतुष्कपरिवारिता ॥

20.63

चतुर्द्वीपसमायुक्ता चामुण्डा तु भ्रुवोत्तरे
महाकाली तु कोपस्था संहारपथवर्तिणी ॥

20.64

देव्याधिष्ठानद्वीपेषु यो यत्रान्तव्यवस्थितः
दण्डधारी प्रचण्डश् च दंष्ट्राली वज्रतुण्डकः ॥

20.65

त्रिजटी शङ्खतुण्डश् च कपाली त्रिशिरस् तथा
एते वर्गाधिपाः प्रोक्ता अष्टौ वसुमहाबलाः ॥

20.66

यां दिशं संस्थितास् ते वै तन्मुखस् तु प्रपूजयेत्
सबाह्याभ्यन्तरं मत्वा ततो ऽसौ सिद्धिभाजनः ॥

20.67

एष देवि समासेन द्वीपाम्नायः प्रकाशितः
शेषो ऽन्यो विस्तरो ऽप्य् अस्य कुलसारे वदाम्य् अहम् ॥

20.68

विज्ञान ऋद्धिसम्पन्नं ज्ञानमण्डलपूरितम्
तेनेदं श्रीमतं प्रोक्तं भुक्तिमुक्तिप्रदायकम् ॥

20.69

ज्ञातेन तन्त्रसारेण अनुष्ठानं विना प्रिये
भाजनो भुक्तिमुक्तीनां यद्य् एवं गोपयेत् सुधीः ॥

20.70

श्रीमतेन विना युक्ताः खण्डज्ञानविमोहिताः
हस्त्यन्धवद् विभज्यन्ते दृष्तिहीना यतस् तु ते ॥

20.71

आगतं तु गजं श्रुत्वा अन्धवृन्देन सौ वृतः
पुच्छकर्णाङ्घ्रिहस्ताभ्यां पृष्ठकुक्षोदरेषु च ॥

20.72

येन यत्र गजः स्पृष्टस् तद्भावस् तेन मन्त्रितः
पुच्छहस्ता वदन्त्य् एवं गजो ऽयं चामराकृतिः ॥

20.73

कर्णलग्नास् तु सूर्पेव पादलग्नोखलं यथा
भित्तिरूपं तु कुक्षिस्था पृष्ठस्था गृहरूपिणः ॥

20.74

स्तम्भोभौ हस्तलग्नौ तु मुषलौ दन्तिदन्तगौ
एवम् अन्धगना मूढा अन्योन्यं स्पर्धयन्ति ते ॥

20.75

अन्यैश् चक्षुर्युतैस् त्व् एवं युध्यमानाः परस्परम्
तान् दृष्ट्वा हास्यम् आरब्धं तं श्रुत्वा विस्मितास् तु ते ॥

20.76

अथ श्रुत्वा महाहास्यं किमर्थं हसिता वयम्
ऊचुस् त्व् एवाक्षियुक्तेन मा युध्यैवं विमोहिताः ॥

20.77

दृष्टिहीनास् त्व् अहो तुभ्यं हस्तिरूपो ऽन्यथा स्थितः
हस्तिनो ऽङ्गानि सर्वाणि यानि स्पृष्टानि तत्परैः ॥

20.78

पटलान्तरिता दृष्टिर् गत्वा वैद्यम् उपाश्रयेत्
येन पश्यसि सर्वाङ्गं श्रीकुब्जौघमहागजम् ॥

20.79

गजो यथान्धवृन्दस्य तथा ज्ञानं प्रवर्तते
आज्ञाक्रमं विना लोकस् तत्क्रमं कुब्जिनीमते ॥

20.80

कथितं निरवद्यं ते गजस्यावयवो यथा
गजाङ्गन्यायतो यत्र दक्षवामोर्ध्वकौलिके ॥

20.81

सर्वं सम्पादितं तुभ्यम् आज्ञानन्दकुलार्णवम्
इदानीं शृणु कल्याणि कालचक्रं यथास्थितम् ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc