Kubjikamatatantra · अध्याय 19
रूपं तु द्विविधं प्रोक्तं स्थूलसूक्ष्मं प्रकीर्तितम्
स्थूलम् एकविधं भद्रे सूक्ष्मरूपम् अनन्तगम् ॥
कण्ठकूपादितः कृत्वा निरोध्यान्तम् अपश्चिमम्
रूपोपलब्धिसंस्थानं विज्ञानानन्दपूरितम् ॥
प्रमाणं रूपमार्गस्य विंशत्कोट्येकसंस्थितम्
मायावधिस् तु कूपादौ अत्र विज्ञानसम्भवः ॥
एतद् रूपपदैर् व्याप्तं रूपचक्रसमन्वितम्
कोटिशः कोटिशश् चक्रं चक्रे चक्रे चतुष्टयम् ॥
विज्ञानानां वरारोहे प्रभावो ऽस्यानुशीलय
चतुराशीति-म्-एकत्र क्रमात् स्थूलं पृथक् पृथक् ॥
कथयामि यथान्यायं चित्रभान्वादितः प्रिये
द्वितीयं वारुणं रूपं तृतीयं दण्डपाणिकम् ॥
प्राणरूपं चतुर्थं तु हंसरूपं तु पञ्चमम्
षष्ठम् आत्मवतं रूपं सप्तमं शक्तिपूर्वकम् ॥
अष्टमं ब्रह्मणो रूपं नवमं केशवात्मकम्
दसमं तु भवेद् रुद्रं चन्द्रम् एकादशं विधुः ॥
द्वादशं भास्करं रूपम् ईश्वराख्यं त्रयोदशम्
कोदण्डद्वयमध्यस्थं देदीप्यन्तं सुवर्चसम् ॥
कोदण्डतिर्यगौ द्वौ तु वामनौ कुब्जिकात्मकौ
कोदण्डान्तर्गतौ चान्यौ कर्णकुब्जान्तरे स्थितौ ॥
शङ्खरूपधरौ द्वौ तु साङ्ख्ययोगस्य दायकौ
अष्टादशम् अनन्ताख्यं पिङ्गलैकोनविंशमम् ॥
विंशमं सकलीशानं निरोधी चैकविंशमम्
वडवानलम् आसीनम् एकैकं चक्ररूपिणम् ॥
चिन्तयन्तः स्वभावेन अभावपदम् आश्रितः
अकुलेश्वररूपेण विज्ञानप्रभवो भवेत् ॥
यस्य यद् यादृशं रूपं तद् रूपं धरते तु सः
अवान्तरपदस्थस्य पारम्पर्योज्झितस्य च ॥
तस्य चाभ्यासयोगेन न सर्वज्ञपदानुगम्
यस्य यद् यादृशी व्याप्तिस् तत्रस्थस् तत्फलं लभेत् ॥
कारणान्ते महादेवो विभाति किरणोज्ज्वलः
सतताभ्यासयोगेन त्रिरब्दात् तत्पदं व्रजेत् ॥
निरोधिनीपदार्थानां महाग्रन्थिपदे स्थिता
तारयेद् विदिता सन्ती अविज्ञाता प्रपातयेत् ॥
महामायार्णवं घोरं तारयेद् विदिता सती
महान्तारीति सा प्रोक्ता सर्वरूपोपरिस्थिता ॥
तस्या रूपम् अजानन्तः स्थूलसूक्ष्मसुसूक्ष्मगम्
न पश्यन्ति गुणं रूपं यावद् एषां न सङ्क्रमेत् ॥
पूजिता ध्यायिता माता पूर्वोक्ते क्रममण्डले
अष्टकोटिसुविस्तीर्णे त्रिकोट्योर्ध्वगुणोज्ज्वले ॥
तत्रस्थोच्चारिता ध्याता पूजिता तु फलप्रदा
साधयेत् सर्वरूपाणि वटेन्दीकुसुमार्चिता ॥
रूपं देव्यास् तु पूर्वोक्तम् अशेषगुणशालिनम्
किं तु नोच्चारितं तस्य स्थूलदेहं यथा स्थितम् ॥
तस्य चोच्चारणाद् देवि प्रबुद्धकिरणोज्ज्वला
यष्टीहता भुजङ्गीव पातयेद् अवलोकनात् ॥
तद्वद् एषा महावीर्या महान्तारी महाबला
विद्यायष्टिहता सन्ती सृष्टिचक्रे ह्य् अनेकधा ॥
षट्प्रकारोपरिस्था सा षड्वक्त्रा बृहदोदरा
भुजैर् द्वादशकोपेता कोटराक्षा सुभीषणा ॥
वज्रहस्ता तु वज्रस्था षड्योगिकुलमध्यगा
षष्ट्ःईशानसमायुक्ता सिद्धपङ्क्तौ निवेशिता ॥
विद्यादण्डसमायुक्ता तस्योच्चारं शृणुष्व मे
योगिनीनां कुलेशा तु गोपितान्यत्र शासने ॥
हा स्वा यै प्रथमं पदं ण्डा क डु कु द्वितीयकम्
डु कु टी ङ्ग तृतीयं तु पि टी ङ्ग रि चतुर्थकम् ॥
पञ्च पञ्च तथा पञ्च स्वरूपाक्षरमालिका
एषा साङ्केतिका प्रोक्ता संस्फुटा गुरुवानने ॥
एषोपायो महान्तार्या दुर्लभः प्रकटीकृतः
तस्यैवोच्चारणात् सर्वं कम्पते डामरीगणम् ॥
संहारक्रमषट्कस्य वृद्धाज्ञेयं प्रकीर्तिता
आज्ञा क्रमति भक्तानाम् अभक्तानां न सङ्क्रमेत् ॥
किं तु चाराधिता किञ्चित् पारम्पर्यौघम् आगता
उच्चरन्तो हनेच् छैलान् क्रुद्धस्यान्येषु का कथा ॥
अस्या देव्यार्चने ध्याने जपे हवनतत्परः
स्थूलं संसाधयेत् सर्वं महामायान्तकावधिम् ॥
यत् सञ्चिन्तयते रूपं तत् सर्वम् इच्छया भवेत्
महामायाविना योगी मायैव गुणकृद् भवेत् ॥
भूगुणो भूचरे मार्गे जलरूपो जलेश्वरः
तेजस्वी तेजसो मार्गे वायोर् वायुभृतेश्वरः ॥
व्योम्नि व्योमाधिपो योगी पञ्चान्तगुणयोगतः
त्रिपञ्चवर्षाद् ऊर्ध्वं च सर्वज्ञो गुण-म्-ईश्वरः ॥
वटेन्दीवरमालाभिः पूजयन्तौघसन्ततिम्
साधयेन् निखिलं रूपं स्थूलसूक्ष्मम् अतीन्द्रियम् ॥
तत्प्रसादेन मायोर्ध्वं भित्त्वा शक्तित्रयं व्रजेत्
तत्रैव सा महामाया सूक्ष्मरूपा सुसूक्ष्मगा ॥
खेचरे ऽनेकरूपा सा सूक्ष्मसूक्ष्मतरा परा
दृश्यते मृगतृष्णेव गुर्वाज्ञातोपदेशतः ॥
अकुलेश्वरदेवस्य पदान्तम् अनुवर्तिनी
विशुद्धमालिनी ह्य् एषा तदाभ्यासेन सर्ववित् ॥
अभ्यासो ऽप्य् अस्य कर्तव्यः पृष्ठे दत्त्वा तु भास्करम्
प्रासादगृहवृक्षाणां सन्ध्याकालान्तरे स्थितः ॥
अथ चेद् वृक्षमूलाधो मध्याह्ने समुपस्थिते
पस्यते रूपभृत् सर्वं सूक्ष्मसूक्ष्माणवो ह्रदम् ॥
रूपम् अन्यद् वरारोहे शृणुष्व करणात्मकम्
येन साधयते रूपं खेचरादिम् अनुक्रमात् ॥
सर्वसाधारणं देवि न भवत्य् अफलप्रदम्
यावन् न तत्प्रसादेन गुर्वाज्ञातः प्रवर्तते ॥
शुभे ऽहनि मुहूर्ते वा शिष्यम् एकान्ततो नयेत्
आज्ञां दत्त्वा प्रपूजित्वा कृत्वा मण्डलकादिकम् ॥
ततोपरि च संस्थाप्य निर्मले गगनान्तरे
छायां निरीक्षयित्वा तु कण्ठकूपोपदेशतः ॥
ततो निरीक्षयेद् व्योमं साकारं रूपदर्शनम्
पश्यते भास्करं बिम्बं शिवरूपं सदाशिवम् ॥
तं दृष्ट्वा पातकानां च अवसानं भविष्यति
षण्मासाभ्यासयोगेन भूचरीणां पतिर् भवेत् ॥
त्रिरब्देन तु भूनाथो हर्ता कर्ता स्वयं प्रभुः
अवस्थां त्यजते सर्वां पञ्चावस्थापरं व्रजेत् ॥
निराचारेण योगेन तन् नास्ति यन् न साधयेत्
उक्तानुक्तं तु देवेशि सर्वम् अस्मात् प्रसाधयेत् ॥
सकृदभ्यासयोगेन मासे वा त्व् अयने ऽपि वा
विन्दते ह्य् आगतं कालम् आपदो वात्मनः परे ॥
कृष्णवर्णेन देवेन षण्मासान् म्रियते ध्रुवम्
वक्त्रमूर्ध्नि भयं विन्द्यान् मूर्ध्नि पातान् म्रियेद् ध्रुवम् ॥
लोहिते ब्रह्महत्या तु पीते व्याधिभयं भवेत्
पादौ यत्र न दृश्येते विदेशगमनं भवेत् ॥
ऊरुमार्गे भवेद् रोगं गुह्ये वै नश्यते प्रिया
उदरे अर्थनाशं तु हृदये मृत्युभाग् भवेत् ॥
भुजहीने पतेद् बन्धुर् वामे भार्याभयं भवेत्
षण्मासाल्लक्षयेत् सर्वम् आत्मनश् च परस्य वा ॥
उपदेशेन देवेशि शेषं च गुरवाननात्
रूपपूर्णह्रदान्तस्थो रूपस्थो निरपेक्षधीः ॥
सूक्ष्मसूक्ष्मान्तरूपेण रूपातीतपदं व्रजेत्
योगसिद्धा महादेवि दृश्यन्ते व्योमगागणाः ॥
बिन्दुरूपास् तु ते सर्वे क्वचिद् दृश्यन्ति न क्वचित्
घटाधारगतं प्राणं कूर्मयन्त्रेण पीडयेत् ॥
नोच्छ्वसेन् मासम् एकं तु तथ्यं भैरव-म्-अब्रवीत्
भैरवोवाच कल्याणि कुलरूपं प्रकाशितम् ॥
अकुलं व्यापकं रूपं सुसूक्ष्मं शृणु साम्प्रतम्
एकानेकविभागेन संस्थिता व्योममालिनी ॥
अमृताम्भोधिमध्यस्था चारस्था चारवाहिनी
इच्छारूपधरा देवी कुब्जिनीति कुजाम्बिका ॥
द्विभुजैकमुखी देवी अथानेकभुजानना
चारस्था चारमध्यस्था चारदेहा चलेश्वरी ॥
चन्द्रगर्भस्य चर्येयं चारवी चण्डचण्डिका
पीठमध्यगता पूज्या चन्द्रगर्भसमन्विता ॥
षोडशारकमध्यस्था चतुर्वर्गफलोदया
पीठपीठाधिपैर् युक्ता सर्वज्ञा सर्वदायिका ॥
आज्ञावबोधजननी दिव्यरूपप्रकाशिनी
अस्याः प्रगोपितं रूपं योगिनीभिर् वरानने ॥
तेन रूपवतानां तु रूपव्याप्तिर् न सिध्यति
देदीप्यन्ती महानन्दा सहस्रादित्यवर्चसा ॥
स्फुरन्ती मालिका दिव्या आज्ञातः सम्प्रवर्तते
सदोदितं सदानन्दं परानन्दप्रदायकम् ॥
कलातीतं तु कालान्तम् आज्ञारूपोज्ज्वलं परम्
अनन्तं सकलं ज्ञानं दिव्याज्ञापरमोज्ज्वलम् ॥
उत्तरस्य च षट्कस्य रूपेदं परसम्भवम्
दक्षिणस्यापि षट्कस्य शक्तियुक्तस्य वर्णितम् ॥
स्थूलरूपं वरारोहे सर्वत्रैव प्रकाशितम्
उत्तरं गोपितं रूपं देवताभिः सुसिद्धिदम् ॥
कस्मात् सिध्यति शीघ्रेदम् अन्यत्र क्षपणाकुलम्
भैरवेण तु रूपेण भैरवत्वं प्रसाधयेत् ॥
विघ्नजालोज्झितं ह्य् एतत् तेनेदं शीघ्रसिद्धिदम्
अत्र रूपसमालब्धः पूर्वोक्तं लभते फलम् ॥
अकुलक्रममार्गेण आज्ञायोगेन सर्वथा
अकुलीनक्रमान्तस्थः कुब्जीशपदम् आश्रितः ॥
प्राप्यते भैरवानन्दं समस्तानन्दपूर्वकम्
तोषितो ऽहं त्वया देवि तेनेदं संस्फुटं मया ॥
कीर्तितं तव कल्याणि सुगोप्यं रूपसाधनम्
सर्वतन्त्रेषु लुप्तेदम् ईषद् योगिमते स्फुटम् ॥
मौक्तिकावलिसादृश्यं सितरक्तं तु पीतगम्
ग्रीवा कुण्डलिनी तस्य वियोगं तु तदा भवेत् ॥
चञ्चुप्रसारणे वर्षं दुर्भिक्षं चञ्चुसम्पुटे
कृष्णवर्णे भवेन् मृत्युः षण्मासात् तु न संशयः ॥
सर्वम् एव न पश्येत सद्यम् एव विनश्यति
भ्रूमध्यगतम् आत्मानं षडङ्गेन महामते ॥
दृश्यते सूर्यवद् बिम्बं प्रत्यक्षं चाग्रतः स्थितम्
ह्रस्वे नीले भयं विन्द्याद् दीर्घे स्थूले ह्य् अरोगता ॥
धूम्रे उच्चाटनं प्रोक्तं रक्ते रोगं वरानने
कृष्णे ब्रह्मविनाशं वा मृत्युर् एवाभिजायते ॥
समले तु तथा हानिर् नीलमाले तथापदः
वायव्यां तु यदा धूम्रां मालां पस्यति योगवित् ॥
तदा उच्चाटनं देवि नैरृत्यां दंष्ट्रिणो भयम्
आग्नेय्यां तु यदा भिन्नां मालां पश्यति योगवित् ॥
देशभ्रंशो ऽ ग्निदाहश् च राजा चैव विनश्यति
मध्ये तस्य यदा छिद्रं पश्यते योगचिन्तकः ॥
मृत्युस् तस्य वरारोहे दिवसैर् दशभिर् भवेत्
ईशाने स्थावरभयं कौबेर्याम् अर्थसिद्धिदम् ॥
ऐन्द्र्यां वै स्थानलाभं च वारुण्यां सुखम् एधते
याम्यायां म्रियते देवि नात्र कार्यविचारणात् ॥
सम्पूर्णं सुसमं पीतं स्निग्धं रूक्षत्ववर्जितम्
सामलं सिद्धिदं प्रोक्तं जीवादित्यं वरानने ॥
श्रीमत्कुब्जिमते सर्वं संस्फुटं कथितं तव
मालिनी व्योमसंस्था च बिन्दुर् व्योमे तथैव च ॥
कुलाख्यं पुरुषं व्योमे रूपातीतम् अतः शृणु ॥
ऊचुस् त्व् एवं पुनर् भद्रे रूपातीतस्य निर्णयम्
शृणुष्व सर्वभावेन अवज्ञारहिता सती ॥
अमनस्कं मनोऽतीतं भावाभावविवर्जितम्
लयोच्चारविनिर्मुक्तं हेतुतर्कविवर्जितम् ॥
हेयोपायविनिर्मुक्तं श्रुतिदृष्टान्तवर्जितम्
नास्तिक्यभावसम्पन्नं शून्यभूतम् अनामयम् ॥
प्रमेयावलियोगस्य अतीतं कारणेश्वरम्
अतीन्द्रियम् अनाभाषं पराकाशं तु तद् विदुः ॥
तस्योपायम् इदं सर्वं योगमार्गक्रियाध्वरम्
साध्यते येन मार्गेण रूपातीतं तु तच् छृणु ॥
व्योमं कृत्वा समाकाशे स संस्मृत्य विलापयेत्
अस्मिन् तं तु चिदाकाशे बाह्याकाशे स एव हि ॥
पराकाशे परे स्थाने यानाकाशम् अतोर्ध्वतः
रूपातीतं ततश् चोर्ध्वे निःसन्दिग्धं पदं परे ॥
बहुनोक्तेन किं देवि पूर्वं व्यावर्णितं मय
गुरोर् अस्य प्रसादेन लभ्यते परमं पदम् ॥
पूर्वं व्यावर्णितं तुभ्यम् अदृष्टगुणलक्षणम्
एतत् सर्वं समाख्यातं शाम्भवस्य गुणास्पदम् ॥
निराचारेण मार्गेण शाम्भवं तु समभ्यसेत्
किम् अभ्यासः पुनस् तस्य यस्य सर्वं पुरःसरम् ॥
यस्य सम्भवितं शम्भुम् अनन्तगुणदायकम्
योगात्मा वै स सर्वत्र पूज्यते योगिनीकुले ॥
यदि शम्भुविधेर् भक्तः संसारे विरतात्मनः
स साधयति सर्वज्ञो देहेनानेन सर्वगः ॥
न ध्यानं न जपः पूजा मण्डलादिप्रपूजनम्
निराचारविधानेन देहेनानेन भैरवि ॥
आत्मानं पूजयेन् नित्यं यथालब्धोपजीवकः
अग्निवत् सर्ववर्णेषु स शीघ्रं फलभाग् भवेत् ॥
प्राकृताम् अधमां सिद्धिं मध्यमां चोत्तमां च याम्
उत्तमोत्तमतां यान्ति षड्भिर् मासैः क्रमात् क्रमात् ॥
अधिकारपदस्थेन कर्तव्यं विधिपूर्वकम्
गुरुमण्डलकाद्यं च पूर्वाम्नायप्रपूजनम् ॥
श्रुतं सर्वं च देवेश पदार्थानां च निर्णयम्
किम् आम्नायं कथं पूजा एतद् आचक्ष्व भैरव ॥
देव्युक्तं च वचः श्रुत्वा भैरवो हसिताननः
पूजाम्नायम् इदं सर्वं कथ्यमानं न बुध्यसि ॥
द्वीपाम्नायस् तु प्रथमो देव्याम्नायो द्वितीयकः
पीठाम्नायस् तृतीयस् तु सिद्धाम्नायश् चतुर्थकः ॥
अस्योद्धारणम् एकत्र पूजनं तत् प्रकीर्तिर्तम्
गुप्तदेशे सुगन्धाढ्ये विविक्तोपद्रवोज्झिते ॥
पीठाः पीठाधिपाः सिद्धाः पीठाम्बास् तत्समीपतः
पीठमध्यगतां देवीं चतुःसिद्धसमन्विताम् ॥
मण्डलोत्तरदिग्भागे गुरुपङ्क्तिं प्रपूजयेत्
एतद् आम्नायम् आख्यातं किं तु मण्डलकान्वितम् ॥
तलहस्तप्रमाणेन योन्यग्रे मण्डलादिकम्
पूज्यो ऽहं मण्डले तत्र नवात्मानपदाक्षरैः ॥
आनन्दपदसंयुक्तं शक्तिभैरवपूर्वकम्
भैरवेति पदं पश्चाद् वीराधिपतयेति च ॥
सषोडशपदैर् युक्तः पूजनीयो ऽत्र मण्डले
आम्नायमण्डलं ह्य् एतत् समेखलचतुष्कलम् ॥
सर्वम् एतत् क्रमाम्नायं मण्डलोपरि मण्डलम्
पूजितेन भवत्य् आसु तत् सर्वम् उदितं मया ॥
अलिना पूरितं पात्रं समयालब्धोदकं पृथक्
कर्मकाले प्रकर्तव्यं पूजान्ते ऽर्घनिवेदनम् ॥
चन्दनैर् धूपनैवेद्यैर् दद्याद् आचमनं पृथक्
तस्मात् क्रियाकलापेन आराधनविधिं यजेत् ॥
दीपोत्सवं सनैवेद्यम् अलिपात्रं सफल्गुषम्
चक्रपूजाविधिर् ह्य् एवं कुर्याद् आराधने विधौ ॥
अथवाम्नायम् आधारं दिव्यौघागमपद्धतिम्
पूजयेत् सर्वभावेन सर्वाम्नायं स गोपयेत् ॥
अथाद्यमण्डलं योनेस् तद्वद् अस्य दिने दिने
कुर्वन्तस्य परा व्याप्तिः क्रमोघं सम्प्रवर्तते ॥
ओघाधारम् इदं दिव्यम् आगमं यः पठेद् इदम्
पादुकौ पूजयित्वा तु चतुर्दश्याष्टमीषु च ॥
पुष्पावरणके दिव्ये वस्त्रमाल्योपशोभिते
दिव्यगन्धसुगन्धाढ्ये दीपमालोपशोभिते ॥
सौवर्णरजतादीभिस् ताम्रलोहशिलामृदा
भक्त्या-देवं स्वशक्त्या च पिष्टदीपान् घृतान्वितान् ॥
नैवेद्यफल्गुषालिभ्यां पुष्पधूपैर् अनेकधा
एवं कृत्वा ततः पश्चाद् व्याख्याने वाचने ऽपि वा ॥
गुरुमण्डलकं कुर्यात् त्रिष्कालं पुस्तकाग्रतः
अहं वै गुरवस् तस्य यत्रास्ते चागमः स्वयम् ॥
गुरुवच् च प्रमन्तव्यं विद्याबोधपरं गुरुम्
न विना च गुरोर् विद्या न विद्यारहितो गुरुः ॥
यथा गुरुस् तथा विद्या यथा विद्या तथा गुरुः
प्राप्तविद्या गुरोः पार्श्वे विद्याप्राप्ते गुरुत्वता ॥
एवं चाम्नायिको मार्गः सर्वथा ग्रन्थतो ऽर्थतः
वेत्ति सिद्धः स मे तुल्यः सामान्यस् तत्समो न हि ॥
एष ते कौलिको मार्गः परमार्थोपदेशतः
कुलं च कुलविद्यां च कुलमार्गं कुलक्रमम् ॥
चतुष्कं यो विजानाति स भवेत् कुलनन्दनः
चतुष्टयं समाख्यातं पृच्छ-म्-अन्यं यथारुचि ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0